नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा ।
वासुदेवजितामाशां यथाऽसावजयत्प्रभुः
nakulasya tu vakṣyāmi karmāṇi vijayaṃ tathā |
vāsudevajitāmāśāṃ yathā'sāvajayatprabhuḥ
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि पञ्चत्रिंशोऽध्यायः ॥
20 श्लोक · 35 में से 103
नकुल बड़ी सेना लेकर खाण्डवप्रस्थ से पश्चिम की ओर निकलते हैं, सिंहनाद और रथचक्रों से धरती कँपाते। पहले वे गौ और अन्न से भरे, कार्तिकेय के प्रिय रोहीतक पर चढ़ाई करते हैं और वहाँ के उग्र मत्तमयूर योद्धाओं से बड़ा युद्ध करते हैं। मरुभूमि, बहुधान्यक, शैरीषक और महेत्थ को लेते हैं और राजर्षि आक्रोश से लड़ते हैं। वे दशार्ण, शिबि, त्रिगर्त, अम्बष्ठ, मालव, पाँच कर्पट, पुष्कर वनवासी, सिन्धुतट के ग्राम, सरस्वती के आभीर, सम्पूर्ण पंचनद, अमरपर्वत, रामठ और हारहूण जीतते हैं। वे श्रीकृष्ण को सन्देश भेजते हैं, जो उनकी आज्ञा स्वीकार करते हैं। शाकल में मामा मद्रराज शल्य को प्रेम से वश में करते हैं। फिर म्लेच्छ, पह्लव, किरात, यवन और शक जीतते हैं, और दस सहस्र ऊँट उनका धन युधिष्ठिर तक ले जाते हैं।
वैशम्पायन उवाच
नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा ।
वासुदेवजितामाशां यथाऽसावजयत्प्रभुः
nakulasya tu vakṣyāmi karmāṇi vijayaṃ tathā |
vāsudevajitāmāśāṃ yathā'sāvajayatprabhuḥ
निर्याय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम् ।
उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह
niryāya khāṇḍavaprasthātpratīcīmabhito diśam |
uddiśya matimānprāyānmahatyā senayā saha
सिंहनादेन महता योधानां गर्जितेन च ।
रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम्
siṃhanādena mahatā yodhānāṃ garjitena ca |
rathanemininādaiśca kampayanvasudhāmimām
ततो बहु धनं रम्यं गावाढ्यं धनधान्यवत् ।
कार्तिकेयस्य दयितं रोहीतकुपाद्रवत्
tato bahu dhanaṃ ramyaṃ gāvāḍhyaṃ dhanadhānyavat |
kārtikeyasya dayitaṃ rohītakupādravat
तत्र युद्धं महच्चासीच्छूरैर्मत्तमयूरकैः ।
मरुभूमिं स कार्त्स्न्येन तथैव बहुधान्यकम्
tatra yuddhaṃ mahaccāsīcchūrairmattamayūrakaiḥ |
marubhūmiṃ sa kārtsnyena tathaiva bahudhānyakam
शैरीषकं महेत्थं च वशे चक्रे महाद्युतिः ।
आक्रोशं चैव राजर्षि तेन युद्धमभून्महत्
śairīṣakaṃ mahetthaṃ ca vaśe cakre mahādyutiḥ |
ākrośaṃ caiva rājarṣi tena yuddhamabhūnmahat
तान्दशार्णान्स जित्वा च प्रतस्थे पाण्डुनन्दनः ।
शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्च कर्पटान्
tāndaśārṇānsa jitvā ca pratasthe pāṇḍunandanaḥ |
śibīṃstrigartānambaṣṭhānmālavānpañca karpaṭān
तथा मध्यमकेयांश्च वाटधानान्द्विजानथ ।
पुनश्च परिवृत्याथ पुष्करारण्यवासिनः
tathā madhyamakeyāṃśca vāṭadhānāndvijānatha |
punaśca parivṛtyātha puṣkarāraṇyavāsinaḥ
गणानुत्सवसङ्केतान्व्यजयत्पुरुषर्षभः ।
सिन्धुकूलाश्रिता ये च ग्रामणीया महाबलाः
gaṇānutsavasaṅketānvyajayatpuruṣarṣabhaḥ |
sindhukūlāśritā ye ca grāmaṇīyā mahābalāḥ
शूराऽऽभीरगणाश्चैव ये चाश्रित्य सरस्वतीम् ।
वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः
śūrā''bhīragaṇāścaiva ye cāśritya sarasvatīm |
vartayanti ca ye matsyairye ca parvatavāsinaḥ
कत्स्नं पञ्चनन्दं चैव तथैवामरपर्वतम् ।
उत्तरज्योतिषं चैव तथा दिव्यकटं पुरम्
katsnaṃ pañcanandaṃ caiva tathaivāmaraparvatam |
uttarajyotiṣaṃ caiva tathā divyakaṭaṃ puram
द्वारपालं च तरसा वशे चक्रे महाद्युतिः ।
रामठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः
dvārapālaṃ ca tarasā vaśe cakre mahādyutiḥ |
rāmaṭhānhārahūṇāṃśca pratīcyāścaiva ye nṛpāḥ
तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः ।
तत्रस्थः प्रेषयामास वासुदेवाय भारत
tānsarvānsa vaśe cakre śāsanādeva pāṇḍavaḥ |
tatrasthaḥ preṣayāmāsa vāsudevāya bhārata
स चास्य गतभी राजन्प्रतिजग्राह शासनम् ।
ततः शाकलमभ्येत्य मद्राणां पुटभेदनम्
sa cāsya gatabhī rājanpratijagrāha śāsanam |
tataḥ śākalamabhyetya madrāṇāṃ puṭabhedanam
मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली ।
स तेन सत्कृतो राज्ञा सत्कारार्हो विशाम्पते
mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī |
sa tena satkṛto rājñā satkārārho viśāmpate
रत्नानि भूरीण्यादाय सम्प्रतस्थे युधां पतिः ।
ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान्
ratnāni bhūrīṇyādāya sampratasthe yudhāṃ patiḥ |
tataḥ sāgarakukṣisthānmlecchānparamadāruṇān
पह्लवान्वर्बरांश्चैव किरातान्यवनाञ्शकान् ।
ततो रत्नान्यपादाय वशे कृत्वा च पार्थिवान् ।
न्यवर्तत कुरुश्रेष्ठो नकुलश्चित्रमार्गवित्
pahlavānvarbarāṃścaiva kirātānyavanāñśakān |
tato ratnānyapādāya vaśe kṛtvā ca pārthivān |
nyavartata kuruśreṣṭho nakulaścitramārgavit
करमाणां सहस्राणि कोशं तस्य महात्मनः ।
ऊहर्दश महाराज कृच्छ्रादिव महाधनम्
karamāṇāṃ sahasrāṇi kośaṃ tasya mahātmanaḥ |
ūhardaśa mahārāja kṛcchrādiva mahādhanam
इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम् ।
ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत्
indraprasthagataṃ vīramabhyetya sa yudhiṣṭhiram |
tato mādrīsutaḥ śrīmāndhanaṃ tasmai nyavedayat
एवं विजित्य नकुलो दिशं वरुणपालिताम् ।
प्रतीचीं वासुदेवेन निर्जितां भरतर्षभ
evaṃ vijitya nakulo diśaṃ varuṇapālitām |
pratīcīṃ vāsudevena nirjitāṃ bharatarṣabha
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)