दौष्यन्ति भरतं चापि मृतं सृञ्जय शुश्रुम ।
कर्माण्यसुकराण्यन्यैः कृतवान्यः शिशुर्वने
dauṣyanti bharataṃ cāpi mṛtaṃ sṛñjaya śuśruma |
karmāṇyasukarāṇyanyaiḥ kṛtavānyaḥ śiśurvane
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये अष्टषष्टितमोऽध्यायः ॥
16 श्लोक · 68 में से 203
नारद दुष्यन्त और शकुन्तला के पुत्र भरत की कथा कहते हैं, जिन्होंने बालपन में वन में वह किया जो दूसरे नहीं कर सकते थे। वे श्वेत सिंहों को घसीटकर बाँध देते, उग्र बाघों को वश में करते, बड़े हाथियों को दाँत पकड़कर झुका देते, फिर छोड़ देते। इसी से ब्राह्मणों ने उन्हें सर्वदमन कहा, यद्यपि माता उन्हें प्राणियों को सताने से रोकती थीं। उन्होंने यमुना के तट पर सौ, सरस्वती पर तीन सौ और गङ्गा के तट पर चार सौ अश्वमेध किए, फिर हजार अश्वमेध, सौ राजसूय और अनगिनत अन्य यज्ञ किए। कण्व को उन्होंने शुद्ध सोने के हजार कमल दिए। कभी पराजित न होने वाले उस चक्रवर्ती ने ब्राह्मणों को रत्नजटित हाथी, घोड़े, गाँव और अपार धन दिया। फिर टेक आती है।
नारद उवाच
दौष्यन्ति भरतं चापि मृतं सृञ्जय शुश्रुम ।
कर्माण्यसुकराण्यन्यैः कृतवान्यः शिशुर्वने
dauṣyanti bharataṃ cāpi mṛtaṃ sṛñjaya śuśruma |
karmāṇyasukarāṇyanyaiḥ kṛtavānyaḥ śiśurvane
हिमावदातान्यः सिंहान्नखदंष्ट्रायुधान्बली ।
निर्वीर्यांस्तरसा कृत्वा विचकर्ष बबन्ध च
himāvadātānyaḥ siṃhānnakhadaṃṣṭrāyudhānbalī |
nirvīryāṃstarasā kṛtvā vicakarṣa babandha ca
क्रूरांश्चोग्रतरान्व्याघ्रान्दमित्वा चाकरोद्वशे ।
मनःशिला इव शिलाः संयुक्ता जतुराशिभिः
krūrāṃścogratarānvyāghrāndamitvā cākarodvaśe |
manaḥśilā iva śilāḥ saṃyuktā jaturāśibhiḥ
त्रायलादींश्चातिबलवान्सुप्रतीकान्गजानपि ।
दंष्ट्रासु गृह्य विमुखाञ्शुष्कास्यानकरोद्वशे
trāyalādīṃścātibalavānsupratīkāngajānapi |
daṃṣṭrāsu gṛhya vimukhāñśuṣkāsyānakarodvaśe
महिषानप्यतिबलो बलिनो विचकर्ष ह ।
सिंहानां च सुदृप्तानां शतान्याकर्षयद्बलात्
mahiṣānapyatibalo balino vicakarṣa ha |
siṃhānāṃ ca sudṛptānāṃ śatānyākarṣayadbalāt
बलिनः सृमरान्खङ्गान्नानासत्त्वानि चाप्युत ।
कृच्छ्रप्राणान्वने बद्ध्वा दमयित्वाप्यवासृजत्
balinaḥ sṛmarānkhaṅgānnānāsattvāni cāpyuta |
kṛcchraprāṇānvane baddhvā damayitvāpyavāsṛjat
तं सर्वदमनेत्याहुर्द्विजास्तेनास्य कर्मणा ।
तं प्रत्यषेधज्जननी मा सत्वानि व्यनीनशः
taṃ sarvadamanetyāhurdvijāstenāsya karmaṇā |
taṃ pratyaṣedhajjananī mā satvāni vyanīnaśaḥ
सोऽश्वमेधशतेनेजे यमुनामनु वीर्यवान् ।
त्रिशतैश्च सरस्वत्यां गङ्गामनु चतुःशतैः
so'śvamedhaśateneje yamunāmanu vīryavān |
triśataiśca sarasvatyāṃ gaṅgāmanu catuḥśataiḥ
सौऽश्वमेधसहस्रेण राजसूयशतेन च ।
पुनरीजे महायज्ञैः समाप्तवरदक्षिणैः
sau'śvamedhasahasreṇa rājasūyaśatena ca |
punarīje mahāyajñaiḥ samāptavaradakṣiṇaiḥ
अग्निष्टोमातिरात्राणामुक्थ्यविश्वजितां च सः ।
वाजपेयसहस्रामां सहस्रैश्च सुसंवृतैः
agniṣṭomātirātrāṇāmukthyaviśvajitāṃ ca saḥ |
vājapeyasahasrāmāṃ sahasraiśca susaṃvṛtaiḥ
इष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान्धनैः ।
सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ ।
जाम्बूनदस्य शुद्धस्य कनकस्य महायशाः
iṣṭvā śākuntalo rājā tarpayitvā dvijāndhanaiḥ |
sahasraṃ yatra padmānāṃ kaṇvāya bharato dadau |
jāmbūnadasya śuddhasya kanakasya mahāyaśāḥ
यस्य यूपाः सतव्यामाः परिणाहेन काञ्चनाः ।
समागम्य द्विजैः सार्धे सेन्द्रैर्देवैः समुच्छ्रिताः
yasya yūpāḥ satavyāmāḥ pariṇāhena kāñcanāḥ |
samāgamya dvijaiḥ sārdhe sendrairdevaiḥ samucchritāḥ
अलङ्कृतान्राजमानान्सर्वरत्नैर्मनोहरैः ।
हैरण्यान्द्विरदानश्वान्रथानुष्ट्रानजाविकान्
alaṅkṛtānrājamānānsarvaratnairmanoharaiḥ |
hairaṇyāndviradānaśvānrathānuṣṭrānajāvikān
दासी दासं धनं धान्यं गाः सवत्साः पयस्विनीः ।
ग्रामान्गृहांश्च क्षेत्राणि विविधांश्च परिच्छदान्
dāsī dāsaṃ dhanaṃ dhānyaṃ gāḥ savatsāḥ payasvinīḥ |
grāmāngṛhāṃśca kṣetrāṇi vividhāṃśca paricchadān
कोटीशतायुतांश्चैव ब्राह्मणेभ्यो ह्यमन्यत ।
चक्रवर्ती ह्यदीनात्मा जितारिर्ह्यजितः परैः
koṭīśatāyutāṃścaiva brāhmaṇebhyo hyamanyata |
cakravartī hyadīnātmā jitārirhyajitaḥ paraiḥ
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्
sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyatarastubhyaṃ mā putramanutapyathāḥ |
ayajvānamadakṣiṇyamabhi śvaityetyudāharat
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)