तं प्रविष्टं महात्मानं वीरमानकदुन्दुभिः ।
पुत्रशोकेन संतप्तो ददर्श कुरुपुङ्गवम्
taṃ praviṣṭaṃ mahātmānaṃ vīramānakadundubhiḥ |
putraśokena saṃtapto dadarśa kurupuṅgavam
इति श्रीमन्महाभारते मौसलपर्वणि सप्तमोऽध्यायः ॥
27 श्लोक · 7 में से 9
वसुदेव अर्जुन को गले लगाकर पुत्रों और पौत्रों के लिए विलाप करते हैं। अर्जुन के प्रिय शिष्य प्रद्युम्न और सात्यकि वृष्णि-विनाश के मुख बने, फिर भी वे किसी को दोष नहीं देते, क्योंकि कारण शाप है। कंस और शिशुपाल को मारने वाले और अश्वत्थामा के अस्त्र से मरे अर्जुन के पौत्र को जीवित करने वाले श्रीकृष्ण ने गान्धारी और ऋषियों के वचन को उलटना नहीं चाहा। वसुदेव श्रीकृष्ण का सन्देश दोहराते हैं: कुल का अन्त आ गया; अर्जुन को सब बताना; जो मैं हूँ वही अर्जुन है और जो अर्जुन है वही मैं; वे स्त्रियों, बालकों और आपके अन्त्य संस्कार को सँभालेंगे, और उनके जाते ही समुद्र नगर डुबो देगा। शोक में अन्न त्यागे वसुदेव राज्य, स्त्रियाँ और रत्न अर्जुन को सौंपकर प्राण त्यागने का निश्चय बताते हैं।
वैशम्पायन उवाच
तं प्रविष्टं महात्मानं वीरमानकदुन्दुभिः ।
पुत्रशोकेन संतप्तो ददर्श कुरुपुङ्गवम्
taṃ praviṣṭaṃ mahātmānaṃ vīramānakadundubhiḥ |
putraśokena saṃtapto dadarśa kurupuṅgavam
तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः ।
आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत
tasyāśruparipūrṇākṣo vyūḍhorasko mahābhujaḥ |
ārtasyārtataraḥ pārthaḥ pādau jagrāha bhārata
तस्य मूर्धानमाघ्रातुमियेषानकदुन्दुभिः ।
स्वस्रीयस्य महाबाहुर्न शशाक च शत्रुहन्
tasya mūrdhānamāghrātumiyeṣānakadundubhiḥ |
svasrīyasya mahābāhurna śaśāka ca śatruhan
समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः ।
रुरोदाथ स्मरञ्शौरिं विललाप सुविह्वलः ।
भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रान्स सखीनपि
samāliṅgyārjunaṃ vṛddhaḥ sa bhujābhyāṃ mahābhujaḥ |
rurodātha smarañśauriṃ vilalāpa suvihvalaḥ |
bhrātṝnputrāṃśca pautrāṃśca dauhitrānsa sakhīnapi
वसुदेव उवाच
यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन ।
तान्सर्वान्नेह पश्यामि जीवाम्यर्जुन दुर्मरः
yairjitā bhūmipālāśca daityāśca śataśo'rjuna |
tānsarvānneha paśyāmi jīvāmyarjuna durmaraḥ
यो तावर्जुनशिष्यौ ते प्रियौ बहुमतौ सदा ।
तयोरपनयात्पार्थ वृष्णयो निधनं गताः
yo tāvarjunaśiṣyau te priyau bahumatau sadā |
tayorapanayātpārtha vṛṣṇayo nidhanaṃ gatāḥ
यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ ।
प्रद्युम्नो युयुधानश्चि कथनन्कत्थसे च यौ
yau tau vṛṣṇipravīrāṇāṃ dvāvevātirathau matau |
pradyumno yuyudhānaści kathanankatthase ca yau
तौ सदा कुरुशार्दूल कृष्णस्य प्रियभाजनौ ।
तावुभौ वृष्णिनाशस्य मुखमास्तां धनंजय
tau sadā kuruśārdūla kṛṣṇasya priyabhājanau |
tāvubhau vṛṣṇināśasya mukhamāstāṃ dhanaṃjaya
न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन ।
अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम्
na tu garhāmi śaineyaṃ hārdikyaṃ cāhamarjuna |
akrūraṃ raukmiṇeyaṃ ca śāpo hyevātra kāraṇam
केशिनं यस्तु कंसं च विक्रम्यि हतवान्प्रभुः ।
विदेहमकरोत्पार्थं चैद्यं च बलगर्वितम्
keśinaṃ yastu kaṃsaṃ ca vikramyi hatavānprabhuḥ |
videhamakarotpārthaṃ caidyaṃ ca balagarvitam
नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान् ।
गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान्
naiṣādimekalavyaṃ ca cakre kāliṅgamāgadhān |
gāndhārānkāśirājaṃ ca marubhūmau ca pārthivān
प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान् ।
