शान्ति पर्व

अध्याय 162: नृशंस पुरुष के लक्षण

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः ॥

13 श्लोक · 162 में से 372

इस अध्याय में क्या होता है

नृशंस पुरुष के लक्षण

युधिष्ठिर सज्जनों को देखकर अनृशंसता जानते हैं, पर पूछते हैं कि नृशंस को कैसे पहचानें, जिससे लोग काँटों, कुएँ और आग की भाँति बचते हैं। भीष्म उसका वर्णन करते हैं। वह भीतर लालसा रखता है, गाली देता है और गाली खाता है। अपने दान का बखान करता है, कुटिल, क्षुद्र, कपटी, अभिमानी और कृपण होता है। धर्मात्मा को पापी समझता है और अपने स्वभाव से तौलकर किसी का विश्वास नहीं करता। दूसरों के छिपे दोष प्रकट करता है, उपकारी को ठगा हुआ मानता है और दिए धन पर पछताता है। जो दूसरों के देखते अच्छा भोजन अकेला खाए वह नृशंस है। जो पहले ब्राह्मणों को अग्रभाग देकर मित्रों के साथ खाए, वह स्वर्ग पाता है।

युधिष्ठिर उवाच

162.1

आनृशंस्यं विजानामि दर्शनेन सतां सदा ।
नृशंसान्न विजानामि तेषां कर्म च भारत

ānṛśaṃsyaṃ vijānāmi darśanena satāṃ sadā |
nṛśaṃsānna vijānāmi teṣāṃ karma ca bhārata

162.2

कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः ।
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम्

kaṇṭakānkūpamagniṃ ca varjayanti yathā narāḥ |
tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram

162.3

नृशंसो दह्यते व्यक्तं प्रेत्य चेह च भारत ।
तस्मात्त्वं ब्रूहि कौरव्य तस्य धर्मविनिश्चयम्

nṛśaṃso dahyate vyaktaṃ pretya ceha ca bhārata |
tasmāttvaṃ brūhi kauravya tasya dharmaviniścayam

भीष्म उवाच

162.4

स्पृहाऽस्यान्तर्गता चैव विदितार्था च कर्मणाम्
आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते स च

spṛhā'syāntargatā caiva viditārthā ca karmaṇām
ākroṣṭā kruśyate caiva bandhitā badhyate sa ca

162.5

दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः ।
असंभोगी च मानी च तथा सङ्गी विकत्थनः

dattānukīrtirviṣamaḥ kṣudro naikṛtikaḥ śaṭhaḥ |
asaṃbhogī ca mānī ca tathā saṅgī vikatthanaḥ

162.6

सर्वातिशङ्की पुरुषो बलीशः कृपणोऽथवा ।
वर्गप्रशंसीं सततमाश्रमद्वेपसंकरी

sarvātiśaṅkī puruṣo balīśaḥ kṛpaṇo'thavā |
vargapraśaṃsīṃ satatamāśramadvepasaṃkarī

162.7

हिंसाविकारी सततमविशेषगुणागुणः ।
बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत्

hiṃsāvikārī satatamaviśeṣaguṇāguṇaḥ |
bahvalīko manasvī ca lubdho'tyarthaṃ nṛśaṃsakṛt

162.8

धर्मशीलं गुणोपेतं पाप इत्यवगच्छति ।
आत्मशीलोपमानेन न विश्वसिति कस्यचित्

dharmaśīlaṃ guṇopetaṃ pāpa ityavagacchati |
ātmaśīlopamānena na viśvasiti kasyacit

162.9

परेषां यत्र दोपः स्यात्तद्गुह्यं संप्रकाशयेत् ।
समानेष्वेव दोपेषु वृत्त्यर्थमुपघातयेत्

pareṣāṃ yatra dopaḥ syāttadguhyaṃ saṃprakāśayet |
samāneṣveva dopeṣu vṛttyarthamupaghātayet

162.10

तथोपकारिणं चैव मन्यते वञ्चितं परम् ।
दत्त्वाऽपि च धनं काले संतपत्युपकारिणे

tathopakāriṇaṃ caiva manyate vañcitaṃ param |
dattvā'pi ca dhanaṃ kāle saṃtapatyupakāriṇe

162.11

भक्ष्यं पेयमथालेह्यं यच्चान्यत्साधु भोजनम् ।
प्रेक्षमाणेषु योऽश्नीयान्नृशंसमिति तं वदेत्

bhakṣyaṃ peyamathālehyaṃ yaccānyatsādhu bhojanam |
prekṣamāṇeṣu yo'śnīyānnṛśaṃsamiti taṃ vadet

162.12

ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते ।
स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते

brāhmaṇebhyaḥ pradāyāgraṃ yaḥ suhṛdbhiḥ sahāśnute |
sa pretya labhate svargamiha cānantyamaśnute

162.13

एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः ।
सदा विवर्जनीयो हि पुरुषेण बुभूषता

eṣa te bharataśreṣṭha nṛśaṃsaḥ parikīrtitaḥ |
sadā vivarjanīyo hi puruṣeṇa bubhūṣatā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)