शान्ति पर्व

अध्याय 171: बकराज की हत्या और कृतघ्न का दण्ड

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकसप्तत्यधिकशततमोऽध्यायः ॥

27 श्लोक · 171 में से 372

इस अध्याय में क्या होता है

बकराज की हत्या और कृतघ्न का दण्ड

राजधर्मा अतिथि की रक्षा के लिए अग्नि जलाकर विश्वासपूर्वक उसके पास सो जाता है। रात में गौतम जलती लकड़ी से उसे मार डालता है, भूनता है और मांस तथा सोना लेकर भाग जाता है। दो दिन तक बकराज के न आने पर विरूपाक्ष चिन्तित होता है, क्योंकि उसने गौतम के मुख पर क्रूरता पढ़ ली थी, और अपने पुत्र को भेजता है। राक्षस वटवृक्ष के नीचे राजधर्मा को मरा पाते हैं, गौतम को पकड़ते हैं और बकराज के अवशेष के साथ नगर लाते हैं। विरूपाक्ष उसके वध की आज्ञा देता है। पर कोई राक्षस, दास या मांसभक्षी प्राणी उस कृतघ्न का मांस खाना नहीं चाहता। उसके टुकड़े कर दिए जाते हैं। भीष्म शिक्षा बताते हैं: ब्रह्महत्यारे, चोर और गुरुतल्पगामी का प्रायश्चित्त है, पर कृतघ्न का कोई प्रायश्चित्त नहीं।

भीष्म उवाच

171.1

अथ तत्र महार्चिष्माननलो वातसारथिः ।
तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतोऽभवत्

atha tatra mahārciṣmānanalo vātasārathiḥ |
tasyāvidūre rakṣārthaṃ khagendreṇa kṛto'bhavat

171.2

स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट् तदा ।
कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरजागरीत्

sa cāpi pārśve suṣvāpa viśvasto bakarāṭ tadā |
kṛtaghnastu sa duṣṭātmā taṃ jighāṃsurajāgarīt

171.3

ततोऽलातेन दीप्तेन स सुप्तं निजघान तम् ।
निहत्य च मुदा युक्तः सोऽनुबन्धं न दृष्टवान्

tato'lātena dīptena sa suptaṃ nijaghāna tam |
nihatya ca mudā yuktaḥ so'nubandhaṃ na dṛṣṭavān

171.4

स तं विपक्षरोमाणं कृत्वाऽग्नावपचत्तदा ।
तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः

sa taṃ vipakṣaromāṇaṃ kṛtvā'gnāvapacattadā |
taṃ gṛhītvā suvarṇaṃ ca yayau drutataraṃ dvijaḥ

171.5

ततो दाक्षायणीपुत्रं नागतं तं तु भारत ।
विरूपाक्षश्चिन्तयन्वै हृदयेन विदूयता

tato dākṣāyaṇīputraṃ nāgataṃ taṃ tu bhārata |
virūpākṣaścintayanvai hṛdayena vidūyatā

171.6

ततोऽन्यस्मिन्गते चाह्नि विरूपाक्षोऽब्रवीत्सुतम् ।
न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम् ।

tato'nyasmingate cāhni virūpākṣo'bravītsutam |
na prekṣe rājadharmāṇamadya putra khagottamam |

171.7

स पूर्वसन्ध्यां ब्रह्माणं वन्दितुं याति सर्वदा ।
मां चादृष्ट्वा कदाचित्स न गच्छति गृहं खगः

sa pūrvasandhyāṃ brahmāṇaṃ vandituṃ yāti sarvadā |
māṃ cādṛṣṭvā kadācitsa na gacchati gṛhaṃ khagaḥ

171.8

द्विरात्रमुभयोः सन्ध्योर्नाभ्यगच्छन्ममालयम् ।
तस्मान्न शुद्ध्यते भावो मम स ज्ञायतां सुहृत्

dvirātramubhayoḥ sandhyornābhyagacchanmamālayam |
tasmānna śuddhyate bhāvo mama sa jñāyatāṃ suhṛt

171.9

स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः ।
स गतस्तत्र मे शङ्का हन्यात्तं स द्विजाधमः

svādhyāyena viyukto hi brahmavarcasavarjitaḥ |
sa gatastatra me śaṅkā hanyāttaṃ sa dvijādhamaḥ

171.10

दुराचारः स दुर्बुद्धिरिङ्गितैर्लक्षितो मया ।
निष्कृपो दारुणाकारो दुष्टो दस्युरिवाधमः ।
गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम

durācāraḥ sa durbuddhiriṅgitairlakṣito mayā |
niṣkṛpo dāruṇākāro duṣṭo dasyurivādhamaḥ |
gautamaḥ sa gatastatra tenodvignaṃ mano mama

171.11

पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम् ।
ज्ञायतां स विशुद्धात्मा यदि जीवति वा चिरम्

putra śīghramito gatvā rājadharmaniveśanam |
jñāyatāṃ sa viśuddhātmā yadi jīvati vā ciram

171.12

स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ ।
* न्यग्रोधे राजधर्माणमपश्यन्निहतं ततः

sa evamuktastvarito rakṣobhiḥ sahito yayau |
* nyagrodhe rājadharmāṇamapaśyannihataṃ tataḥ

