शान्ति पर्व

अध्याय 169: बकराज गौतम को विरूपाक्ष के पास भेजता है

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकोनसप्तत्यधिकशततमोऽध्यायः ॥

26 श्लोक · 169 में से 372

इस अध्याय में क्या होता है

बकराज गौतम को विरूपाक्ष के पास भेजता है

राजधर्मा गौतम को बताता है कि मैं कश्यप और दक्ष की एक पुत्री का पुत्र हूँ। वह विधि से अतिथि का सत्कार करता है, साल-पुष्पों का आसन बिछाता है, अग्नि जलाकर गंगा की बड़ी मछलियाँ परोसता है और पंखों से हवा करता है। गोत्र पूछने पर अतिथि केवल इतना कहता है कि मैं गौतम हूँ, निर्धन ब्राह्मण, धन के लिए समुद्र की ओर जा रहा हूँ। बकराज कहता है, चिन्ता मत करो; बृहस्पति के मत से धन मित्र, विद्या, स्वर्ण और बुद्धि से आता है, और तुम्हें मित्र मिल गया है। सुबह वह गौतम को तीन योजन दूर अपने सखा, राक्षसों के महाबली राजा विरूपाक्ष के पास भेजता है। गौतम पत्थर के परकोटे वाले नगर पहुँचता है, और विरूपाक्ष श्वेत पगड़ी वाले सेवक भेजकर उसे शीघ्र महल में बुलवाता है।

भीष्म उवाच

169.1

गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा ।
कौतूहलान्वितो राजन्राजधर्माणमैक्षत

giraṃ tāṃ madhurāṃ śrutvā gautamo vismitastadā |
kautūhalānvito rājanrājadharmāṇamaikṣata

राजधर्मोवाच

169.2

भोः काश्यपस्य पुत्रोऽहं माता दाक्षायणी मम ।
सती त्वं च गुणोपेतः स्वागतं ते द्विजोत्तम

bhoḥ kāśyapasya putro'haṃ mātā dākṣāyaṇī mama |
satī tvaṃ ca guṇopetaḥ svāgataṃ te dvijottama

भीष्म उवाच

169.3

तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा ।
शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत्

tasmai dattvā sa satkāraṃ vidhidṛṣṭena karmaṇā |
śālapuṣpamayīṃ divyāṃ bṛsīṃ samupakalpayat

169.4

भगीरथरथाक्रान्तदेशान्गङ्गानिषेवितान् ।
ये चरन्ति महामीनास्तांश्च तस्यान्वकल्पयत्

bhagīratharathākrāntadeśāngaṅgāniṣevitān |
ye caranti mahāmīnāstāṃśca tasyānvakalpayat

169.5

वह्निं चापि सुसंदीप्तं मीनांश्चापि सुपीवरान् ।
स गौतमायातिथये न्यवेदयत काश्यपिः

vahniṃ cāpi susaṃdīptaṃ mīnāṃścāpi supīvarān |
sa gautamāyātithaye nyavedayata kāśyapiḥ

169.6

भुक्तवन्तं च तं विप्रं प्रीतात्मानं महामनाः ।
श्रमापनयनार्थं स पक्षाभ्यामभ्यवीजयत्

bhuktavantaṃ ca taṃ vipraṃ prītātmānaṃ mahāmanāḥ |
śramāpanayanārthaṃ sa pakṣābhyāmabhyavījayat

169.7

तनो विश्रान्तमासीनं गोत्रवृत्तमपृच्छत ।
सोऽब्रवीद्गौतमोऽस्मीति ब्राह्मणोस्मीत्युदाहरत्

tano viśrāntamāsīnaṃ gotravṛttamapṛcchata |
so'bravīdgautamo'smīti brāhmaṇosmītyudāharat

169.8

तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम् ।
गन्धाढ्यं शयनं प्रादात्स शिश्ये तत्र वै सुखम्

tasmai parṇamayaṃ divyaṃ divyapuṣpādhivāsitam |
gandhāḍhyaṃ śayanaṃ prādātsa śiśye tatra vai sukham

169.9

अपोपविष्टं शयने गौतमं वाक्यवित्तमः ।
पप्रच्छ काश्यपिर्वाग्मी किमागमनमित्युत

apopaviṣṭaṃ śayane gautamaṃ vākyavittamaḥ |
papraccha kāśyapirvāgmī kimāgamanamityuta

169.10

ततोऽब्रवीद्गौतमस्तं दरिद्रोऽहं महामते ।
समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारत

tato'bravīdgautamastaṃ daridro'haṃ mahāmate |
samudragamanākāṅkṣī dravyārthamiti bhārata

169.11

तं काश्यपोऽब्रवीत्प्रीत्या नोत्कण्ठां कर्तुमर्हसि ।
कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान्

taṃ kāśyapo'bravītprītyā notkaṇṭhāṃ kartumarhasi |
kṛtakāryo dvijaśreṣṭha sadravyo yāsyase gṛhān

