क्लिश्यमानेषु भूतेषु तैस्तैर्भावैः पृथक्पृथक् ।
दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह
kliśyamāneṣu bhūteṣu taistairbhāvaiḥ pṛthakpṛthak |
durgāṇyatitaredyena tanme brūhi pitāmaha
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि दशाधिकशततमोऽध्यायः ॥
34 श्लोक · 110 में से 372
युधिष्ठिर पूछते हैं कि सब प्राणियों को पीड़ित करने वाले संकटों से मनुष्य कैसे पार हो। भीष्म के हर श्लोक की टेक है कि वे दुर्गम संकटों को पार कर जाते हैं। ऐसे हैं संयमी द्विज; जो अतिथि का सत्कार करते, नित्य स्वाध्याय करते और माता-पिता की सेवा करते हैं; जो मन, वाणी और कर्म से किसी को कष्ट नहीं देते; लोभ बिना देश की रक्षा करने वाले राजा; धर्म से विजय चाहने वाले वीर; जो न डरते हैं न डराते हैं। सबसे बढ़कर, जो भक्ति से नारायण, पाण्डवों के सुहृद कमलनयन श्रीकृष्ण की शरण लेते हैं, और जो इन्द्र, ब्रह्मा और महेश्वर को पूजते हैं, वे हर संकट से पार होते हैं।
युधिष्ठिर उवाच
क्लिश्यमानेषु भूतेषु तैस्तैर्भावैः पृथक्पृथक् ।
दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह
kliśyamāneṣu bhūteṣu taistairbhāvaiḥ pṛthakpṛthak |
durgāṇyatitaredyena tanme brūhi pitāmaha
भीष्म उवाच
आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः ।
वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते
āśrameṣu yathokteṣu yathoktaṃ ye dvijātayaḥ |
vartante saṃyatātmāno durgāṇyatitaranti te
ये दम्भान्नाचरन्ति स्म येषां वृत्तिश्च संयता ।
विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते
ye dambhānnācaranti sma yeṣāṃ vṛttiśca saṃyatā |
viṣayāṃśca nigṛhṇanti durgāṇyatitaranti te
प्रत्याहुर्नोच्यमाना ये न हिंसन्ति च हिंसिताः ।
प्रयच्छन्ति न याचन्ते दुर्गाण्यतितरन्ति ते
pratyāhurnocyamānā ye na hiṃsanti ca hiṃsitāḥ |
prayacchanti na yācante durgāṇyatitaranti te
वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः ।
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते
vāsayantyatithīnnityaṃ nityaṃ ye cānasūyakāḥ |
nityaṃ svādhyāyaśīlāśca durgāṇyatitaranti te
मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः ।
वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते
mātāpitrośca ye vṛttiṃ vartante dharmakovidāḥ |
varjayanti divāsvapnaṃ durgāṇyatitaranti te
ये वा पापं न कुर्वन्ति कर्मणा मनसा गिरा ।
निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते
ye vā pāpaṃ na kurvanti karmaṇā manasā girā |
nikṣiptadaṇḍā bhūteṣu durgāṇyatitaranti te
ये न लोभान्नयन्त्यर्थान्राजानो रजसाऽन्विताः ।
विषयान्परिरक्षन्ति दुर्गाण्यतितरन्ति ते
ye na lobhānnayantyarthānrājāno rajasā'nvitāḥ |
viṣayānparirakṣanti durgāṇyatitaranti te
स्वेषु दारेषु वर्तन्ते न्यायलब्धेष्वृतावृतौ ।
अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते
sveṣu dāreṣu vartante nyāyalabdheṣvṛtāvṛtau |
agnihotraparāḥ santo durgāṇyatitaranti te
आहवेषु च ये शूरास्त्यक्त्वा मृत्युकृतं भयम् ।
धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते
āhaveṣu ca ye śūrāstyaktvā mṛtyukṛtaṃ bhayam |
dharmeṇa jayamicchanti durgāṇyatitaranti te
ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते ।
प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते
ye vadantīha satyāni prāṇatyāge'pyupasthite |
pramāṇabhūtā bhūtānāṃ durgāṇyatitaranti te
कर्माण्यकुत्सनार्थानि येषां वाचश्च सूनृताः ।
येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते ।
karmāṇyakutsanārthāni yeṣāṃ vācaśca sūnṛtāḥ |
yeṣāmarthāśca sādhvarthā durgāṇyatitaranti te |
अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते ।
तपोनिष्ठाः सुतपसो दुर्गाण्यतितरन्ति ते
anadhyāyeṣu ye viprāḥ svādhyāyaṃ naiva kurvate |
taponiṣṭhāḥ sutapaso durgāṇyatitaranti te
ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः ।
विद्या वेदव्रतस्नाता दुर्गाण्यतितरन्ति ते
ye tapaśca tapasyanti kaumārabrahmacāriṇaḥ |
vidyā vedavratasnātā durgāṇyatitaranti te
ये च संशान्तरजसः संशान्ततमसश्च ये ।
सत्वे स्थिता महाभागा दुर्गाण्यतितरन्ति ते
ye ca saṃśāntarajasaḥ saṃśāntatamasaśca ye |
