कर्ण पर्व

अध्याय 32: अर्जुन को दिखाने वाले को कर्ण पुरस्कार देता है

इति श्रीमन्महाभारते कर्णपर्वणि द्वात्रिंशोऽध्यायः ॥

26 श्लोक · 32 में से 101

इस अध्याय में क्या होता है

अर्जुन को दिखाने वाले को कर्ण पुरस्कार देता है

कौरव सेना का उत्साह बढ़ाने के लिए कर्ण हर सैनिक से अर्जुन का पता पूछता है और श्वेत अश्वों वाले को दिखाने वाले के लिए बढ़ते हुए पुरस्कारों की घोषणा करता है। वह सौ अच्छे गाँव, खच्चरों वाला श्वेत रथ, पाँच सौ श्वेत घोड़े, पश्चिमी देश के छह सौ हाथी, वैश्यों के चौदह समृद्ध गाँव और मगध की सौ युवा दासियाँ देगा। इनसे भी मन न भरे तो वह स्वयं वर माँग ले; पुत्रों और पत्नियों के सिवा कर्ण का सब कुछ उसका होगा। और दोनों कृष्णों को मारकर उनका सारा धन भी उसी को देगा। फिर वह समुद्र से उत्पन्न शङ्ख बजाता है। दुर्योधन और उसके भाई हर्षित होते हैं, और शल्य कर्ण पर हँसते हैं।

सञ्जय उवाच

32.1

प्रयत्नेन तदा कर्णो हर्षयन्वाहिनीं तव ।
एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत

prayatnena tadā karṇo harṣayanvāhinīṃ tava |
ekaikaṃ samare dṛṣṭvā pāṇḍavaṃ paryapṛcchata

32.2

यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम् ।
तस्मै दद्यामभिप्रेतं धनं यन्मनसेच्छति

yo mamādya mahātmānaṃ darśayecchvetavāhanam |
tasmai dadyāmabhipretaṃ dhanaṃ yanmanasecchati

32.3

न चेत्तदभिमन्येत तस्मै दद्यामहं पुनः ।
शकटं रत्नसम्पूर्णं यो मे ब्रूयाद्वनञ्जयम्

na cettadabhimanyeta tasmai dadyāmahaṃ punaḥ |
śakaṭaṃ ratnasampūrṇaṃ yo me brūyādvanañjayam

32.4

न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
शतं दद्यां गवां तस्मै नैत्यकं कांस्यदोहनम्

na cettadabhimanyeta puruṣo'rjunadarśivān |
śataṃ dadyāṃ gavāṃ tasmai naityakaṃ kāṃsyadohanam

32.5

शतं ग्रामवरांश्चैव दद्यामर्जुनदर्शिने ।
तथा तस्मै पुनर्दद्यां श्वेतमश्वतरीरथम् ।
युक्तमञ्जनकेशीभिर्यो मे ब्रूयाद्वनञ्जयम्

śataṃ grāmavarāṃścaiva dadyāmarjunadarśine |
tathā tasmai punardadyāṃ śvetamaśvatarīratham |
yuktamañjanakeśībhiryo me brūyādvanañjayam

32.6

न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
अन्यं वाऽस्मै पुनर्दद्यां सौवर्णं हस्तिषङ्गवम्

na cettadabhimanyeta puruṣo'rjunadarśivān |
anyaṃ vā'smai punardadyāṃ sauvarṇaṃ hastiṣaṅgavam

32.7

तथाप्यस्मै पुनर्दद्यां स्त्रीणां शतमलङ्कृतम् ।
श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम्

tathāpyasmai punardadyāṃ strīṇāṃ śatamalaṅkṛtam |
śyāmānāṃ niṣkakaṇṭhīnāṃ gītavādyavipaścitām

32.8

न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
तस्मै दद्यां शतं नागाञ्शतं ग्रामाञ्शतं रथान्

na cettadabhimanyeta puruṣo'rjunadarśivān |
tasmai dadyāṃ śataṃ nāgāñśataṃ grāmāñśataṃ rathān

32.9

सुवर्णस्य च मुख्यस्य हयाग्र्याणां शतं शतान् ।
ऋद्व्या गुणैः सुदान्तांश्च धुर्यवाहान्सुशिक्षितान्

suvarṇasya ca mukhyasya hayāgryāṇāṃ śataṃ śatān |
ṛdvyā guṇaiḥ sudāntāṃśca dhuryavāhānsuśikṣitān

32.10

तथा सुवर्णशृङ्गीणां गोधेनूनां चतुःशतम् ।
दद्यां तस्मै सवत्सानां यो मे ब्रूयाद्वनञ्जयम्

tathā suvarṇaśṛṅgīṇāṃ godhenūnāṃ catuḥśatam |
dadyāṃ tasmai savatsānāṃ yo me brūyādvanañjayam

