गयं चाधूर्तरजसं मृतं सृञ्जय शुश्रुम ।
ये वै वर्षशत राजा हुतशिष्टाशनोऽभवत्
gayaṃ cādhūrtarajasaṃ mṛtaṃ sṛñjaya śuśruma |
ye vai varṣaśata rājā hutaśiṣṭāśano'bhavat
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये षट्षष्टितमोऽध्यायः ॥
21 श्लोक · 66 में से 203
नारद अमूर्तरय के पुत्र गय की कथा कहते हैं, जिन्होंने सौ वर्ष तक केवल यज्ञ से बचा अन्न खाया। अग्नि ने वर देना चाहा, तो गय ने माँगा: तप और गुरुओं की कृपा से वेदों का ज्ञान, दूसरों को पीड़ा दिए बिना अक्षय धन, ब्राह्मणों को सदा श्रद्धा से दान, सवर्ण पत्नियों से उत्तम सन्तान, और धर्म में रमने वाला मन। सब उन्हें मिला। सौ वर्ष तक वे प्रतिदिन उठकर गौएँ, घोड़े और सोना देते रहे, और हर नक्षत्र पर नक्षत्र-दक्षिणा दी। अश्वमेध में उन्होंने सोने की पृथ्वी बनाकर दान कर दी; सोने की वेदी छत्तीस योजन लम्बी थी, मोतियों और हीरों से जड़ी। अन्न के पच्चीस पर्वत बच रहे। अक्षयवट और पवित्र ब्रह्मसर उन्हीं से प्रसिद्ध हैं। फिर टेक आती है।
नारद उवाच
गयं चाधूर्तरजसं मृतं सृञ्जय शुश्रुम ।
ये वै वर्षशत राजा हुतशिष्टाशनोऽभवत्
gayaṃ cādhūrtarajasaṃ mṛtaṃ sṛñjaya śuśruma |
ye vai varṣaśata rājā hutaśiṣṭāśano'bhavat
तस्मै ह्यग्निर्वरं प्रादात्ततो वव्रे वरं गयः ।
तपसा ब्रह्मचर्येण व्रतेन नियमेन च
tasmai hyagnirvaraṃ prādāttato vavre varaṃ gayaḥ |
tapasā brahmacaryeṇa vratena niyamena ca
गुरूणां च प्रसादेन वेदानिच्छामि वेदितुम् ।
स्वधर्मेणाविहिंस्यान्यान्धनमिच्छामि चाक्षयम्
gurūṇāṃ ca prasādena vedānicchāmi veditum |
svadharmeṇāvihiṃsyānyāndhanamicchāmi cākṣayam
विप्रेषु ददतश्चैव श्रद्धा भवतु नित्यशः ।
कन्यासु च सवर्णासु सुप्रजस्त्वं च मे भवेत्
vipreṣu dadataścaiva śraddhā bhavatu nityaśaḥ |
kanyāsu ca savarṇāsu suprajastvaṃ ca me bhavet
अन्नमोजो महो मह्यं धर्मे मे रमतां मनः ।
अविघ्नं चास्तु मे नित्यं धर्मकार्येषु पावक
annamojo maho mahyaṃ dharme me ramatāṃ manaḥ |
avighnaṃ cāstu me nityaṃ dharmakāryeṣu pāvaka
तथा भिष्यतीत्युक्त्वा तत्रैवान्तरधीयत ।
गयो ह्यवाप्य तत्सर्वं धर्मेणाराधयञ्जगत्
tathā bhiṣyatītyuktvā tatraivāntaradhīyata |
gayo hyavāpya tatsarvaṃ dharmeṇārādhayañjagat
स दर्शपूर्णमासाभ्यां कालेष्वाग्रयणेन च ।
चातुर्मास्यैश्च विविधैर्यज्ञैश्चावाप्तदक्षिणैः
sa darśapūrṇamāsābhyāṃ kāleṣvāgrayaṇena ca |
cāturmāsyaiśca vividhairyajñaiścāvāptadakṣiṇaiḥ
अयजच्छ्रद्धया राजा परिसंवत्सराञ्शतम् ।
गवां शतसहस्राणि शतमश्वशतानि च
ayajacchraddhayā rājā parisaṃvatsarāñśatam |
gavāṃ śatasahasrāṇi śatamaśvaśatāni ca
शतं निष्कसहस्राणि गवां चाप्ययुतानि षट् ।
