द्रोण पर्व

अध्याय 67: अनुपम अतिथि-सत्कारी रन्तिदेव

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये सप्तषष्टितमोऽध्यायः ॥

21 श्लोक · 67 में से 203

इस अध्याय में क्या होता है

अनुपम अतिथि-सत्कारी रन्तिदेव

नारद सङ्कृति के पुत्र रन्तिदेव की कथा कहते हैं, जिनके दो लाख रसोइये दिन-रात ब्राह्मणों और अतिथियों को पका भोजन परोसते थे। पाठ कहता है कि स्वर्ग की इच्छा से पशु स्वयं उनके पास आते थे, और उनकी पाकशाला के चर्म-ढेर से चर्मण्वती नदी बह निकली। वे तुम्हारे लिए, तुम्हारे लिए कहकर हजारों स्वर्ण मुद्राएँ देते, और जिस दिन कम दान होता, दुखी होते। सौ वर्ष तक वे हर पखवाड़े दान करते रहे, और उनके पात्र, शय्याएँ, भवन और वृक्ष तक सोने के थे। श्लोक कहता है कि जिस रात कोई अतिथि ठहरता, इक्कीस हजार गौओं का आलभन होता, और रसोइये पुकारते, दाल भरपूर खाओ, आज पहले-सा मांस नहीं है। देवता उनकी आहुति प्रत्यक्ष ग्रहण करते थे। फिर टेक आती है।

नारद उवाच

67.1

साङ्कृतिं रन्तिदेवं च मृतं सृञ्जय शुश्रुम ।
यस्य द्विशतसाहस्रा आसन्सूदा महात्मनः

sāṅkṛtiṃ rantidevaṃ ca mṛtaṃ sṛñjaya śuśruma |
yasya dviśatasāhasrā āsansūdā mahātmanaḥ

67.2

गृहानभ्यागतान्विप्रानतिथीन्परिवेषकाः ।
पक्वंपक्वं दिवारात्रं वरान्नममृतोपमम्

gṛhānabhyāgatānviprānatithīnpariveṣakāḥ |
pakvaṃpakvaṃ divārātraṃ varānnamamṛtopamam

67.3

न्यायेनाधिगतं वित्तं ब्राह्मणेभ्यो ह्यमन्यत ।
वेदानधीत्य धर्मेण यश्चक्रे द्विषतो वशे

nyāyenādhigataṃ vittaṃ brāhmaṇebhyo hyamanyata |
vedānadhītya dharmeṇa yaścakre dviṣato vaśe

67.4

उपस्थिताश्च पशवः स्वयं यं शंसितव्रतम् ।
बहवः स्वर्गमिच्छन्तो विधिवत्सत्रयाजिनम्

upasthitāśca paśavaḥ svayaṃ yaṃ śaṃsitavratam |
bahavaḥ svargamicchanto vidhivatsatrayājinam

67.5

नदी महानसाद्यस्य प्रवृतक्ता चर्मराशितः ।
तस्माच्चर्मण्वती नाम ख्याता पुण्या सरिद्वरा

nadī mahānasādyasya pravṛtaktā carmarāśitaḥ |
tasmāccarmaṇvatī nāma khyātā puṇyā saridvarā

67.6

ब्राह्मणेभ्यो ददन्निष्कान्सौवर्णान्स प्रभावतः ।
तुभ्यं निष्कं तुभ्यं निष्कमिति ह स्म प्रभाषते

brāhmaṇebhyo dadanniṣkānsauvarṇānsa prabhāvataḥ |
tubhyaṃ niṣkaṃ tubhyaṃ niṣkamiti ha sma prabhāṣate

67.7

तुभ्यन्तुभ्यमिति प्रादान्निष्कान्निष्कान्सहस्रशः ।
तत पुनः समाश्वास्य निष्कानेव प्रयच्छति

tubhyantubhyamiti prādānniṣkānniṣkānsahasraśaḥ |
tata punaḥ samāśvāsya niṣkāneva prayacchati

67.8

अल्पं दत्तं मयाऽद्येति निष्ककोटिं सहस्रशः ।
एकाह्ना ताम्यति ततः क्वाद्य विप्रा इति ब्रुवन्

alpaṃ dattaṃ mayā'dyeti niṣkakoṭiṃ sahasraśaḥ |
ekāhnā tāmyati tataḥ kvādya viprā iti bruvan

