भूतानां गुणसङ्ख्यानं भूयः पुत्र निशामय ।
द्वैपायनमुखाद्धष्टं श्लाघया परयाऽनघ
bhūtānāṃ guṇasaṅkhyānaṃ bhūyaḥ putra niśāmaya |
dvaipāyanamukhāddhaṣṭaṃ ślāghayā parayā'nagha
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वँणि एकषष्ट्यधिकद्विशततमोऽध्यायः ॥
13 श्लोक · 261 में से 372
भीष्म अब युधिष्ठिर को वह गुण गणना बताते हैं जो उन्होंने स्वयं व्यास से सुनी थी। पृथ्वी में स्थिरता, भार, कठोरता, उपजाऊपन, गन्ध, आधार और धृति है। जल में शीतलता, रस, आर्द्रता, द्रवता और कोमलता है। अग्नि में ताप, प्रकाश, पाचन, शुद्धता, रंग, तीक्ष्णता और ऊपर उठने का स्वभाव है। वायु में स्पर्श, वाणी का स्थान, स्वतन्त्रता, बल और वेग है। आकाश में शब्द, व्यापकता, छिद्र और आधार तथा अवरोध का अभाव है। सब मिलकर पचास गुण होते हैं। मन के नौ गुण हैं, जैसे कल्पना, क्षमा और शीघ्रता; बुद्धि के पाँच, जैसे निश्चय, संशय और प्रतिपत्ति। युधिष्ठिर पूछते हैं कि बुद्धि के पाँच गुण कैसे हैं। भीष्म उत्तर देते हैं कि प्रकृति से उत्पन्न साठ गुण प्राणियों से जुड़े कहे गए हैं; यह जानकर वे मन से शान्त हों।
भीष्म उवाच
भूतानां गुणसङ्ख्यानं भूयः पुत्र निशामय ।
द्वैपायनमुखाद्धष्टं श्लाघया परयाऽनघ
bhūtānāṃ guṇasaṅkhyānaṃ bhūyaḥ putra niśāmaya |
dvaipāyanamukhāddhaṣṭaṃ ślāghayā parayā'nagha
दीप्तानलनिभः प्राह भगवान्धूमवत्सलः ।
ततोऽहमपि वक्ष्यामि भूयः पुत्र निदर्शनम्
dīptānalanibhaḥ prāha bhagavāndhūmavatsalaḥ |
tato'hamapi vakṣyāmi bhūyaḥ putra nidarśanam
भूमेः स्थैर्यं गुरुत्वं च काठिन्यं प्रसवात्मता ।
गन्धो भारश्च शक्तिश्च संघातः स्थापना धृतिः
bhūmeḥ sthairyaṃ gurutvaṃ ca kāṭhinyaṃ prasavātmatā |
gandho bhāraśca śaktiśca saṃghātaḥ sthāpanā dhṛtiḥ
अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता ।
जिह्वाविस्यन्दनं चापि भौमानां श्रपणं तथा
apāṃ śaityaṃ rasaḥ kledo dravatvaṃ snehasaumyatā |
jihvāvisyandanaṃ cāpi bhaumānāṃ śrapaṇaṃ tathā
अग्नेर्दुर्धर्षता ज्योतिस्तापः पाकः प्रकाशनम् ।
शौचं रागो लघुस्तैक्ष्ण्यं सततं चोर्ध्वभागिता
agnerdurdharṣatā jyotistāpaḥ pākaḥ prakāśanam |
śaucaṃ rāgo laghustaikṣṇyaṃ satataṃ cordhvabhāgitā
वायोरनियमस्पर्शो वादस्थानं स्वतन्त्रता ।
बलं शैध्यं च मोक्षं च कर्म चेष्टात्मता भवः
vāyoraniyamasparśo vādasthānaṃ svatantratā |
balaṃ śaidhyaṃ ca mokṣaṃ ca karma ceṣṭātmatā bhavaḥ
आकाशस्य गुणः शब्दो व्यापित्वं छिद्रताऽपि च ।
अनाश्रयमनालम्बमव्यक्तमविकारिता
ākāśasya guṇaḥ śabdo vyāpitvaṃ chidratā'pi ca |
anāśrayamanālambamavyaktamavikāritā
अप्रतीघातिता चैव श्रोतत्वं विवराणि च ।
गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतविभाविताः
apratīghātitā caiva śrotatvaṃ vivarāṇi ca |
guṇāḥ pañcāśataṃ proktāḥ pañcabhūtavibhāvitāḥ
फलोपपत्तिर्व्यक्तिश्च विसर्गः कल्पना क्षमा ।
सदसच्चाशुता चैव मनसो नव वै गुणाः
phalopapattirvyaktiśca visargaḥ kalpanā kṣamā |
sadasaccāśutā caiva manaso nava vai guṇāḥ
इष्टानिष्टविपत्तिश्च व्यवसायः समाधिता ।
संशयः प्रतिपत्तिश्च बुद्धेः पञ्च गुणान्विदुः
iṣṭāniṣṭavipattiśca vyavasāyaḥ samādhitā |
saṃśayaḥ pratipattiśca buddheḥ pañca guṇānviduḥ
युधिष्ठिर उवाच
कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः ।
एतन्मे सर्वमाचक्ष्व सूक्ष्मज्ञानं पितामह
kathaṃ pañcaguṇā buddhiḥ kathaṃ pañcendriyā guṇāḥ |
etanme sarvamācakṣva sūkṣmajñānaṃ pitāmaha
भीष्म उवाच
आहुः षष्टिं भूतगुणान्वै
भूतविषक्तान्प्रकृतिविसृष्टान् ।
नित्यविषक्तांश्चाक्षरसृष्टा
न्पुत्र न नित्यं तदिह वदन्ति
āhuḥ ṣaṣṭiṃ bhūtaguṇānvai
bhūtaviṣaktānprakṛtivisṛṣṭān |
nityaviṣaktāṃścākṣarasṛṣṭā
nputra na nityaṃ tadiha vadanti
तत्पुत्रचिन्ताकलिलं तदुक्त
मनागतं वै तव संप्रतीह ।
भूतार्थवत्त्वं तदवाप्य सर्वं
भूतप्रभावाद्भव शान्तबुद्धिः
tatputracintākalilaṃ tadukta
manāgataṃ vai tava saṃpratīha |
bhūtārthavattvaṃ tadavāpya sarvaṃ
bhūtaprabhāvādbhava śāntabuddhiḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)