उत्थायोत्थाय सम्प्रादात्परिसंवत्सराञ्शतम्
śataṃ niṣkasahasrāṇi gavāṃ cāpyayutāni ṣaṭ |
utthāyotthāya samprādātparisaṃvatsarāñśatam
नक्षत्रेषु च सर्वेषु ददन्नक्षत्रदक्षिणाः ।
ईजे च विविधैर्यज्ञैर्यथा सोमोऽङ्गिरा यथा
nakṣatreṣu ca sarveṣu dadannakṣatradakṣiṇāḥ |
īje ca vividhairyajñairyathā somo'ṅgirā yathā
सौवर्णां पृथिवीं कृत्वा य इमां प्रमिशर्कराम् ।
विप्रेभ्यः प्राददद्राजा सोऽश्वमेधे महामखे
sauvarṇāṃ pṛthivīṃ kṛtvā ya imāṃ pramiśarkarām |
viprebhyaḥ prādadadrājā so'śvamedhe mahāmakhe
जाम्बूनदमया यूपाः सर्वे रत्नपरिच्छदाः ।
गयस्यासन्समृद्धास्तु सर्वभूतमनोहराः
jāmbūnadamayā yūpāḥ sarve ratnaparicchadāḥ |
gayasyāsansamṛddhāstu sarvabhūtamanoharāḥ
सर्वकामसमृद्धं च प्रादादन्नं गयस्तदा ।
ब्राह्ममेभ्यः प्रहृष्टेभ्यः सर्वभूतेभ्य एव च
sarvakāmasamṛddhaṃ ca prādādannaṃ gayastadā |
brāhmamebhyaḥ prahṛṣṭebhyaḥ sarvabhūtebhya eva ca
ससमुद्रवनद्वीपनदीनदवनेषु च ।
नगरेषु च राष्ट्रेषु दिवि व्योम्नि च येऽवसन्
sasamudravanadvīpanadīnadavaneṣu ca |
nagareṣu ca rāṣṭreṣu divi vyomni ca ye'vasan
भूतग्रामाश्च विविधाः सन्तृप्ता यज्ञसम्पदा ।
गयस्य सदृशो यज्ञो नास्त्यन्य इति तेऽब्रुवन्
bhūtagrāmāśca vividhāḥ santṛptā yajñasampadā |
gayasya sadṛśo yajño nāstyanya iti te'bruvan
षट्त्रिंशद्योजनायामा त्रिंशद्योजनमायता ।
पश्चात्पुरश्चतुर्विंशद्वेदी ह्यासीद्धिरण्मयी
ṣaṭtriṃśadyojanāyāmā triṃśadyojanamāyatā |
paścātpuraścaturviṃśadvedī hyāsīddhiraṇmayī
गयस्य यजमानस्य मुक्तावज्रमणिस्तृता ।
प्रादात्स ब्राह्मणेभ्योऽथ वासांस्याभरणानि च
gayasya yajamānasya muktāvajramaṇistṛtā |
prādātsa brāhmaṇebhyo'tha vāsāṃsyābharaṇāni ca
यथोक्ता दक्षिणाश्चान्या विप्रेभ्यो भूरिदक्षिणः ।
यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः
yathoktā dakṣiṇāścānyā viprebhyo bhūridakṣiṇaḥ |
yatra bhojanaśiṣṭasya parvatāḥ pañcaviṃśatiḥ
कुल्याश्च क्षीरवाहिन्यो रसानां चापभवंस्तदा ।
वस्त्राभरणगन्धानां शारयश्च पृथग्विधाः
kulyāśca kṣīravāhinyo rasānāṃ cāpabhavaṃstadā |
vastrābharaṇagandhānāṃ śārayaśca pṛthagvidhāḥ
यस्य प्रभावाच्च गयस्त्रिषु लोकेषु विश्रुतः ।
वटश्चाक्षय्यकरणः पुण्यं ब्रह्मसरश्च तत्
yasya prabhāvācca gayastriṣu lokeṣu viśrutaḥ |
vaṭaścākṣayyakaraṇaḥ puṇyaṃ brahmasaraśca tat
स चेन्ममार स़ञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्
sa cenmamāra sa़ñjaya caturbhadratarastvayā |
putrātpuṇyatarastubhyaṃ mā putramanutapyathāḥ |
ayajvānamadakṣiṇyamabhi śvaityetyudāharat
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)