द्रोण पर्व

अध्याय 65: शशबिन्दु और उनके असंख्य पुत्र

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये पञ्चषष्टितमोऽध्यायः ॥

12 श्लोक · 65 में से 203

इस अध्याय में क्या होता है

शशबिन्दु और उनके असंख्य पुत्र

नारद सत्यपराक्रमी राजा शशबिन्दु की कथा कहते हैं, जिन्होंने अनेक यज्ञ किए। उनकी एक लाख रानियाँ थीं और प्रत्येक से हजार पुत्र हुए, सब वेदों के ज्ञाता, सोने के कवच वाले, उत्तम धनुर्धर, और स्वयं अश्वमेध करने वाले। अपने महान अश्वमेध में पिता ने ये राजकुमार ब्राह्मणों को दे दिए। प्रत्येक राजकुमार के पीछे सोने से सजी सौ कन्याएँ, प्रत्येक कन्या के पीछे सौ हाथी, प्रत्येक हाथी के पीछे सौ रथ, प्रत्येक रथ के पीछे सोने की माला वाले सौ घोड़े और प्रत्येक घोड़े के पीछे हजार गौएँ थीं। यज्ञ में जितने लकड़ी के यूप थे, उतने ही सोने के भी थे। कोस भर ऊँचे अन्न के पर्वत बच रहे। शशबिन्दु ने बहुत काल तक सुखी, समृद्ध पृथ्वी का भोग किया और स्वर्ग गए। फिर टेक आती है।

नारद उवाच

65.1

शशिबिन्दुं च राजानं मृतं सृञ्जय शुश्रुम ।
य ईजे विविधैर्यज्ञैः श्रीमान्सत्यपराक्रमः

śaśibinduṃ ca rājānaṃ mṛtaṃ sṛñjaya śuśruma |
ya īje vividhairyajñaiḥ śrīmānsatyaparākramaḥ

65.2

तस्य भार्यासहस्राणां शतमासीन्महात्मनः ।
एकैकस्यां च भार्यायां सहस्रं तनयाभवन्

tasya bhāryāsahasrāṇāṃ śatamāsīnmahātmanaḥ |
ekaikasyāṃ ca bhāryāyāṃ sahasraṃ tanayābhavan

65.3

ते कुमाराः पराक्रान्ताः सर्वे नियुतयाजिनः ।
राजानः क्रतुभिर्मुख्यैरीजाना वेदपारगाः

te kumārāḥ parākrāntāḥ sarve niyutayājinaḥ |
rājānaḥ kratubhirmukhyairījānā vedapāragāḥ

65.4

हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः ।
सर्वेऽश्वमेधैरीजानाः कुमाराः शाशिबिन्दवाः

hiraṇyakavacāḥ sarve sarve cottamadhanvinaḥ |
sarve'śvamedhairījānāḥ kumārāḥ śāśibindavāḥ

65.5

तानश्वमेधे राजेन्द्रो ब्राह्मणेभ्योददत्पिता ।
शतंशतं रथगजा एकैकं पृष्ठतोऽन्वयुः

tānaśvamedhe rājendro brāhmaṇebhyodadatpitā |
śataṃśataṃ rathagajā ekaikaṃ pṛṣṭhato'nvayuḥ

65.6

राजपुत्रं तदा कन्यास्तपनीयस्वलङ्कृताः ।
कन्याङ्कन्यां शतं नागा नागेनागे शतं रथाः

rājaputraṃ tadā kanyāstapanīyasvalaṅkṛtāḥ |
kanyāṅkanyāṃ śataṃ nāgā nāgenāge śataṃ rathāḥ

65.7

रथेरथे शतं चाश्वा बलिनो हेममालिनः ।
अश्वेअश्वे गोसहस्रं गवां पञ्चाशदाविकाः

ratherathe śataṃ cāśvā balino hemamālinaḥ |
aśveaśve gosahasraṃ gavāṃ pañcāśadāvikāḥ

65.8

एतद्धनमपर्याप्तमश्वमेधे महामस्वे ।
शशिबिन्दुर्महाभागो ब्राह्मणेभ्यो ह्यमन्यत

etaddhanamaparyāptamaśvamedhe mahāmasve |
śaśibindurmahābhāgo brāhmaṇebhyo hyamanyata

65.9

वार्क्षाश्च यूपा यावन्त अश्वमेधे महामखे ।
ते तथैव पुनश्चान्ये तावन्तः काञ्चनाभवन्

vārkṣāśca yūpā yāvanta aśvamedhe mahāmakhe |
te tathaiva punaścānye tāvantaḥ kāñcanābhavan

65.10

भक्ष्यान्नपाननिचयाः पर्वताः क्रोशमुच्छ्रिताः ।
तस्याश्वमेधे निर्वृत्ते राज्ञः शिष्टास्त्रयोदश

bhakṣyānnapānanicayāḥ parvatāḥ krośamucchritāḥ |
tasyāśvamedhe nirvṛtte rājñaḥ śiṣṭāstrayodaśa

65.11

तुष्टपुष्टजनाकीर्णां शान्तविघ्नामनामयाम् ।
शशिबिन्दुरिमां भूमिं चिरं भुक्त्वा दिवं गतः

tuṣṭapuṣṭajanākīrṇāṃ śāntavighnāmanāmayām |
śaśibindurimāṃ bhūmiṃ ciraṃ bhuktvā divaṃ gataḥ

65.12

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyatarastubhyaṃ mā putramanutapyathāḥ |
ayajvānamadakṣiṇyamabhi śvaityetyudāharat

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)