शान्ति पर्व

अध्याय 244: पुरुषार्थ, दैव और युगों पर व्यास

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥

21 श्लोक · 244 में से 372

इस अध्याय में क्या होता है

पुरुषार्थ, दैव और युगों पर व्यास

व्यास अपने पुत्र शुक को उपदेश आगे बढ़ाते हैं। कोई पुरुषार्थ को फल का कारण कहता है, कोई दैव को, कोई स्वभाव को; सत्त्व में स्थित लोग इन्हें एक ही देखते हैं। कृतयुग में मनुष्य शान्त तपस्वी थे, ऋक्, साम और यजुः में भेद नहीं देखते थे और तप से सब इच्छित वस्तुएँ, यहाँ तक कि प्राणियों पर प्रभुत्व भी पाते थे। प्रत्येक वर्ण का अपना यज्ञ है: क्षत्रिय का आरम्भ यज्ञ, वैश्य का हविर्यज्ञ, शूद्र का सेवा यज्ञ और द्विजों का जप यज्ञ। त्रेता में सब वेद, यज्ञ और आश्रम पूर्ण थे; द्वापर और कलि में वे घटते हैं और अधर्म से ढक जाते हैं, फिर वर्षा के बाद पौधों की भाँति युग युग में लौट आते हैं।

व्यास उवाच

244.1

एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते ।
ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिद्ध्यति

eṣā pūrvatarā vṛttirbrāhmaṇasya vidhīyate |
jñānavāneva karmāṇi kurvansarvatra siddhyati

244.2

तत्र चेन्न भवेदेवं संशयः कर्मनिश्चये ।
किंतु कर्मस्वभावोऽयं ज्ञानं कर्मेति वा पुनः

tatra cenna bhavedevaṃ saṃśayaḥ karmaniścaye |
kiṃtu karmasvabhāvo'yaṃ jñānaṃ karmeti vā punaḥ

244.3

तत्र वेदविवित्सायां ज्ञानं चेत्पुरुषं प्रति ।
उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच्छॄणु

tatra vedavivitsāyāṃ jñānaṃ cetpuruṣaṃ prati |
upapattyupalabdhibhyāṃ varṇayiṣyāmi tacchṝṇu

244.4

पौरुषं कारणं केचिदाहुः कर्मसु मानवाः ।
दैवमेके प्रशंसन्ति स्वभावमपरे जनाः

pauruṣaṃ kāraṇaṃ kecidāhuḥ karmasu mānavāḥ |
daivameke praśaṃsanti svabhāvamapare janāḥ

244.5

पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः ।
त्रयमेतत्पृथग्भूतमविवेकं तु केचन

pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ |
trayametatpṛthagbhūtamavivekaṃ tu kecana

244.6

एतदेवं च नैवं न च चोभे नानुभे तथा ।
कर्मस्था विषयं ब्रूयुः सत्वस्थाः समदर्शिनः

etadevaṃ ca naivaṃ na ca cobhe nānubhe tathā |
karmasthā viṣayaṃ brūyuḥ satvasthāḥ samadarśinaḥ

244.7

त्रेतायां द्वापरे चैव कलिजाश्च ससंशयाः ।
तपस्विनः प्रशान्ताश्च सत्वस्थाश्च कृते युगे

tretāyāṃ dvāpare caiva kalijāśca sasaṃśayāḥ |
tapasvinaḥ praśāntāśca satvasthāśca kṛte yuge

244.8

अपृथग्दर्शनाः सर्वे ऋक्सामसु यजुःषु च ।
कामद्वषौ पृथग्दृष्ट्वा तपः कृत उपासते

apṛthagdarśanāḥ sarve ṛksāmasu yajuḥṣu ca |
kāmadvaṣau pṛthagdṛṣṭvā tapaḥ kṛta upāsate

244.9

तपोधर्मेण संयुक्तस्तपोनित्यः सुसंशितः ।
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति

tapodharmeṇa saṃyuktastaponityaḥ susaṃśitaḥ |
tena sarvānavāpnoti kāmānyānmanasecchati

244.10

तपसा तदवाप्नोति यद्भूतं सृजते जगत् ।
तद्भूतश्च ततः सर्वभूतानां भवति प्रभुः

tapasā tadavāpnoti yadbhūtaṃ sṛjate jagat |
tadbhūtaśca tataḥ sarvabhūtānāṃ bhavati prabhuḥ

244.11

तदुक्तं वेदवादेषु गहनं वेददर्शिभिः ।
वेदान्तेषु पुनर्व्यक्तं क्रमयोगेन लक्ष्यते

taduktaṃ vedavādeṣu gahanaṃ vedadarśibhiḥ |
vedānteṣu punarvyaktaṃ kramayogena lakṣyate

244.12

आरम्भयज्ञाः क्षव्राश्च हविर्यज्ञा विशः स्मृताः ।
परिचारयज्ञाः शूद्राश्च जपयज्ञा द्विजातयः

ārambhayajñāḥ kṣavrāśca haviryajñā viśaḥ smṛtāḥ |
paricārayajñāḥ śūdrāśca japayajñā dvijātayaḥ

244.13

परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत् ।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते

pariniṣṭhitakāryo hi svādhyāyena dvijo bhavet |
kuryādanyanna vā kuryānmaitro brāhmaṇa ucyate

244.14

त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास्तथा ।
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे

tretādau sakalā vedā yajñā varṇāśramāstathā |
saṃrodhādāyuṣastvete vyasyante dvāpare yuge

244.15

द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा ।
दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः किल

dvāpare viplavaṃ yānti vedāḥ kaliyuge tathā |
dṛśyante nāpi dṛśyante kalerante punaḥ kila

244.16

उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः ।
गवां भूमेश्च ये चापामोषधीनां च ये रसाः

utsīdanti svadharmāśca tatrādharmeṇa pīḍitāḥ |
gavāṃ bhūmeśca ye cāpāmoṣadhīnāṃ ca ye rasāḥ

244.17

अधर्मान्तर्हिता वेदा वेदधर्मास्तथाऽऽश्रमाः ।
विक्रियन्ते स्वधर्माश्च स्थावराणि चराणि च

adharmāntarhitā vedā vedadharmāstathā''śramāḥ |
vikriyante svadharmāśca sthāvarāṇi carāṇi ca

244.18

यथा सर्वाणि भूतानि वृष्टथा तृप्यन्ति प्रावृषि ।
सृजन्ते सर्वतोऽङ्गानि तथा वेदा युगेयुगे

yathā sarvāṇi bhūtāni vṛṣṭathā tṛpyanti prāvṛṣi |
sṛjante sarvato'ṅgāni tathā vedā yugeyuge

244.19

विहितं कालनानात्वमनादिनिधनं च यत् ।
कीर्तितं यत्पुरस्तात्ते यतः संयान्ति च प्रजाः

vihitaṃ kālanānātvamanādinidhanaṃ ca yat |
kīrtitaṃ yatpurastātte yataḥ saṃyānti ca prajāḥ

244.20

यच्चेदं प्रभवः स्थानं भूतानां संयमो यमः ।
स्वभावेनैव वर्तन्ते द्वन्द्वसृष्टानि भूरिशः

yaccedaṃ prabhavaḥ sthānaṃ bhūtānāṃ saṃyamo yamaḥ |
svabhāvenaiva vartante dvandvasṛṣṭāni bhūriśaḥ

244.21

सर्गः कालो धृतिर्वेदाः कर्ता कार्यं क्रियाफलम् ।
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि

sargaḥ kālo dhṛtirvedāḥ kartā kāryaṃ kriyāphalam |
etatte kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)