171.13

रुदित्वा बहुशस्तस्मै विलप्य च स राक्षसः ।
गतो रोषसमाविष्टो गौतमग्रहणाय वै

ruditvā bahuśastasmai vilapya ca sa rākṣasaḥ |
gato roṣasamāviṣṭo gautamagrahaṇāya vai

171.14

गृहीतो गौतमः पापो रक्षोभिः क्रोधमूर्च्छितैः ।
राजधर्मशरीरस्य कङ्कालश्चाप्यथो धृतः

gṛhīto gautamaḥ pāpo rakṣobhiḥ krodhamūrcchitaiḥ |
rājadharmaśarīrasya kaṅkālaścāpyatho dhṛtaḥ

171.15

मनुव्रजं तु नगरं यातुधानास्ततो गताः ।
क्रोधरक्तेक्षणा घोरा गौतमस्य वधे धृताः

manuvrajaṃ tu nagaraṃ yātudhānāstato gatāḥ |
krodharaktekṣaṇā ghorā gautamasya vadhe dhṛtāḥ

171.16

पार्थिवस्वाग्रतो न्यस्तः कङ्कालो राजधर्मणः ।
तं दृष्ट्वा विमना राजा सामात्यः सगणोऽभवत्

pārthivasvāgrato nyastaḥ kaṅkālo rājadharmaṇaḥ |
taṃ dṛṣṭvā vimanā rājā sāmātyaḥ sagaṇo'bhavat

171.17

आर्तरावो महानासीद्गृहे तस्य महात्मनः ।
समुत्थितः स्रीसङ्घस्य निहते काश्यपात्मजे

ārtarāvo mahānāsīdgṛhe tasya mahātmanaḥ |
samutthitaḥ srīsaṅghasya nihate kāśyapātmaje

171.18

राजा चैवाब्रवीत्पुत्रं पापोऽयं वध्यतामिति

rājā caivābravītputraṃ pāpo'yaṃ vadhyatāmiti

राक्षमा ऊचुः

171.19

अस्य मांसं वयं सर्वे खादिष्यामः समागताः ।
पापकृत्पापकर्मा च पापात्मा पापमास्थितः ।
हन्तव्य एव पापात्मा कृतघ्नो नात्र संशयः

asya māṃsaṃ vayaṃ sarve khādiṣyāmaḥ samāgatāḥ |
pāpakṛtpāpakarmā ca pāpātmā pāpamāsthitaḥ |
hantavya eva pāpātmā kṛtaghno nātra saṃśayaḥ

विरूपाक्ष उवाच

171.20

कृतघ्नं पापकर्माणां न भक्षयितुमुत्सहे ।
दासेभ्यो दीयतामेप मित्रध्रुक्पुरुपाधमः

kṛtaghnaṃ pāpakarmāṇāṃ na bhakṣayitumutsahe |
dāsebhyo dīyatāmepa mitradhrukpurupādhamaḥ

भीष्म उवाच

171.21

दासाः सर्वे समाहूता यातुधानास्तथा परे ।
नेच्छन्ति स्म कृतघ्नं तं खादितुं पुरुषोत्तम

dāsāḥ sarve samāhūtā yātudhānāstathā pare |
necchanti sma kṛtaghnaṃ taṃ khādituṃ puruṣottama

171.22

शिरोभिश्चागता भूमिं महाराज ततो बलात् ।
मानार्थं जातु निर्बन्धं किल्विषं दातुमर्हसि

śirobhiścāgatā bhūmiṃ mahārāja tato balāt |
mānārthaṃ jātu nirbandhaṃ kilviṣaṃ dātumarhasi

171.23

यातुधाना नृपेणोक्ताः पापकर्मा विशस्यताम् ।
दह्यतां त्यज्यतां वाऽयं दर्शनादपनीयताम्

yātudhānā nṛpeṇoktāḥ pāpakarmā viśasyatām |
dahyatāṃ tyajyatāṃ vā'yaṃ darśanādapanīyatām

171.24

ततस्ते रुपिता दासाः शूलपट्टसपाणयः ।
खण्डशो विकृतं हत्वा क्रव्याद्भ्यो ह्यददुस्तदा

tataste rupitā dāsāḥ śūlapaṭṭasapāṇayaḥ |
khaṇḍaśo vikṛtaṃ hatvā kravyādbhyo hyadadustadā

171.25

क्रव्यादास्त्वपि राजेन्द्र नेच्छन्ति पिशिताशनाः ।
मृतानपि हि क्रव्यादाः कृतघ्नान्नोपभुञ्जते

kravyādāstvapi rājendra necchanti piśitāśanāḥ |
mṛtānapi hi kravyādāḥ kṛtaghnānnopabhuñjate

171.26

ब्रह्मस्वहरणे चोरे ब्रह्मघ्ने गुरुतल्पगे ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः

brahmasvaharaṇe core brahmaghne gurutalpage |
niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ

171.27

मित्रद्रुहं कृतघ्नं च नृशंसं च नराधमम् ।
क्रव्यादाः किमयश्चैव नोपभुञ्जन्ति वै सदा

mitradruhaṃ kṛtaghnaṃ ca nṛśaṃsaṃ ca narādhamam |
kravyādāḥ kimayaścaiva nopabhuñjanti vai sadā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)