किं भक्ष्यं चाप्यभक्ष्यं च किंच देयं प्रशस्यते ।
किंच पात्रमपात्रं वा तन्मे ब्रूहि पितामह
kiṃ bhakṣyaṃ cāpyabhakṣyaṃ ca kiṃca deyaṃ praśasyate |
kiṃca pātramapātraṃ vā tanme brūhi pitāmaha
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चत्रिंशोऽध्यायः ॥
50 श्लोक · 35 में से 372
युधिष्ठिर पूछते हैं कि क्या खाने योग्य है, क्या देना उचित है और सुपात्र कौन है। व्यास बताते हैं कि एक बार ऋषियों ने स्वायम्भुव मनु से धर्म पूछा था। मनु कहते हैं कि जप, होम, उपवास, पुण्य नदियाँ और देवस्थान मनुष्य को पवित्र करते हैं। चोरी न करना, दान, स्वाध्याय, तप, अहिंसा, सत्य, अक्रोध और क्षमा धर्म के लक्षण हैं। जहाँ शास्त्र मौन हो वहाँ दस वेदज्ञ, या तीन धर्मज्ञ, निर्णय करें। वे अभक्ष्य गिनाते हैं: कुछ मछलियाँ, मेंढक, शिकारी पक्षी, मांसभक्षी पशु, भेड़ और ऊँटनी का दूध, सूतक का अन्न, सूदखोर, कृपण और गणिका का अन्न, और बासी भोजन। यश या भय से दान न दें। विद्याहीन ब्राह्मण काठ के हाथी जैसा है, उसे दिया दान निष्फल होता है।
युधिष्ठिर उवाच
किं भक्ष्यं चाप्यभक्ष्यं च किंच देयं प्रशस्यते ।
किंच पात्रमपात्रं वा तन्मे ब्रूहि पितामह
kiṃ bhakṣyaṃ cāpyabhakṣyaṃ ca kiṃca deyaṃ praśasyate |
kiṃca pātramapātraṃ vā tanme brūhi pitāmaha
व्यास उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः
atrāpyudāharantīmamitihāsaṃ purātanam |
siddhānāṃ caiva saṃvādaṃ manoścaiva prajāpateḥ
ऋषयस्तु व्रतपराः समागम्य पुरा विभुम् ।
धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम्
ṛṣayastu vrataparāḥ samāgamya purā vibhum |
dharmaṃ papracchurāsīnamādikāle prajāpatim
कथमन्त्रं कथं दानं गम्यागम्याः कथं स्त्रियः ।
कार्याकार्यं च यत्सर्वं शंस वै त्वं प्रजापते
kathamantraṃ kathaṃ dānaṃ gamyāgamyāḥ kathaṃ striyaḥ |
kāryākāryaṃ ca yatsarvaṃ śaṃsa vai tvaṃ prajāpate
तैरेवमुक्तो भगवान्मनुः स्वायंभुवोऽब्रवीत् ।
शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः
tairevamukto bhagavānmanuḥ svāyaṃbhuvo'bravīt |
śuśrūṣadhvaṃ yathāvṛttaṃ dharmaṃ vyāsasamāsataḥ
अनादेशे जपो होम उपवासस्तथैव च ।
आत्मज्ञानं पुण्यनद्यो यत्र प्रायश्च तत्पराः
anādeśe japo homa upavāsastathaiva ca |
ātmajñānaṃ puṇyanadyo yatra prāyaśca tatparāḥ
अनादिष्टं तथैतानि पुण्यानि धरणीभृतः ।
सुवर्णप्राशनमपि रत्नादिस्नानमेव च
anādiṣṭaṃ tathaitāni puṇyāni dharaṇībhṛtaḥ |
suvarṇaprāśanamapi ratnādisnānameva ca
देवस्थानाभिगमनमाज्यप्राशनमेव च ।
एतानि मेध्यं पुरुषं कुर्वन्त्याशु न संशयः
devasthānābhigamanamājyaprāśanameva ca |
etāni medhyaṃ puruṣaṃ kurvantyāśu na saṃśayaḥ
न गर्वेण भवेत्प्राज्ञः कदाचिदपि मानवः ।
दीर्घमायुरथेच्छन्हि त्रिरात्रं चोष्णपो भवेत्
na garveṇa bhavetprājñaḥ kadācidapi mānavaḥ |
dīrghamāyurathecchanhi trirātraṃ coṣṇapo bhavet
अदत्तस्यानुपादानं दानमध्ययनं तपः ।
अहिंसा सत्यमक्रोधं क्षमा धर्मस्य लक्षणम्
adattasyānupādānaṃ dānamadhyayanaṃ tapaḥ |
