अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्वावेतौ सुखमेधेते दीर्घसूत्री विनश्यति
anāgatavidhātā ca pratyutpannamatiśca yaḥ |
dvāvetau sukhamedhete dīrghasūtrī vinaśyati
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः ॥
24 श्लोक · 137 में से 372
भीष्म कहते हैं कि आने वाले संकट का पहले उपाय करने वाला और समय पर सूझबूझ रखने वाला, दोनों सुखी रहते हैं; दीर्घसूत्री नष्ट होता है। वे एक उथले जलाशय की तीन मछलियों की कथा सुनाते हैं: एक दीर्घदर्शी, एक प्रत्युत्पन्नमति और एक दीर्घसूत्री। मछुआरे जलाशय खाली करने लगे। दीर्घदर्शी ने कहा कि मार्ग सूखने से पहले चलो, और अकेली गहरे जल में चली गई। दीर्घसूत्री ने जल्दी नहीं मानी; प्रत्युत्पन्नमति ने कहा समय आने पर उपाय करूँगी। मछुआरों ने मछलियों को रस्सी में गूँथा। प्रत्युत्पन्नमति रस्सी मुँह में दबाकर बँधी जैसी दिखी और धोते समय छूट निकली। दीर्घसूत्री मारी गई। भीष्म कहते हैं कि हर शास्त्र में देश और काल प्रधान हैं। यहाँ कुछ श्लोक खण्डित हैं।
भीष्म उवाच
अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्वावेतौ सुखमेधेते दीर्घसूत्री विनश्यति
anāgatavidhātā ca pratyutpannamatiśca yaḥ |
dvāvetau sukhamedhete dīrghasūtrī vinaśyati
अत्रैव चेदमव्यग्रं शृण्वाख्यानमनुत्तमम् ।
द्रीर्घसूत्रमुपाश्रित्य कार्याकार्यविनिश्चये
atraiva cedamavyagraṃ śṛṇvākhyānamanuttamam |
drīrghasūtramupāśritya kāryākāryaviniścaye
नातिगाधे जलस्थाने सुहृदः कुशलास्त्रयः ।
प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः
nātigādhe jalasthāne suhṛdaḥ kuśalāstrayaḥ |
prabhūtamatsye kaunteya babhūvuḥ sahacāriṇaḥ
तत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथाऽपरः ।
दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम्
tatraikaḥ prāptakālajño dīrghadarśī tathā'paraḥ |
dīrghasūtraśca tatraikastrayāṇāṃ jalacāriṇām
क्रदाचित्तज्जलस्थानं मत्स्यबन्धाः समन्ततः ।
स्रावयामासुरथो निम्नेषु विविधैर्मुखैः
kradācittajjalasthānaṃ matsyabandhāḥ samantataḥ |
srāvayāmāsuratho nimneṣu vividhairmukhaiḥ
क्षीयमाणं तद्बुद्ध्वा जलस्थानं भयागमे ।
अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा
kṣīyamāṇaṃ tadbuddhvā jalasthānaṃ bhayāgame |
abravīddīrghadarśī tu tāvubhau suhṛdau tadā
ज्ञयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम् ।
शीघ्रमन्यत्र गच्छामः पन्था यावन्न शुष्यति
jñayamāpatsamutpannā sarveṣāṃ salilaukasām |
śīghramanyatra gacchāmaḥ panthā yāvanna śuṣyati
अनागतमनर्थं हि सुनयैर्यः प्रबाधते ।
स न संशयमाप्नोति तथाऽन्यत्र व्रजामहे
anāgatamanarthaṃ hi sunayairyaḥ prabādhate |
sa na saṃśayamāpnoti tathā'nyatra vrajāmahe
शीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुष्यताम् ।
न तु कार्या त्वरा तावदिति मे निश्चिता मतिः
śīrghasūtrastu yastatra so'bravītsamyaguṣyatām |
na tu kāryā tvarā tāvaditi me niścitā matiḥ
अथ संप्रतिपत्तिज्ञस्त्वब्रवीद्दीर्घदर्शिनम् ।
प्राप्ते काले न मे किंचिन्न्यायतः परिहास्यते
