द्वन्द्वासि मोक्षजिज्ञासुरर्थधर्मानुतिष्ठतः ।
वक्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत्
dvandvāsi mokṣajijñāsurarthadharmānutiṣṭhataḥ |
vakrā guṇavatā śiṣyaḥ śrāvyaḥ pūrvamidaṃ mahat
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः ॥
12 श्लोक · 258 में से 372
व्यास यह उपदेश मोक्ष चाहने वाले योग्य शिष्य के लिए कहते हैं। वे शरीर को पाँच महाभूतों में बाँटते हैं। आकाश भीतर का अवकाश है, उसकी इन्द्रिय कान और गुण शब्द है। वायु चेष्टा है, प्राण और अपान है, उसकी इन्द्रिय त्वचा और गुण स्पर्श है। तेज ताप, पाचन और प्रकाश है, उसकी इन्द्रिय नेत्र और गुण रूप है। जल गीलापन, द्रवता और रक्त है, उसकी इन्द्रिय जिह्वा और गुण रस है। पृथ्वी ठोस ढाँचा है, हड्डियाँ, दाँत, नख, केश, नसें और चमड़ी, उसकी इन्द्रिय नासिका और गुण गन्ध है। बाद के भूत में पहले के सब गुण रहते हैं। मन नवाँ, बुद्धि दसवीं और अन्तरात्मा ग्यारहवाँ तथा सर्वोच्च है। जो यह सब निर्मल बुद्धि से देखता है, वह मोह में नहीं पड़ता।
व्यास उवाच
द्वन्द्वासि मोक्षजिज्ञासुरर्थधर्मानुतिष्ठतः ।
वक्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत्
dvandvāsi mokṣajijñāsurarthadharmānutiṣṭhataḥ |
vakrā guṇavatā śiṣyaḥ śrāvyaḥ pūrvamidaṃ mahat
आकाशं मारुतो ज्योतिरा--पृथ्वी च पञ्चमी ।
भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु
ākāśaṃ māruto jyotirā--pṛthvī ca pañcamī |
bhāvābhāvau ca kālaśca sarvabhūteṣu pañcasu
अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम् ।
तस्य शब्दं गुणं विद्यान्मुनिः शास्त्रविधानवित्
antarātmakamākāśaṃ tanmayaṃ śrotramindriyam |
tasya śabdaṃ guṇaṃ vidyānmuniḥ śāstravidhānavit
चरणं मारुतात्मेति प्राणापानौ च तन्मयौ ।
स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम्
caraṇaṃ mārutātmeti prāṇāpānau ca tanmayau |
sparśanaṃ cendriyaṃ vidyāttathā sparśaṃ ca tanmayam
तापः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम् ।
तस्य रूपं गुणं विद्यात्तमोनाशकमात्मवान्
tāpaḥ pākaḥ prakāśaśca jyotiścakṣuśca tanmayam |
tasya rūpaṃ guṇaṃ vidyāttamonāśakamātmavān
प्रक्लेदो द्रवता स्नेह इत्यपामुपदिश्यते ।
[असृङ्भज्जा च यच्चान्यत्स्निग्धं विद्यात्तदात्मकम् ॥]
रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः
prakledo dravatā sneha ityapāmupadiśyate |
[asṛṅbhajjā ca yaccānyatsnigdhaṃ vidyāttadātmakam ||]
rasanaṃ cendriyaṃ jihvā rasaścāpāṃ guṇo mataḥ
संघातः पार्थिवो धातुरस्थिदन्तनखानि च ।
श्मश्चु रोम च केशाश्च सिरा स्नायु च चर्म च
saṃghātaḥ pārthivo dhāturasthidantanakhāni ca |
śmaścu roma ca keśāśca sirā snāyu ca carma ca
इन्द्रियं घ्राणसंज्ञातं नासिकेत्यभिसंज्ञिता ।
गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः
indriyaṃ ghrāṇasaṃjñātaṃ nāsiketyabhisaṃjñitā |
gandhaścaivendriyārtho'yaṃ vijñeyaḥ pṛthivīmayaḥ
उत्तरेषु गुणाः सर्वे सन्ति पूर्वेषु नोत्तराः ।
पञ्चानां भूतसङ्घानां संततिं मुनयो विदुः
uttareṣu guṇāḥ sarve santi pūrveṣu nottarāḥ |
pañcānāṃ bhūtasaṅghānāṃ saṃtatiṃ munayo viduḥ
मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता ।
एकादशस्त्वन्तरात्मा स सर्वः पर उच्यते
mano navamameṣāṃ tu buddhistu daśamī smṛtā |
ekādaśastvantarātmā sa sarvaḥ para ucyate
व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम् ।
कर्मानुमानाद्विज्ञेयः स जीवः क्षेत्रसंज्ञकः
vyavasāyātmikā buddhirmano vyākaraṇātmakam |
karmānumānādvijñeyaḥ sa jīvaḥ kṣetrasaṃjñakaḥ
एभिः कालात्मकैर्भावैर्यः सर्वैः सर्वमन्वितम् ।
पश्यत्यकलुयं बुद्ध्या स मोहं नानुवर्तते
ebhiḥ kālātmakairbhāvairyaḥ sarvaiḥ sarvamanvitam |
paśyatyakaluyaṃ buddhyā sa mohaṃ nānuvartate
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)