ahiṃsā satyamakrodhaṃ kṣamā dharmasya lakṣaṇam
स एव धर्मः सोऽधर्मो देशकाले प्रतिष्ठितः ।
आदानमनृतं हिंसा धर्मो ह्यात्यन्तिकः स्मृतः
sa eva dharmaḥ so'dharmo deśakāle pratiṣṭhitaḥ |
ādānamanṛtaṃ hiṃsā dharmo hyātyantikaḥ smṛtaḥ
द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम् ।
अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः
dvividhau cāpyubhāvetau dharmādharmau vijānatām |
apravṛttiḥ pravṛttiśca dvaividhyaṃ lokavedayoḥ
अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम् ।
अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च ।
एतयोश्चोभयोः स्यातां शुभाशुभतया तथा
apravṛtteramartyatvaṃ martyatvaṃ karmaṇaḥ phalam |
aśubhasyāśubhaṃ vidyācchubhasya śubhameva ca |
etayoścobhayoḥ syātāṃ śubhāśubhatayā tathā
दैवं च दैवसंयुक्तं प्राणश्च प्रलयस्तथा ।
अप्रेक्षापूर्वकरणादशुभानां शुभं फलम्
daivaṃ ca daivasaṃyuktaṃ prāṇaśca pralayastathā |
aprekṣāpūrvakaraṇādaśubhānāṃ śubhaṃ phalam
ऊर्ध्वं भवति संदेहादिहादिष्टार्थमेव च ।
अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते
ūrdhvaṃ bhavati saṃdehādihādiṣṭārthameva ca |
aprekṣāpūrvakaraṇātprāyaścittaṃ vidhīyate
क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः ।
शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये ।
तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति
krodhamohakṛte caiva dṛṣṭāntāgamahetubhiḥ |
śarīrāṇāmupakleśo manasaśca priyāpriye |
tadauṣadhaiśca mantraiśca prāyaścittaiśca śāmyati
उपवासेनैकरात्रं दण्डोत्सर्गे नराधिपः ।
विशुद्ध्येदात्मशुद्ध्यर्थं त्रिरात्रं तु पुरोहितः
upavāsenaikarātraṃ daṇḍotsarge narādhipaḥ |
viśuddhyedātmaśuddhyarthaṃ trirātraṃ tu purohitaḥ
क्षयं शोकं प्रकुर्वाणो न म्रियेत यदा नरः ।
शस्त्रादिभिरुपाविष्टस्त्रिरात्रं तत्र निर्दिशेत्
kṣayaṃ śokaṃ prakurvāṇo na mriyeta yadā naraḥ |
śastrādibhirupāviṣṭastrirātraṃ tatra nirdiśet
जातिश्रेण्यधिवासानां कुलधर्मांश्च शाश्वतान् ।
वर्जयन्ति च ये धर्मं तेषां धर्मो न विद्यते
jātiśreṇyadhivāsānāṃ kuladharmāṃśca śāśvatān |
varjayanti ca ye dharmaṃ teṣāṃ dharmo na vidyate
दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः ।
यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये
daśa vā vedaśāstrajñāstrayo vā dharmapāṭhakāḥ |
yadbrūyuḥ kārya utpanne sa dharmo dharmasaṃśaye
अनुष्णा मृत्तिका चैव तथा क्षुद्रपिपीलिकाः ।
श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च
anuṣṇā mṛttikā caiva tathā kṣudrapipīlikāḥ |
śleṣmātakastathā viprairabhakṣyaṃ viṣameva ca
अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः ।
चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये
abhakṣyā brāhmaṇairmatsyāḥ śakalairye vivarjitāḥ |
catuṣpātkacchapādanyo maṇḍūkā jalajāśca ye
भासा हंसाः सुपर्णाश्च चक्रवाकाः प्लवा बकाः ।
