इङ्गितेनैव दाशार्हस्तस्याभिप्रायमादितः ।
द्रौणेर्बुद्धा महाबाहुरर्जुनं प्रत्यभाषत
iṅgitenaiva dāśārhastasyābhiprāyamāditaḥ |
drauṇerbuddhā mahābāhurarjunaṃ pratyabhāṣata
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वमि चतुर्दशोऽध्यायः ॥
16 श्लोक · 14 में से 18
संकेतों से अश्वत्थामा का अभिप्राय जानकर श्रीकृष्ण अर्जुन से कहते हैं कि अपनी और भाइयों की रक्षा के लिए द्रोण से सीखे अस्त्र का समय आ गया है। अर्जुन धनुष लेकर रथ से उतरते हैं, पहले गुरुपुत्र का, फिर अपना और भाइयों का कल्याण चाहते हैं, देवताओं और गुरुजनों को प्रणाम करते हैं, और इस भाव से अस्त्र छोड़ते हैं कि अस्त्र से अस्त्र शान्त हो। दोनों अस्त्र युगान्त की अग्नि के समान जल उठते हैं। वज्रपात होता है, सहस्रों उल्काएँ गिरती हैं और पर्वतों-वनों सहित पृथ्वी काँपती है। लोकों की रक्षा के लिए नारद और भरतवंश के पितामह व्यास दोनों अस्त्रों के बीच खड़े होकर पूछते हैं कि तुमने यह दुस्साहस क्यों किया, जो पुराने महारथियों ने भी मनुष्यों पर कभी नहीं किया।
वैशम्पायन उवाच
इङ्गितेनैव दाशार्हस्तस्याभिप्रायमादितः ।
द्रौणेर्बुद्धा महाबाहुरर्जुनं प्रत्यभाषत
iṅgitenaiva dāśārhastasyābhiprāyamāditaḥ |
drauṇerbuddhā mahābāhurarjunaṃ pratyabhāṣata
अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते ।
द्रोणोपदिष्टं तस्यायं कालः सम्प्रति पाण्डव
arjunārjuna yaddivyamastraṃ te hṛdi vartate |
droṇopadiṣṭaṃ tasyāyaṃ kālaḥ samprati pāṇḍava
भ्रातॄणामात्मनश्चैव परित्राणाय भारत ।
विसृजैतत्त्वमप्याजावस्त्रमस्त्रनिवारणम्
bhrātṝṇāmātmanaścaiva paritrāṇāya bhārata |
visṛjaitattvamapyājāvastramastranivāraṇam
केशवेनैवमुक्तोऽथ पाण्डवः परवीरहा ।
अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः
keśavenaivamukto'tha pāṇḍavaḥ paravīrahā |
avātaradrathāttūrṇaṃ pragṛhya saśaraṃ dhanuḥ
पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने ।
भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परन्तपः
pūrvamācāryaputrāya tato'nantaramātmane |
bhrātṛbhyaścaiva sarvebhyaḥ svastītyuktvā parantapaḥ
देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः ।
उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम्
devatābhyo namaskṛtya gurubhyaścaiva sarvaśaḥ |
utsasarja śivaṃ dhyāyannastramastreṇa śāmyatām
ततस्तदस्रं सहसा सृष्टं गाण्डीवधन्वना ।
प्रजज्वाल महार्चिष्मद्युगान्तानलसन्निभम्
tatastadasraṃ sahasā sṛṣṭaṃ gāṇḍīvadhanvanā |
prajajvāla mahārciṣmadyugāntānalasannibham
तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः ।
प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम्
tathaiva droṇaputrasya tadastraṃ tigmatejasaḥ |
prajajvāla mahājvālaṃ tejomaṇḍalasaṃvṛtam
निर्घाता बहवश्चासन्पेतुरुल्काः सहस्रशः ।
महद्भयं च भूतानां सर्वेषां समजायत
nirghātā bahavaścāsanpeturulkāḥ sahasraśaḥ |
mahadbhayaṃ ca bhūtānāṃ sarveṣāṃ samajāyata
सशब्दमभवद्व्योम ज्वालामालाकुलं भृशम् ।
चचाल च मही कृत्स्ना सपर्वतवनद्रुमा
saśabdamabhavadvyoma jvālāmālākulaṃ bhṛśam |
cacāla ca mahī kṛtsnā saparvatavanadrumā
तावस्त्रतेजसा लोकांस्त्रासयन्तौ ततः स्थितौ ।
महर्षी सहितौ तत्र दर्शयामासतुस्तदा
tāvastratejasā lokāṃstrāsayantau tataḥ sthitau |
maharṣī sahitau tatra darśayāmāsatustadā
नारदः सर्वधर्मात्मा भरतानां पितामहः ।
उभौ शमयितुं वीरौ भारद्वाजधनञ्जयौ
nāradaḥ sarvadharmātmā bharatānāṃ pitāmahaḥ |
ubhau śamayituṃ vīrau bhāradvājadhanañjayau
तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैपिणौ ।
दीप्तयोरस्रयोर्मध्ये स्थितौ परमतेजसौ
tau munī sarvadharmajñau sarvabhūtahitaipiṇau |
dīptayorasrayormadhye sthitau paramatejasau
तदन्तरमनाधृष्यावुपगम्य यशस्विनौ ।
आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ
tadantaramanādhṛṣyāvupagamya yaśasvinau |
āstāmṛṣivarau tatra jvalitāviva pāvakau
प्राणभृद्भिरनाधृष्यौ देवदानवसम्मतौ ।
अस्त्रतेजः शमयितुं लोकानां हितकाम्यया
prāṇabhṛdbhiranādhṛṣyau devadānavasammatau |
astratejaḥ śamayituṃ lokānāṃ hitakāmyayā
ऋषी ऊचतुः
महास्त्रविदुषः पूर्वे येऽप्यतीता महारथाः ।
नैतदस्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन ।
किमिदं साहसं वीरौ कृतवन्तौ महात्ययम्
mahāstraviduṣaḥ pūrve ye'pyatītā mahārathāḥ |
naitadasraṃ manuṣyeṣu taiḥ prayuktaṃ kathañcana |
kimidaṃ sāhasaṃ vīrau kṛtavantau mahātyayam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)