सोभ्युपेक्षितवानेवमनयान्मधुसूदनः
prācyāṃśca dākṣiṇātyāṃśca pārvatīyāṃstathā nṛpān |
sobhyupekṣitavānevamanayānmadhusūdanaḥ
त्वं हि तं नारदश्चैव मुनयश्च सनातनम् ।
गोविन्दमनघं देवमभिजानीध्वमच्युतम्
tvaṃ hi taṃ nāradaścaiva munayaśca sanātanam |
govindamanaghaṃ devamabhijānīdhvamacyutam
प्रत्यपश्यच्च स विभुर्ज्ञातिक्षयमधोक्षजः ।
समुपेक्षितवान्नित्यं स्वयं स मम पुत्रकः
pratyapaśyacca sa vibhurjñātikṣayamadhokṣajaḥ |
samupekṣitavānnityaṃ svayaṃ sa mama putrakaḥ
गान्धार्या वचनं यत्तदृषीणां च परंतप ।
तन्नूनमन्यथा कर्तुं नैच्छत्स जगतः प्रभुः
gāndhāryā vacanaṃ yattadṛṣīṇāṃ ca paraṃtapa |
tannūnamanyathā kartuṃ naicchatsa jagataḥ prabhuḥ
प्रत्यक्षं भवतश्चापि तव पौत्रः परंतप ।
अश्वत्थाम्ना हतश्चापि जीवितस्तस्य तेजसा ।
इमांस्तु नैच्छत्स्वान्ज्ञातीन्रक्षितुं च सखा तव
pratyakṣaṃ bhavataścāpi tava pautraḥ paraṃtapa |
aśvatthāmnā hataścāpi jīvitastasya tejasā |
imāṃstu naicchatsvānjñātīnrakṣituṃ ca sakhā tava
ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखींस्तथा ।
शयानान्निहतान्दृष्ट्वा कृष्णो मामब्रवीदिदम्
tataḥ putrāṃśca pautrāṃśca bhrātṝnatha sakhīṃstathā |
śayānānnihatāndṛṣṭvā kṛṣṇo māmabravīdidam
सम्प्राप्तोऽद्यायमस्यान्तः कुलस्य भरतर्षभ ।
आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम् ।
आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत्
samprāpto'dyāyamasyāntaḥ kulasya bharatarṣabha |
āgamiṣyati bībhatsurimāṃ dvāravatīṃ purīm |
ākhyeyaṃ tasya yadvṛttaṃ vṛṣṇīnāṃ vaiśasaṃ mahat
स तु श्रुत्वा महातेजा यदूनां निधनं प्रभो ।
आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा
sa tu śrutvā mahātejā yadūnāṃ nidhanaṃ prabho |
āgantā kṣiprameveha na me'trāsti vicāraṇā
योऽहं तमर्जुनं विद्धि योऽर्जुनः सोहमेव तु ।
यद्ब्रूयात्तत्तथा कार्यमिति बुद्ध्यस्व भारत
yo'haṃ tamarjunaṃ viddhi yo'rjunaḥ sohameva tu |
yadbrūyāttattathā kāryamiti buddhyasva bhārata
स स्त्रीषु प्राप्तकालासु पाण्डवो बालकेषु च ।
प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वद्गेहिकम्
sa strīṣu prāptakālāsu pāṇḍavo bālakeṣu ca |
pratipatsyati bībhatsurbhavataścaurdhvadgehikam
इमां च नगरीं सद्यः प्रतियाते धनंजये ।
प्राकारट्टालकोपेतां समुद्रः प्लावयिष्यति
imāṃ ca nagarīṃ sadyaḥ pratiyāte dhanaṃjaye |
prākāraṭṭālakopetāṃ samudraḥ plāvayiṣyati
अहं देशे तु कस्मिंश्चित्पुण्ये नियममास्थितः ।
कालं काङ्क्षे सद्य एव रामेण सहितो वने
ahaṃ deśe tu kasmiṃścitpuṇye niyamamāsthitaḥ |
kālaṃ kāṅkṣe sadya eva rāmeṇa sahito vane
एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः ।
हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः
evamuktvā hṛṣīkeśo māmacintyaparākramaḥ |
hitvā māṃ bālakaiḥ sārdhaṃ diśaṃ kāmapyagātprabhuḥ
सोहं तौ च महात्मानौ चिन्तयन्रामकेशवौ ।
घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः
sohaṃ tau ca mahātmānau cintayanrāmakeśavau |
ghoraṃ jñātivadhaṃ caiva na bhuñje śokakarśitaḥ
न मोक्ष्येन च जीविष्ये दिष्ट्या प्राप्तोसि पाण्डव ।
यदुक्तं पार्थं कृष्णेन तत्सर्वमखिलं कुरु
na mokṣyena ca jīviṣye diṣṭyā prāptosi pāṇḍava |
yaduktaṃ pārthaṃ kṛṣṇena tatsarvamakhilaṃ kuru
एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव हि ।
इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन
etatte pārtha rājyaṃ ca striyo ratnāni caiva hi |
iṣṭānprāṇānahaṃ hīmāṃstyakṣyāmi ripusūdana
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)