काको मद्रुश्च गृध्रश्च श्येनोलूकस्तथैव च
bhāsā haṃsāḥ suparṇāśca cakravākāḥ plavā bakāḥ |
kāko madruśca gṛdhraśca śyenolūkastathaiva ca
क्रव्यादा दंष्ट्रिणः सर्वे चतुष्पात्पक्षिणश्च ये ।
येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः
kravyādā daṃṣṭriṇaḥ sarve catuṣpātpakṣiṇaśca ye |
yeṣāṃ cobhayato dantāścaturdaṃṣṭrāśca sarvaśaḥ
एडकाश्च मृगोष्ट्राणां सूकराणां गवामपि ।
मानुषीणां खरीणां च न पिबेद्ब्राह्मणः पयः
eḍakāśca mṛgoṣṭrāṇāṃ sūkarāṇāṃ gavāmapi |
mānuṣīṇāṃ kharīṇāṃ ca na pibedbrāhmaṇaḥ payaḥ
प्रेतान्नं सूतकान्नं च यच्च किंचिदनिर्दशम् ।
अभोज्यं चाप्यपेयं च धेनोर्दुग्धमनिर्दशम्
pretānnaṃ sūtakānnaṃ ca yacca kiṃcidanirdaśam |
abhojyaṃ cāpyapeyaṃ ca dhenordugdhamanirdaśam
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।
आयुः सुवर्णकारान्नमवीरायाश्च योषितः
rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam |
āyuḥ suvarṇakārānnamavīrāyāśca yoṣitaḥ
विष्ठा वार्धुषिकस्यान्नं गणिकान्नमथेन्द्रियम् ।
मृष्यन्ति ये चोपपतिं स्त्रीजितान्नं च सर्वशः
viṣṭhā vārdhuṣikasyānnaṃ gaṇikānnamathendriyam |
mṛṣyanti ye copapatiṃ strījitānnaṃ ca sarvaśaḥ
दीक्षितस्य कदर्यस्य क्रतुविक्रयिकस्य च ।
तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च
dīkṣitasya kadaryasya kratuvikrayikasya ca |
takṣṇaścarmāvakartuśca puṃścalyā rajakasya ca
चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा ।
गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनां तथा
cikitsakasya yaccānnamabhojyaṃ rakṣiṇastathā |
gaṇagrāmābhiśastānāṃ raṅgastrījīvināṃ tathā
परिवित्तीनामपुंसां च बन्दिद्यूतविदां तथा ।
वामहस्ताहृतं चान्नं शुष्कं पर्युषितं च यत्
parivittīnāmapuṃsāṃ ca bandidyūtavidāṃ tathā |
vāmahastāhṛtaṃ cānnaṃ śuṣkaṃ paryuṣitaṃ ca yat
सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत् ।
पिष्टमांसेक्षुशाकानामाविकाजापयस्तथा ।
सक्तु धाना करम्भाश्च नोपभोग्याश्चिरस्थिताः
surānugatamucchiṣṭamabhojyaṃ śeṣitaṃ ca yat |
piṣṭamāṃsekṣuśākānāmāvikājāpayastathā |
saktu dhānā karambhāśca nopabhogyāścirasthitāḥ
पायसं कृसरं मांसमपूपाश्च वृथा कृताः ।
अपेयाश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः
pāyasaṃ kṛsaraṃ māṃsamapūpāśca vṛthā kṛtāḥ |
apeyāścāpyabhakṣyāśca brāhmaṇairgṛhamedhibhiḥ
देवानृषीन्मनुष्यांश्च पितॄन्गृह्याश्च देवताः ।
पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति
devānṛṣīnmanuṣyāṃśca pitṝngṛhyāśca devatāḥ |
pūjayitvā tataḥ paścādgṛhastho bhoktumarhati
यथा प्रव्रजितो भिक्षुस्तथैव स्वे गृहे वसेत् ।
एवंवृत्तः प्रियैर्दारैः संबसन्धर्ममाप्नुयात्
yathā pravrajito bhikṣustathaiva sve gṛhe vaset |
evaṃvṛttaḥ priyairdāraiḥ saṃbasandharmamāpnuyāt
न दद्याद्यशसे दानं न भयान्नोपकारिणे ।
न नृत्यगीतशीलेषु हासकेषु च धार्मिकः
na dadyādyaśase dānaṃ na bhayānnopakāriṇe |
na nṛtyagītaśīleṣu hāsakeṣu ca dhārmikaḥ
