नाभागमम्बरीषं च मृतं सृञ्जय शुश्रुम ।
यः सहस्रं सहस्राणां राज्ञां चैकस्त्वयोधयत्
nābhāgamambarīṣaṃ ca mṛtaṃ sṛñjaya śuśruma |
yaḥ sahasraṃ sahasrāṇāṃ rājñāṃ caikastvayodhayat
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये चतुःषष्टितमोऽध्यायः ॥
17 श्लोक · 64 में से 203
नारद नाभाग के पुत्र अम्बरीष की कथा कहते हैं, जिन्होंने अकेले दस लाख राजाओं से युद्ध किया, जो अस्त्रविद्या में निपुण होकर कटु वचन कहते हुए चारों ओर से चढ़ आए थे। फुर्ती, बल और अस्त्रों से उन्होंने उनके छत्र, ध्वज और रथ काट डाले, तब वे कवच उतारकर शरण आए और बोले, हम आपके हैं। उन्हें वश में करके और पृथ्वी जीतकर उन्होंने इन्द्र की भाँति सौ यज्ञ किए। ब्राह्मणों ने लड्डू, पूए, दही, मधु और भाँति-भाँति के उत्तम भोजन खाए। दक्षिणा में उन्होंने सोने के कवच, श्वेत छत्र और सोने के रथों सहित हजारों राजा, और सेना तथा कोष सहित सैकड़ों राजकुमार दे दिए। ऋषियों ने कहा कि ऐसा दान न पहले किसी ने किया, न आगे करेगा। फिर टेक आती है।
नारद उवाच
नाभागमम्बरीषं च मृतं सृञ्जय शुश्रुम ।
यः सहस्रं सहस्राणां राज्ञां चैकस्त्वयोधयत्
nābhāgamambarīṣaṃ ca mṛtaṃ sṛñjaya śuśruma |
yaḥ sahasraṃ sahasrāṇāṃ rājñāṃ caikastvayodhayat
जिगीषमाणाः सङ्ग्रामे समन्ताद्वैरिणोऽभ्ययुः ।
अस्त्रयुद्धविदो घोराः सृजन्तश्चाशिवा गिरः
jigīṣamāṇāḥ saṅgrāme samantādvairiṇo'bhyayuḥ |
astrayuddhavido ghorāḥ sṛjantaścāśivā giraḥ
बललाघवशिक्षाभिस्तेषां सोऽस्त्रबलेन च ।
छत्रायुधध्वजरथांश्छित्त्वा प्रासान्गतव्यथः
balalāghavaśikṣābhisteṣāṃ so'strabalena ca |
chatrāyudhadhvajarathāṃśchittvā prāsāngatavyathaḥ
त एनं मुक्तसन्नाहाः प्रार्थयञ्जीवितैषिणः ।
शरण्यमीयुः शरणं तव स्म इति वादिनः
ta enaṃ muktasannāhāḥ prārthayañjīvitaiṣiṇaḥ |
śaraṇyamīyuḥ śaraṇaṃ tava sma iti vādinaḥ
स तु तान्वशगान्कृत्वा जित्वा चेमां वसुन्धराम् ।
ईजे यज्ञशतैरिष्टैर्यथा शक्रस्तथाऽनघः
sa tu tānvaśagānkṛtvā jitvā cemāṃ vasundharām |
īje yajñaśatairiṣṭairyathā śakrastathā'naghaḥ
बुभुजुः सर्वसम्पन्नमन्नमन्ये जनाः सदा ।
तस्मिन्यज्ञे तु विप्रेन्द्राः सन्तृप्ताः परमार्चिताः
bubhujuḥ sarvasampannamannamanye janāḥ sadā |
tasminyajñe tu viprendrāḥ santṛptāḥ paramārcitāḥ
मोदकान्पूरिकापूपान्स्वादुपूर्णाश्च शष्कुलीः ।
करम्भान्पृथुमृद्वीका अन्नानि सुकृतानि च
modakānpūrikāpūpānsvādupūrṇāśca śaṣkulīḥ |
karambhānpṛthumṛdvīkā annāni sukṛtāni ca
सूपान्मैरेयकापूपान्रागषाडवपानकान् ।
मृष्टान्नानि सुयुक्तानि मृदूनि सुरभीणि च
sūpānmaireyakāpūpānrāgaṣāḍavapānakān |
mṛṣṭānnāni suyuktāni mṛdūni surabhīṇi ca
घृतं मधु पयस्तोयं दधीनि रसवन्ति च ।
फलं मूलं सुस्वादु द्विजास्तत्रोपभुञ्जते
ghṛtaṃ madhu payastoyaṃ dadhīni rasavanti ca |
phalaṃ mūlaṃ susvādu dvijāstatropabhuñjate
मदनीयानि पापानि विदित्वा चात्मनः सुखम् ।
अपिबन्त यथाकामं पानपा गीतवादितैः
madanīyāni pāpāni viditvā cātmanaḥ sukham |
apibanta yathākāmaṃ pānapā gītavāditaiḥ
तत्र स्म गाथा गायन्ति क्षीबा हृष्टाः पठन्ति च ।
नाभागस्तुतिसंयुक्ता ननृतुश्च सहस्रशः
tatra sma gāthā gāyanti kṣībā hṛṣṭāḥ paṭhanti ca |
nābhāgastutisaṃyuktā nanṛtuśca sahasraśaḥ
तेषु यज्ञेष्वम्बरीषो दक्षिणामत्यकालयत् ।
राज्ञां शतसहस्राणि दशप्रयुतयाजिनाम्
teṣu yajñeṣvambarīṣo dakṣiṇāmatyakālayat |
rājñāṃ śatasahasrāṇi daśaprayutayājinām
हिरण्यकवचान्सर्वाञ्श्वेतच्छत्रप्रकीर्णकान् ।
हिरण्यस्यन्दनारूढान्सानुयात्रपरिच्छादान्
hiraṇyakavacānsarvāñśvetacchatraprakīrṇakān |
hiraṇyasyandanārūḍhānsānuyātraparicchādān
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ।
मूर्धाभिषिक्तांश्च नृपान्राजपुत्रशतानि च
ījāno vitate yajñe dakṣiṇāmatyakālayat |
mūrdhābhiṣiktāṃśca nṛpānrājaputraśatāni ca
स दण्डकोशनिचयान्ब्राह्मणेभ्यो ह्यमन्यत ।
नैवं पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे
sa daṇḍakośanicayānbrāhmaṇebhyo hyamanyata |
naivaṃ pūrve janāścakrurna kariṣyanti cāpare
यदम्बरीषो नृपतिः करोत्यमितदक्षिणः ।
इत्येवमनुमोदन्ते प्रीता यस्य महर्षयः
yadambarīṣo nṛpatiḥ karotyamitadakṣiṇaḥ |
ityevamanumodante prītā yasya maharṣayaḥ
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्
sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyatarastubhyaṃ mā putramanutapyathāḥ |
ayajvānamadakṣiṇyamabhi śvaityetyudāharat
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)