शान्ति पर्व

अध्याय 259: स्वप्न और गर्भ में सूक्ष्म आत्मा

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनषष्ट्यधिकद्विशततमोऽध्यायः ॥

15 श्लोक · 259 में से 372

इस अध्याय में क्या होता है

स्वप्न और गर्भ में सूक्ष्म आत्मा

व्यास समझाते हैं कि शास्त्र के अनुसार चलने वाले लोग शास्त्र में बताए लक्षणों से देह से मुक्त सूक्ष्म देही को देखते हैं। मुक्त प्राणी किरणों के पुंज की भाँति लोकों में विचरते हैं, और सत्त्वगुणी उन्हें वैसे देखता है जैसे जल में सूर्य का प्रतिबिम्ब दिखता है। योगियों के लिए आत्मा दिन और रात समान रूप से वश में रहता है। सात सूक्ष्म तत्त्वों से युक्त भूतात्मा अजर और अमर है। स्वप्न में भी वह जागते की भाँति सुख दुःख जानता है। दस मास गर्भ में रहकर भी वह अन्न की भाँति पचता नहीं। रज और तम से ढके लोग हृदय में स्थित इस तेजस्वी आत्मा को नहीं देखते; उनसे मुक्त योगी देखते हैं। व्यास समाधि पर शाण्डिल्य का उपदेश उद्धृत करते हैं।

व्यास उवाच

259.1

शरीराद्विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम् ।
कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः

śarīrādvipramuktaṃ hi sūkṣmabhūtaṃ śarīriṇam |
karmabhiḥ paripaśyanti śāstroktaiḥ śāstracetasaḥ

259.2

यथा मरीच्यः सहिताश्चरन्ति
गच्छन्ति तिष्ठन्ति च दृश्यमानाः ।
देहैर्विमुक्तानि वरन्ति लोकां
स्तथैव सत्वान्यतिमानुषाणि

yathā marīcyaḥ sahitāścaranti
gacchanti tiṣṭhanti ca dṛśyamānāḥ |
dehairvimuktāni varanti lokāṃ
stathaiva satvānyatimānuṣāṇi

259.3

प्रतिरूपं यथैवाप्सु तावत्सूर्यस्य लक्ष्यते ।
सत्ववांस्तु तथा सत्वं प्रतिरूपं स पश्यति

pratirūpaṃ yathaivāpsu tāvatsūryasya lakṣyate |
satvavāṃstu tathā satvaṃ pratirūpaṃ sa paśyati

259.4

तानि सूक्ष्माणि सत्वानि विमुक्तानि शरीरतः ।
तेन तत्वेन तत्वज्ञाः पश्यन्ति नियतेन्द्रियाः

tāni sūkṣmāṇi satvāni vimuktāni śarīrataḥ |
tena tatvena tatvajñāḥ paśyanti niyatendriyāḥ

259.5

स्वपतां जाग्रतां चैष सर्वेषामात्मचिन्तितम् ।
प्रधानाद्वैधयुक्तानां दह्यते कर्मजं रजः

svapatāṃ jāgratāṃ caiṣa sarveṣāmātmacintitam |
pradhānādvaidhayuktānāṃ dahyate karmajaṃ rajaḥ

259.6

यथाऽहनि तथा रात्रौ यथा रात्रौ तथाऽहनि ।
वशे तिष्ठति सत्वात्मा सततं योगयोगिनाम्

yathā'hani tathā rātrau yathā rātrau tathā'hani |
vaśe tiṣṭhati satvātmā satataṃ yogayoginām

259.7

तेषां नित्यं सदा नित्यो भूतात्मा सततं गुणैः ।
सप्तभिस्त्वन्वितः सूक्ष्मैश्चरिष्णुरजरामरः

teṣāṃ nityaṃ sadā nityo bhūtātmā satataṃ guṇaiḥ |
saptabhistvanvitaḥ sūkṣmaiścariṣṇurajarāmaraḥ

259.8

मनोवुद्धिपराभूतः स्वदेहपरदेहवित् ।
स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखयोः

manovuddhiparābhūtaḥ svadehaparadehavit |
svapneṣvapi bhavatyeṣa vijñātā sukhaduḥkhayoḥ

259.9

तत्रापि लभते दुःखं तत्रापि लभते सुखम् ।
कामं क्रोधं च तत्रापि कृत्वा व्यसनमृच्छति

tatrāpi labhate duḥkhaṃ tatrāpi labhate sukham |
kāmaṃ krodhaṃ ca tatrāpi kṛtvā vyasanamṛcchati

259.10

प्रीणितश्चापि भवति महतोऽर्थानवाप्य हि ।
करोति पुण्यं तत्रापि जाग्रन्निव च पश्यति

prīṇitaścāpi bhavati mahato'rthānavāpya hi |
karoti puṇyaṃ tatrāpi jāgranniva ca paśyati

259.11

सदोष्मान्तर्गतश्चापि गर्भत्वं समुपेयिवान् ।
दश मासान्वसन्कुक्षौ नैषोऽन्नमिव जीर्यते

sadoṣmāntargataścāpi garbhatvaṃ samupeyivān |
daśa māsānvasankukṣau naiṣo'nnamiva jīryate

259.12

तमेतमतितेजोंशं भूतात्मानं हृदि स्थितम् ।
तमोरजोभ्यामाविष्टा नानुपश्यन्ति मूर्तिषु

tametamatitejoṃśaṃ bhūtātmānaṃ hṛdi sthitam |
tamorajobhyāmāviṣṭā nānupaśyanti mūrtiṣu

259.13

योगशास्त्रपरा भूत्वा स्वमात्मानं परीप्सवः ।
तमोरजोभ्यां निर्मुक्तास्तं प्रपश्यन्ति मूर्तिषु ।
अनुच्छ्वासान्यमूर्तानि यानि वज्रोपमान्यपि

yogaśāstraparā bhūtvā svamātmānaṃ parīpsavaḥ |
tamorajobhyāṃ nirmuktāstaṃ prapaśyanti mūrtiṣu |
anucchvāsānyamūrtāni yāni vajropamānyapi

259.14

पृथग्भूतेषु सृष्टेषु चतुर्ष्वाश्रमकर्मसु ।
समाधौ योगमेवैतच्छाण्डिल्यः सममब्रवीत्

pṛthagbhūteṣu sṛṣṭeṣu caturṣvāśramakarmasu |
samādhau yogamevaitacchāṇḍilyaḥ samamabravīt

259.15

विदित्वा सप्तसूक्ष्माणि षडङ्गं च महेश्वरम् ।
प्रधानविनियोगज्ञः परं ब्रह्मानुपश्यति

viditvā saptasūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram |
pradhānaviniyogajñaḥ paraṃ brahmānupaśyati

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)