169.12

चतुर्विधा ह्यर्थगतिर्बृहस्पतिमतं यथा ।
मित्रं विद्या हिरण्यं च बुद्धिश्चेति बुधेप्सिता

caturvidhā hyarthagatirbṛhaspatimataṃ yathā |
mitraṃ vidyā hiraṇyaṃ ca buddhiśceti budhepsitā

169.13

प्रादुर्भूतोऽस्मि ते मित्रं सुहृत्त्वं च महत्तरम् ।
सोऽहं तथा यतिष्यामि भविष्यसि यथार्थवान्

prādurbhūto'smi te mitraṃ suhṛttvaṃ ca mahattaram |
so'haṃ tathā yatiṣyāmi bhaviṣyasi yathārthavān

169.14

ततः प्रभातसमये सुखं पृष्ट्वाऽब्रवीदिदम् ।
गच्छ सौम्य पथाऽनेन कृतकृत्यो भविष्यसि

tataḥ prabhātasamaye sukhaṃ pṛṣṭvā'bravīdidam |
gaccha saumya pathā'nena kṛtakṛtyo bhaviṣyasi

169.15

इतस्त्रियोजनं गत्वा राक्षसाधिपतिर्महान् ।
विरूपाक्ष इति ख्यातः सखा मम महाबलः

itastriyojanaṃ gatvā rākṣasādhipatirmahān |
virūpākṣa iti khyātaḥ sakhā mama mahābalaḥ

169.16

तं गच्छ द्विजमुख्य त्वं स मद्वाक्यप्रचोदितः ।
कामानभीप्सितांस्तुभ्यं दाता नास्त्यत्र संशयः

taṃ gaccha dvijamukhya tvaṃ sa madvākyapracoditaḥ |
kāmānabhīpsitāṃstubhyaṃ dātā nāstyatra saṃśayaḥ

169.17

इत्युक्तः प्रययौ राजन्गौतमो विगतक्लमः ।
फलान्यमृतकल्पानि भक्षयानो यथेष्टतः

ityuktaḥ prayayau rājangautamo vigataklamaḥ |
phalānyamṛtakalpāni bhakṣayāno yatheṣṭataḥ

169.18

चन्दनागुरुमुख्यानि पत्रत्वचवनानि च ।
तस्मिन्पथि महाराज सेवमानो द्रुतं ययौ

candanāgurumukhyāni patratvacavanāni ca |
tasminpathi mahārāja sevamāno drutaṃ yayau

169.19

ततो मनुव्रजं नाम नगरं शैलतोरणम् ।
शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा

tato manuvrajaṃ nāma nagaraṃ śailatoraṇam |
śailaprākāravapraṃ ca śailayantrārgalaṃ tathā

169.20

विदितश्चाभवत्तस्य राक्षसेन्द्रस्य धीमतः ।
प्रहितः सुहृदा राजन्प्रीयमाणः प्रियातिथिः

viditaścābhavattasya rākṣasendrasya dhīmataḥ |
prahitaḥ suhṛdā rājanprīyamāṇaḥ priyātithiḥ

169.21

ततः स राक्षसेन्द्रः स्वान्प्रेष्यानाह युधिष्ठिर ।
गौतमो नगरद्वाराच्छीघ्रमानीयतामिति

tataḥ sa rākṣasendraḥ svānpreṣyānāha yudhiṣṭhira |
gautamo nagaradvārācchīghramānīyatāmiti

169.22

तस्मात्पुरवरात्तूर्णं पुरुषाः श्वेतवेष्टनाः ।
गौतमेत्यभिभाषन्तः पुरद्वारमुपागमन्

tasmātpuravarāttūrṇaṃ puruṣāḥ śvetaveṣṭanāḥ |
gautametyabhibhāṣantaḥ puradvāramupāgaman

169.23

ते तमूचुर्महाराज राजप्रेष्यास्तदा द्विजम् ।
त्वरस्व तूर्णमागच्छ राजा त्वां द्रष्टुमिच्छति

te tamūcurmahārāja rājapreṣyāstadā dvijam |
tvarasva tūrṇamāgaccha rājā tvāṃ draṣṭumicchati

169.24

राक्षसाधिपतिर्वीरो विरूपाक्ष इति श्रुतः ।
स त्वां त्वरति वै द्रष्टुं तत्क्षिप्रं संविधीयताम्

rākṣasādhipatirvīro virūpākṣa iti śrutaḥ |
sa tvāṃ tvarati vai draṣṭuṃ tatkṣipraṃ saṃvidhīyatām

169.25

ततः स प्राद्रवद्विप्रो विस्मयाद्विगतक्लमः ।
गौतमः परमर्द्धि तां पश्यन्परमविस्मितः

tataḥ sa prādravadvipro vismayādvigataklamaḥ |
gautamaḥ paramarddhi tāṃ paśyanparamavismitaḥ

169.26

तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत् ।
दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस्तदा

taireva sahito rājño veśma tūrṇamupādravat |
darśanaṃ rākṣasendrasya kāṅkṣamāṇo dvijastadā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)