दारुकोपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् ।
आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान्
dārukopi kurūngatvā dṛṣṭvā pārthānmahārathān |
ācaṣṭa mausale vṛṣṇīnanyonyenopasaṃhṛtān
इति श्रीमन्महाभारते मौसलपर्वणि षष्ठोऽध्यायः ॥
15 श्लोक · 6 में से 9
दारुक कुरुओं के पास पहुँचकर बताते हैं कि वृष्णियों ने मूसलों से एक-दूसरे का वध कर डाला। पाण्डव शोक से व्याकुल हो जाते हैं। केशव के प्रिय सखा अर्जुन दारुक के साथ मामा वसुदेव से मिलने चलते हैं और द्वारका को विधवा स्त्री जैसा पाते हैं। वासुदेव की सोलह हजार पत्नियाँ उन्हें देखते ही रो पड़ती हैं, क्योंकि अब वही उनके रक्षक हैं। नगर उन्हें भयानक वैतरणी नदी जैसा लगता है, जिसमें लोग जल और रथ बेड़े हैं, जिसके महाग्राह कभी राम और कृष्ण थे; अब वह शिशिर के कमल-सरोवर जैसा श्रीहीन है। अर्जुन रोकर भूमि पर गिर पड़ते हैं। सत्यभामा और रुक्मिणी दौड़कर उन्हें सोने के आसन पर बिठाती हैं। वे गोविन्द की स्तुति करते हैं, रानियों को ढाढ़स बँधाते हैं और मामा के पास जाते हैं।
वैशम्पाय उवाच
दारुकोपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् ।
आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान्
dārukopi kurūngatvā dṛṣṭvā pārthānmahārathān |
ācaṣṭa mausale vṛṣṇīnanyonyenopasaṃhṛtān
श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजान्धककौकुरान् ।
पाण्डवाः शोकसंतप्ता वित्रस्तमनसोऽभवन्
śrutvā vinaṣṭānvārṣṇeyānsabhojāndhakakaukurān |
pāṇḍavāḥ śokasaṃtaptā vitrastamanaso'bhavan
ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा ।
प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत्
tato'rjunastānāmantrya keśavasya priyaḥ sakhā |
prayayau mātulaṃ draṣṭuṃ nedamastīti cābravīt
स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो ।
ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम्
sa vṛṣṇinilayaṃ gatvā dārukeṇa saha prabho |
dadarśa dvārakāṃ vīro mṛtanāthāmiva striyam
याः स्म ता लोकनाथेन नाथवत्यः पुराऽभवन् ।
तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः
yāḥ sma tā lokanāthena nāthavatyaḥ purā'bhavan |
tāstvanāthāstadā nāthaṃ pārthaṃ dṛṣṭvā vicukruśuḥ
षोडश स्त्रीसहस्राणि वासुदेवपरिग्रहाः ।
तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम्
ṣoḍaśa strīsahasrāṇi vāsudevaparigrahāḥ |
tāsāmāsīnmahānnādo dṛṣṭvaivārjunamāgatam
तास्तु दृष्ट्वैव कौरव्यो बाष्पेणापिहितेक्षणः ।
हीनाः कृष्णेन पुत्रैश्च नाशकत्सोभिवीक्षितुम्
tāstu dṛṣṭvaiva kauravyo bāṣpeṇāpihitekṣaṇaḥ |
hīnāḥ kṛṣṇena putraiśca nāśakatsobhivīkṣitum
स तां वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् ।
वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम्
sa tāṃ vṛṣṇyandhakajalāṃ hayamīnāṃ rathoḍupām |
vāditrarathaghoṣaughāṃ veśmatīrthamahāgrahām
रत्नशैवलसंघातां वज्रप्राकारमालिनीम् ।
रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम्
ratnaśaivalasaṃghātāṃ vajraprākāramālinīm |
rathyāsrotojalāvartāṃ catvarastimitahradām
रामकृष्णमहाग्राहां द्वारकां सरितं तदा ।
कालपाशग्रहां भीमां नदीं वैतरणीमिव
rāmakṛṣṇamahāgrāhāṃ dvārakāṃ saritaṃ tadā |
kālapāśagrahāṃ bhīmāṃ nadīṃ vaitaraṇīmiva
ददर्श वासविर्धीमान्विहीनां वृष्णिपुङ्गवैः ।
गतश्रियं विरानन्दां पद्मिनीं शिशिरे यथा ।
dadarśa vāsavirdhīmānvihīnāṃ vṛṣṇipuṅgavaiḥ |
gataśriyaṃ virānandāṃ padminīṃ śiśire yathā |
तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः ।
सस्वनं बाष्पमुत्सृज्य निपात महीतले
tāṃ dṛṣṭvā dvārakāṃ pārthastāśca kṛṣṇasya yoṣitaḥ |
sasvanaṃ bāṣpamutsṛjya nipāta mahītale
सात्राजिती ततः सत्या रुक्मिणी च विशांपते ।
अभिपत्य प्ररुरुदुः परिवार्य धनंजयम्
sātrājitī tataḥ satyā rukmiṇī ca viśāṃpate |
abhipatya praruruduḥ parivārya dhanaṃjayam
ततस्तं काञ्चने पीठे समुत्ताप्योपवेश्य च ।
अभिनन्द्य महात्मानं परिवार्योपतस्थिरे
tatastaṃ kāñcane pīṭhe samuttāpyopaveśya ca |
abhinandya mahātmānaṃ parivāryopatasthire
ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः ।
आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात्
tataḥ saṃstūya govindaṃ kathayitvā ca pāṇḍavaḥ |
āśvāsya tāḥ striyaścāpi mātulaṃ draṣṭumabhyagāt
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)