satve sthitā mahābhāgā durgāṇyatitaranti te
येषां न कश्चित्रसति न त्रसन्ति हि कस्यचित् ।
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते
yeṣāṃ na kaścitrasati na trasanti hi kasyacit |
yeṣāmātmasamo loko durgāṇyatitaranti te
परश्रिया न तप्यन्ति ये सन्तः पुरुषर्षभाः ।
ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते
paraśriyā na tapyanti ye santaḥ puruṣarṣabhāḥ |
grāmyādannānnivṛttāśca durgāṇyatitaranti te
सर्वान्देवान्नमस्यन्ति सर्वधर्मांश्च शृण्वते ।
ये श्रद्दधानाः शान्ताश्च दुर्गाण्यतितरन्ति ते
sarvāndevānnamasyanti sarvadharmāṃśca śṛṇvate |
ye śraddadhānāḥ śāntāśca durgāṇyatitaranti te
ये न मानित्वमिच्छन्ति मानयन्ति च ये परान् ।
मान्यमानान्नमस्यन्ति दुर्गाण्यतितरन्ति ते
ye na mānitvamicchanti mānayanti ca ye parān |
mānyamānānnamasyanti durgāṇyatitaranti te
ये च श्राद्धानि कुर्वन्ति तिथ्यांतिथ्यां प्रजार्थिनः ।
सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते
ye ca śrāddhāni kurvanti tithyāṃtithyāṃ prajārthinaḥ |
suviśuddhena manasā durgāṇyatitaranti te
ये क्रोधं संनियच्छन्ति क्रुद्धान्संशमयन्ति च ।
न च रुष्यन्ति भृत्यानां दुर्गाण्यतितरन्ति ते
ye krodhaṃ saṃniyacchanti kruddhānsaṃśamayanti ca |
na ca ruṣyanti bhṛtyānāṃ durgāṇyatitaranti te
मधु मांसं स्त्रियो नित्यं वर्जयन्तीह मानवाः ।
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते
madhu māṃsaṃ striyo nityaṃ varjayantīha mānavāḥ |
janmaprabhṛti madyaṃ ca durgāṇyatitaranti te
यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम् ।
वाक् सत्यवचनार्थं च दुर्गाण्यतितरन्ति ते
yātrārthaṃ bhojanaṃ yeṣāṃ saṃtānārthaṃ ca maithunam |
vāk satyavacanārthaṃ ca durgāṇyatitaranti te
ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम् ।
भक्ता नारायणं देवं दुर्गाण्यतितरन्ति ते
īśvaraṃ sarvabhūtānāṃ jagataḥ prabhavāpyayam |
bhaktā nārāyaṇaṃ devaṃ durgāṇyatitaranti te
य एष पझरक्ताक्षः पीतवासा महाभुजः ।
सुहृद्धाता च मित्रं च संबन्धी च तवाच्युत
ya eṣa pajharaktākṣaḥ pītavāsā mahābhujaḥ |
suhṛddhātā ca mitraṃ ca saṃbandhī ca tavācyuta
य इमान्सकलाँल्लोकांश्चर्मवत्परिवेष्टयेत् ।
इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः
ya imānsakalām̐llokāṃścarmavatpariveṣṭayet |
icchanprabhuracintyātmā govindaḥ puruṣottamaḥ
स्थितः प्रियहिते नित्यं स एष पुरुषोत्तमः ।
राजंस्तव यदुश्रेष्ठो वैकुण्ठः पुरुषर्षभः
sthitaḥ priyahite nityaṃ sa eṣa puruṣottamaḥ |
rājaṃstava yaduśreṣṭho vaikuṇṭhaḥ puruṣarṣabhaḥ
य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् ।
ते तरन्तीह दुर्गाणि न चात्रास्ति विचारणा
ya enaṃ saṃśrayantīha bhaktyā nārāyaṇaṃ harim |
te tarantīha durgāṇi na cātrāsti vicāraṇā
अस्मिन्नर्पितकर्माणः सर्वभावेन भारत ।
कृष्णे कमलपत्राक्षे दुर्गाण्यतितरन्ति ते ।
asminnarpitakarmāṇaḥ sarvabhāvena bhārata |
kṛṣṇe kamalapatrākṣe durgāṇyatitaranti te |
लोकरक्षार्थमुत्पन्नमदित्यां कश्यपात्मजम् ।
देवमिन्द्रं नमस्यन्ति दुर्गाण्यतितरन्ति ते
lokarakṣārthamutpannamadityāṃ kaśyapātmajam |
devamindraṃ namasyanti durgāṇyatitaranti te
ब्रह्माणं लोककर्तारं ये नमस्यन्ति सत्पतिम् ।
यष्टव्यं क्रतुभिर्देवं दुर्गाण्यतितरन्ति ते
brahmāṇaṃ lokakartāraṃ ye namasyanti satpatim |
yaṣṭavyaṃ kratubhirdevaṃ durgāṇyatitaranti te
यं विष्णुरिन्द्रः शंभुश्च ब्रह्मा लोकपितामहः ।
स्तुवन्ति विविधैः स्तोत्रैर्देवदेवं महेश्वरम् ।
समर्चयन्ति ये शश्वद्दुर्गाण्यतितरन्ति ते
yaṃ viṣṇurindraḥ śaṃbhuśca brahmā lokapitāmahaḥ |
stuvanti vividhaiḥ stotrairdevadevaṃ maheśvaram |
samarcayanti ye śaśvaddurgāṇyatitaranti te
दुर्गातितरणं ये च पठन्ति श्रावयन्ति च ।
कथयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते
durgātitaraṇaṃ ye ca paṭhanti śrāvayanti ca |
kathayanti ca viprebhyo durgāṇyatitaranti te
इति कृत्यसमुद्देशः कीर्तितस्ते मयाऽनघ ।
तरते येन दुर्गाणि परत्रेह च मानवः
iti kṛtyasamuddeśaḥ kīrtitaste mayā'nagha |
tarate yena durgāṇi paratreha ca mānavaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)