atha saṃpratipattijñastvabravīddīrghadarśinam |
prāpte kāle na me kiṃcinnyāyataḥ parihāsyate
एवप्नुक्तो निराक्रामद्दीर्घदर्शी महामतिः ।
अगाम स्रोतसैकेन गम्भीरं सलिलाशयम्
evapnukto nirākrāmaddīrghadarśī mahāmatiḥ |
agāma srotasaikena gambhīraṃ salilāśayam
ततः प्रसृततोयं तं प्रसमीक्ष्य जलाशयम् ।
बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः
tataḥ prasṛtatoyaṃ taṃ prasamīkṣya jalāśayam |
babandhurvividhairyogairmatsyānmatsyopajīvinaḥ
विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये ।
अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरै----
viloḍyamāne tasmiṃstu srutatoye jalāśaye |
agacchadgrahaṇaṃ tatra dīrghasūtraḥ sahāparai----
उद्दानं क्रियमाणं तु मत्स्यानां ------ ।
प्रविश्यान्तरमन्येषामग्रसत्प्रति-------
uddānaṃ kriyamāṇaṃ tu matsyānāṃ ------ |
praviśyāntaramanyeṣāmagrasatprati-------
ग्रस्तमेव तदुद्दानं गृहीत्वा----सः ।
सर्वानेव च तांस्तत्र ते वि--- इति
grastameva taduddānaṃ gṛhītvā----saḥ |
sarvāneva ca tāṃstatra te vi--- iti
ततः प्रक्षाल्यमानेषु मत्स्येषु विपुले जले ।
त्वक्त्वा रज्जुं प्रमुक्तोसौ शीघ्रं संप्रतिपत्तिमान्
tataḥ prakṣālyamāneṣu matsyeṣu vipule jale |
tvaktvā rajjuṃ pramuktosau śīghraṃ saṃpratipattimān
दीर्घसूत्रस्तु मन्दात्मा हीनेयुद्धिरचेतनः ।
मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः
dīrghasūtrastu mandātmā hīneyuddhiracetanaḥ |
maraṇaṃ prāptavānmūḍho yathaivopahatendriyaḥ
एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते ।
स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः
evaṃ prāptatamaṃ kālaṃ yo mohānnāvabudhyate |
sa vinaśyati vai kṣipraṃ dīrghasūtro yathā jhaṣaḥ
आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान् ।
स हि संशयमाप्नोति यथा संप्रतिपत्तिमान्
ādau na kurute śreyaḥ kuśalo'smīti yaḥ pumān |
sa hi saṃśayamāpnoti yathā saṃpratipattimān
अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्वावेतौ सुखमेधेते दीर्घसूत्री विनश्यति
anāgatavidhātā ca pratyutpannamatiśca yaḥ |
dvāvetau sukhamedhete dīrghasūtrī vinaśyati
काष्ठा कला मुहूर्ताश्च दिनरात्र्यः क्षणा लवाः ।
मासाः पक्षाः षडृतवः कालः संवत्सराणि च
kāṣṭhā kalā muhūrtāśca dinarātryaḥ kṣaṇā lavāḥ |
māsāḥ pakṣāḥ ṣaḍṛtavaḥ kālaḥ saṃvatsarāṇi ca
पृथिवी देश इत्युक्तः स च कालो न दृश्यते ।
अभिप्रेतार्थसिद्ध्यर्थं दूरतो न्यायतस्तथा
pṛthivī deśa ityuktaḥ sa ca kālo na dṛśyate |
abhipretārthasiddhyarthaṃ dūrato nyāyatastathā
एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः ।
प्रधानाविति निर्दिष्टौ कामे चाभिमतौ नृणाम्
etau dharmārthaśāstreṣu mokṣaśāstreṣu carṣibhiḥ |
pradhānāviti nirdiṣṭau kāme cābhimatau nṛṇām
परीक्ष्यकारी युक्तश्च स सम्यगुपपादयेत् ।
देशकालावभिप्रेतौ तोभ्यां फलमवाप्नुयात्
parīkṣyakārī yuktaśca sa samyagupapādayet |
deśakālāvabhipretau tobhyāṃ phalamavāpnuyāt
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)