न मत्ते चैव नोन्मत्ते न स्तेने न च कुत्सके ।
न वाग्घीने विवर्णे वा नाङ्गहीने न वामने
na matte caiva nonmatte na stene na ca kutsake |
na vāgghīne vivarṇe vā nāṅgahīne na vāmane
न दुर्जने दौष्कुले वा व्रतैर्यो वा न संस्कृतः ।
न श्रोत्रियमृते दानं ब्राह्मणे ब्रह्मवर्जिते
na durjane dauṣkule vā vratairyo vā na saṃskṛtaḥ |
na śrotriyamṛte dānaṃ brāhmaṇe brahmavarjite
असम्यच्कैव यद्दत्तमसम्यक् च प्रतिग्रहः ।
उभयं स्यादनर्थाय दातुरादातुरेव च
asamyackaiva yaddattamasamyak ca pratigrahaḥ |
ubhayaṃ syādanarthāya dāturādātureva ca
यथा खदिरमालम्ब्य शिलां वाप्यर्णवं तरन् ।
मञ्जेत मञ्जतस्तद्वद्दाता यश्च प्रतिग्रही
yathā khadiramālambya śilāṃ vāpyarṇavaṃ taran |
mañjeta mañjatastadvaddātā yaśca pratigrahī
काष्ठैरार्द्रैर्यथा वह्निरुपस्तीर्णो न दीप्यते ।
तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही
kāṣṭhairārdrairyathā vahnirupastīrṇo na dīpyate |
tapaḥsvādhyāyacāritrairevaṃ hīnaḥ pratigrahī
कपाले यद्वदापः स्युः श्वदृतौ च यथा पयः ।
आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम्
kapāle yadvadāpaḥ syuḥ śvadṛtau ca yathā payaḥ |
āśrayasthānadoṣeṇa vṛttahīne tathā śrutam
निर्मन्त्रो निर्वृतो यः स्यादशास्त्रज्ञोऽनसूयकः ।
अनुक्रोशात्प्रदातव्यं हीनेष्वव्रतिकेषु च
nirmantro nirvṛto yaḥ syādaśāstrajño'nasūyakaḥ |
anukrośātpradātavyaṃ hīneṣvavratikeṣu ca
न वै देयमनुक्रोशाद्दीनायापगुणाय तु ।
आप्ताचरित इत्येव धर्म इत्येव वा पुनः
na vai deyamanukrośāddīnāyāpaguṇāya tu |
āptācarita ityeva dharma ityeva vā punaḥ
निष्कारणं स्मृतं दत्तं ब्राह्मणे ब्रह्मवर्जिते ।
न फलेत्पात्रदोषेण न चात्रास्ति विचारणा
niṣkāraṇaṃ smṛtaṃ dattaṃ brāhmaṇe brahmavarjite |
na phaletpātradoṣeṇa na cātrāsti vicāraṇā
यथा दारुमयो हस्ती यथा चर्ममयो मृगः ।
ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः
yathā dārumayo hastī yathā carmamayo mṛgaḥ |
brāhmaṇaścānadhīyānastrayaste nāmadhārakāḥ
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।
शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा
yathā ṣaṇḍho'phalaḥ strīṣu yathā gaurgavi cāphalā |
śakunirvāpyapakṣaḥ syānnirmantro brāhmaṇastathā
ग्रामस्थानं यथा शून्यं यथा कूपश्च निर्जलः ।
यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ
grāmasthānaṃ yathā śūnyaṃ yathā kūpaśca nirjalaḥ |
yathā hutamanagnau ca tathaiva syānnirākṛtau
देवतानां पितॄणां च हव्यकव्यविनाशकः ।
सर्वथाऽर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति
devatānāṃ pitṝṇāṃ ca havyakavyavināśakaḥ |
sarvathā'rthaharo mūrkho na lokānprāptumarhati
एतत्ते कथितं सर्वं यथावृत्तं युधिष्ठिर ।
समासेन महद्ध्येतच्छ्रोतव्यं नरतर्षभ
etatte kathitaṃ sarvaṃ yathāvṛttaṃ yudhiṣṭhira |
samāsena mahaddhyetacchrotavyaṃ naratarṣabha
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)