32.11

न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
अन्यदस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान्

na cettadabhimanyeta puruṣo'rjunadarśivān |
anyadasmai varaṃ dadyāṃ śvetānpañcaśatānhayān

32.12

हेमभाण्डपरिच्छन्नान्सुमृष्टमणिभूषणान् ।
सुदान्तानपि चैवाहं दद्यामष्टादशापरान्

hemabhāṇḍaparicchannānsumṛṣṭamaṇibhūṣaṇān |
sudāntānapi caivāhaṃ dadyāmaṣṭādaśāparān

32.13

रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलङ्कृतम् ।
युक्तं परमकाम्भोजैर्यो मे ब्रूयाद्वनञ्जयम्

rathaṃ ca śubhraṃ sauvarṇaṃ dadyāṃ tasmai svalaṅkṛtam |
yuktaṃ paramakāmbhojairyo me brūyādvanañjayam

32.14

न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
अन्यदस्मै वरं दद्यां कुञ्जराणां शतानि षट्

na cettadabhimanyeta puruṣo'rjunadarśivān |
anyadasmai varaṃ dadyāṃ kuñjarāṇāṃ śatāni ṣaṭ

32.15

काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः ।
उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः

kāñcanairvividhairbhāṇḍairācchannānhemamālinaḥ |
utpannānaparānteṣu vinītānhastiśikṣakaiḥ

32.16

न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
अन्यदस्मै वरं दद्यां वैश्यग्रामांश्चतुर्दश

na cettadabhimanyeta puruṣo'rjunadarśivān |
anyadasmai varaṃ dadyāṃ vaiśyagrāmāṃścaturdaśa

32.17

सुस्फीतान्धनसंयुक्तान्प्रत्यासन्नवनोदकान् ।
अकुतोभयान्सुसम्पन्नान्राजभोज्यांश्चतुर्दश

susphītāndhanasaṃyuktānpratyāsannavanodakān |
akutobhayānsusampannānrājabhojyāṃścaturdaśa

32.18

दासीनां निष्ककण्ठीनां मागधीनां शतं तथा ।
प्रत्यग्रवयसां दद्यां यो मे ब्रूयाद्धनञ्जयम्

dāsīnāṃ niṣkakaṇṭhīnāṃ māgadhīnāṃ śataṃ tathā |
pratyagravayasāṃ dadyāṃ yo me brūyāddhanañjayam

32.19

न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम्

na cettadabhimanyeta puruṣo'rjunadarśivān |
anyaṃ tasmai varaṃ dadyāṃ yamasau kāmayetsvayam

32.20

पुत्रदारान्विहायैव यदन्यद्वित्तमस्ति मे ।
तच्च तस्मै पुनर्दद्यां यद्यच्च मनसेच्छति

putradārānvihāyaiva yadanyadvittamasti me |
tacca tasmai punardadyāṃ yadyacca manasecchati

32.21

हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः ।
तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ

hatvā ca sahitau kṛṣṇau tayorvittāni sarvaśaḥ |
tasmai dadyāmahaṃ yo me prabrūyātkeśavārjunau

32.22

एता वाचः सुबहुशः कर्ण उच्चारयन्युधि ।
दध्मौ सागरसम्भूतं सुस्वरं शङ्खमुत्तमम्

etā vācaḥ subahuśaḥ karṇa uccārayanyudhi |
dadhmau sāgarasambhūtaṃ susvaraṃ śaṅkhamuttamam

32.23

ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु ।
दुर्योधनो महाराज संहृष्टः सानुजोऽभवत्

tā vācaḥ sūtaputrasya tathā yuktā niśamya tu |
duryodhano mahārāja saṃhṛṣṭaḥ sānujo'bhavat

32.24

ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशा ।
सिंहनादः सवादित्रः कुञ्चराणां च निःस्वनः

tato dundubhinirghoṣo mṛdaṅgānāṃ ca sarvaśā |
siṃhanādaḥ savāditraḥ kuñcarāṇāṃ ca niḥsvanaḥ

32.25

प्रादुरासीत्तदा राजंस्त्वत्सैन्ये पुरुषर्षभ ।
योधानां सम्प्रहृष्टानां तथा समभवत्स्वनः

prādurāsīttadā rājaṃstvatsainye puruṣarṣabha |
yodhānāṃ samprahṛṣṭānāṃ tathā samabhavatsvanaḥ

32.26

तथा प्रहृष्टे सैन्ये तं प्लुवमानं महारथम् ।
विकत्थमानं च तदा राधेयमरिकर्शनम् ।
मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत

tathā prahṛṣṭe sainye taṃ pluvamānaṃ mahāratham |
vikatthamānaṃ ca tadā rādheyamarikarśanam |
madrarājaḥ prahasyedaṃ vacanaṃ pratyabhāṣata

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)