शान्ति पर्व

अध्याय 284: परिव्राजक के लिए हारीत का नियम

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुरशीत्यधिकद्विशततमोऽध्यायः ॥

23 श्लोक · 284 में से 372

इस अध्याय में क्या होता है

परिव्राजक के लिए हारीत का नियम

युधिष्ठिर पूछते हैं कि किस शील, आचार और विद्या से मनुष्य प्रकृति से परे ब्रह्म के धाम तक पहुँचता है। भीष्म उत्तर देते हैं कि मोक्षधर्म में लगा, अल्पाहारी, जितेन्द्रिय मनुष्य वहाँ पहुँचता है, और हारीत का गाया उपदेश सुनाते हैं। घर छोड़कर, लाभ और हानि में सम, संन्यासी निष्काम होकर विचरे। वह किसी को दोष न दे, किसी प्राणी को न सताए, किसी से वैर न करे। जब घर की अग्नि बुझ जाए, मूसल रख दिया जाए और लोग भोजन कर चुकें, तभी भिक्षा माँगे, जीने भर का ले, और सम्मान से दिया अन्न न ले। सूने घर या गुफा में रहे, और वाणी, क्रोध, पेट तथा उपस्थ के वेग को रोके। जो सबको अभय देकर घर छोड़ता है, वह तेजोमय लोकों को पाता है।

युधिष्ठिर उवाच

284.1

किंशीलः किंसमाचारः किंविद्यः किंपरायणः ।
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्

kiṃśīlaḥ kiṃsamācāraḥ kiṃvidyaḥ kiṃparāyaṇaḥ |
prāpnoti brahmaṇaḥ sthānaṃ yatparaṃ prakṛterdhruvam

भीष्म उवाच

284.2

मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः ।
प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम्

mokṣadharmeṣu nirato laghvāhāro jitendriyaḥ |
prāpnoti paramaṃ sthānaṃ yatparaṃ prakṛterdhruvam

284.3

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
हारीतेन पुरा गीतं तं निबोध युधिष्ठिर

atrāpyudāharantīmamitihāsaṃ purātanam |
hārītena purā gītaṃ taṃ nibodha yudhiṣṭhira

284.4

स्वगृहादभिनिःसृत्य लाभेऽलाभे समो मुनिः ।
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत्

svagṛhādabhiniḥsṛtya lābhe'lābhe samo muniḥ |
samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet

284.5

न चक्षुषा न मनसा न वाचा दूषयेत्परम् ।
न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत्क्वचित्

na cakṣuṣā na manasā na vācā dūṣayetparam |
na pratyakṣaṃ parokṣaṃ vā dūṣaṇaṃ vyāharetkvacit

284.6

न हिंस्यात्सर्वभूतानि मैत्रायणगतिश्चरेत् ।
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्

na hiṃsyātsarvabhūtāni maitrāyaṇagatiścaret |
nedaṃ jīvitamāsādya vairaṃ kurvīta kenacit

284.7

अतिवादांस्तितिक्षेत नाभिमन्येत कंचन ।
क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत्

ativādāṃstitikṣeta nābhimanyeta kaṃcana |
krodhyamānaḥ priyaṃ brūyādākruṣṭaḥ kuśalaṃ vadet

284.8

प्रदक्षिणं च सव्यं च ग्राममध्ये च नाचरेत् ।
भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतनम्

pradakṣiṇaṃ ca savyaṃ ca grāmamadhye ca nācaret |
bhaikṣacaryāmanāpanno na gacchetpūrvaketanam

284.9

अवकीर्णः सुगुप्तश्च न वाचाऽप्यप्रियं चरेत् ।
मृदुः स्यादप्रतीकारो विस्रब्धः स्यादरोषणः

avakīrṇaḥ suguptaśca na vācā'pyapriyaṃ caret |
mṛduḥ syādapratīkāro visrabdhaḥ syādaroṣaṇaḥ

284.10

विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ।
अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः

vidhūme nyastamusale vyaṅgāre bhuktavajjane |
atīte pātrasaṃcāre bhikṣāṃ lipseta vai muniḥ

284.11

प्राणयात्रिकमात्रः स्यान्मात्रालाभेष्वनादृतः ।
अलाभे न विहन्येत लाभश्चैनं न हर्षयेत्

prāṇayātrikamātraḥ syānmātrālābheṣvanādṛtaḥ |
alābhe na vihanyeta lābhaścainaṃ na harṣayet