67.9

द्विजपाणिवियोगेन दुःखं मे शाश्वतं महत् ।
भविष्यति न सन्देह एवं राजाऽददद्वसु

dvijapāṇiviyogena duḥkhaṃ me śāśvataṃ mahat |
bhaviṣyati na sandeha evaṃ rājā'dadadvasu

67.10

सहस्रशश्च सौवर्णान्वृषभान्गोशतानुगान् ।
साष्टं शतं सुवर्णानां निष्कमाहुर्धनं तथा

sahasraśaśca sauvarṇānvṛṣabhāngośatānugān |
sāṣṭaṃ śataṃ suvarṇānāṃ niṣkamāhurdhanaṃ tathā

67.11

अध्यर्धमासमददद्ब्राह्मणेभ्यः शतं समाः ।
अग्निहोत्रोपकरणं यज्ञोपकरणं च यत्

adhyardhamāsamadadadbrāhmaṇebhyaḥ śataṃ samāḥ |
agnihotropakaraṇaṃ yajñopakaraṇaṃ ca yat

67.12

ऋषिभ्यः करकान्कुम्भान्स्थालीः पिठरमेव च ।
शयनासनायानानि प्रासादांश्च गृहाणि च

ṛṣibhyaḥ karakānkumbhānsthālīḥ piṭharameva ca |
śayanāsanāyānāni prāsādāṃśca gṛhāṇi ca

67.13

वृक्षांश्च विविधान्दद्यादन्नानि च धनानि च ।
सर्वं सौवर्णमेवासीद्रन्तिदेवस्य धीमतः

vṛkṣāṃśca vividhāndadyādannāni ca dhanāni ca |
sarvaṃ sauvarṇamevāsīdrantidevasya dhīmataḥ

67.14

तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः ।
रन्तिदेवस्य तां दृष्ट्वा समृद्धिमतिमानुषीम्

tatrāsya gāthā gāyanti ye purāṇavido janāḥ |
rantidevasya tāṃ dṛṣṭvā samṛddhimatimānuṣīm

67.15

नैतादृशं दृष्टपूर्वं कुबेरसदनेष्वपि ।
धनं च पूर्यमाणं नः किं पुनर्मनुजेष्विति

naitādṛśaṃ dṛṣṭapūrvaṃ kuberasadaneṣvapi |
dhanaṃ ca pūryamāṇaṃ naḥ kiṃ punarmanujeṣviti

67.16

व्यक्तं वस्वोकसारेयमित्युचुस्तत्र विस्मिताः ।
साङ्कृते रन्तिदेवस्य यां रात्रिमतिथिर्वसेत्

vyaktaṃ vasvokasāreyamityucustatra vismitāḥ |
sāṅkṛte rantidevasya yāṃ rātrimatithirvaset

67.17

आलभ्यन्त तदा गावः सहस्राण्येकविंशतिः ।
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः

ālabhyanta tadā gāvaḥ sahasrāṇyekaviṃśatiḥ |
tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ

67.18

सूपं भूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा ।
रन्तिदेवस्य यत्किञ्चित्सौवर्णमभवत्तदा

sūpaṃ bhūyiṣṭhamaśnīdhvaṃ nādya māṃsaṃ yathā purā |
rantidevasya yatkiñcitsauvarṇamabhavattadā

67.19

तत्सर्वं वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत ।
प्रत्यक्षं तस्य हव्यानि प्रतिगृह्णन्ति देवताः

tatsarvaṃ vitate yajñe brāhmaṇebhyo hyamanyata |
pratyakṣaṃ tasya havyāni pratigṛhṇanti devatāḥ

67.20

कव्यानि पितरः काले सर्वकामान्द्विजोत्तमाः ।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया

kavyāni pitaraḥ kāle sarvakāmāndvijottamāḥ |
sa cenmamāra sṛñjaya caturbhadratarastvayā

67.21

पुत्रात्पुण्डतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्

putrātpuṇḍatarastubhyaṃ mā putramanutapyathāḥ |
ayajvānamadakṣiṇyamabhi śvaityetyudāharat

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)