284.12

लाभं साधारणां नेच्छेन्न भुञ्जीताभिपूजितः ।
अभिपूजितलाभं हि जुगुप्सेतैव तादृशः

lābhaṃ sādhāraṇāṃ necchenna bhuñjītābhipūjitaḥ |
abhipūjitalābhaṃ hi jugupsetaiva tādṛśaḥ

284.13

न चान्नदोषान्निन्देत न गुणानभिपूजयेत् ।
शय्यासने विविक्ते च नित्यमेवाभिपूजयेत्

na cānnadoṣānnindeta na guṇānabhipūjayet |
śayyāsane vivikte ca nityamevābhipūjayet

284.14

शून्यागारं वृक्षमूलमरण्यमथवा गुहाम् ।
अज्ञातचर्यां गत्वाऽन्यां ततोऽन्यत्रैव संविशेत्

śūnyāgāraṃ vṛkṣamūlamaraṇyamathavā guhām |
ajñātacaryāṃ gatvā'nyāṃ tato'nyatraiva saṃviśet

284.15

अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः ।
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि

anurodhavirodhābhyāṃ samaḥ syādacalo dhruvaḥ |
sukṛtaṃ duṣkṛtaṃ cobhe nānurudhyeta karmaṇi

284.16

नित्यतृप्तः सुसंतृष्टः प्रसन्नवदनेन्द्रियः ।
विभीर्जप्यपरो मौनी वैराग्यं समुपाश्रितः

nityatṛptaḥ susaṃtṛṣṭaḥ prasannavadanendriyaḥ |
vibhīrjapyaparo maunī vairāgyaṃ samupāśritaḥ

284.17

अभ्यस्तं भौतिकं पश्यन्भूतानामागतिं गतिम् ।
विस्मितः सर्वदर्शी च पक्वापक्वेन वर्तयन् ।
आत्मारामः प्रशान्तात्मा लघ्वाहारो जितेन्द्रियः

abhyastaṃ bhautikaṃ paśyanbhūtānāmāgatiṃ gatim |
vismitaḥ sarvadarśī ca pakvāpakvena vartayan |
ātmārāmaḥ praśāntātmā laghvāhāro jitendriyaḥ

284.18

वाचो वेगं मनसः क्रोधवेगं
हिंसावेगमुदरोपस्थवेगम् ।
एतान्वेगान्विनयेद्वै तपस्वी
निन्दा चास्य हृदयं नोपहन्यात्

vāco vegaṃ manasaḥ krodhavegaṃ
hiṃsāvegamudaropasthavegam |
etānvegānvinayedvai tapasvī
nindā cāsya hṛdayaṃ nopahanyāt

284.19

मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः ।
एतत्पवित्रं परमं परिव्राजक आश्रयेत्

madhyastha eva tiṣṭheta praśaṃsānindayoḥ samaḥ |
etatpavitraṃ paramaṃ parivrājaka āśrayet

284.20

महात्मा सर्वतो दान्तः सर्वत्रैवानपाश्रितः ।
अपूर्वचारकः सौम्यो ह्यनिकेतः समाहितः

mahātmā sarvato dāntaḥ sarvatraivānapāśritaḥ |
apūrvacārakaḥ saumyo hyaniketaḥ samāhitaḥ

284.21

वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् ।
अज्ञातलिप्सं लिप्सेत न चैनं हर्ष आविशेत्

vānaprasthagṛhasthābhyāṃ na saṃsṛjyeta karhicit |
ajñātalipsaṃ lipseta na cainaṃ harṣa āviśet

284.22

विजानतां मोक्ष एष श्रमः स्यादविजानताम् ।
मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत्

vijānatāṃ mokṣa eṣa śramaḥ syādavijānatām |
mokṣayānamidaṃ kṛtsnaṃ viduṣāṃ hārito'bravīt

284.23

अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात् ।
लोकास्तेजोमयास्तस्य तथाऽनन्त्याय कल्पते

abhayaṃ sarvabhūtebhyo dattvā yaḥ pravrajedgṛhāt |
lokāstejomayāstasya tathā'nantyāya kalpate

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)