द्रोण पर्व

अध्याय 60: गङ्गा को उतारने वाले भगीरथ

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये षष्टितमोऽध्यायः ॥

15 श्लोक · 60 में से 203

इस अध्याय में क्या होता है

गङ्गा को उतारने वाले भगीरथ

नारद इक्ष्वाकु वंश के राजा भगीरथ की कथा कहते हैं, जिन्होंने पितरों के उद्धार के लिए गङ्गा को पृथ्वी पर उतारा। उनके बाहुबल से इन्द्र प्रसन्न थे, और उन्होंने भारी दक्षिणा वाले सौ अश्वमेध किए, भागीरथी के तटों को सोने की वेदियों से भर दिया। उन्होंने ब्राह्मणों को सोने से सजी दस लाख कन्याएँ दीं, प्रत्येक चार घोड़ों के रथ पर, प्रत्येक रथ के पीछे सोने की माला वाले सौ हाथी, प्रत्येक हाथी के पीछे हजार घोड़े और प्रत्येक घोड़े के पीछे सौ गौएँ। यज्ञ की भीड़ से व्याकुल होकर गङ्गा आकर उनकी गोद में बैठ गईं और उनकी पुत्री कहलाईं; गन्धर्वों ने गाया कि गङ्गा ने उन्हें पिता चुना। जो ब्राह्मण जो चाहता, वे देते थे, और अन्त में ब्रह्मलोक गए। फिर टेक आती है।

नारद उवाच

60.1

भगीरथं च राजानं मृतं सृञ्जय शुश्रुम ।
परित्राणाय पूर्वेषां येन गङ्गाऽवतारिता

bhagīrathaṃ ca rājānaṃ mṛtaṃ sṛñjaya śuśruma |
paritrāṇāya pūrveṣāṃ yena gaṅgā'vatāritā

60.2

यस्येन्द्रो बाहुवीर्येण प्रीतो राज्ञो महात्मनः ।
सोऽश्वमेधशतैरीजे समाप्तवरदक्षिणैः

yasyendro bāhuvīryeṇa prīto rājño mahātmanaḥ |
so'śvamedhaśatairīje samāptavaradakṣiṇaiḥ

60.3

हविर्मन्त्रान्नसम्पन्नैर्देवानामादधौ मुदम् ।
येन भागीरथी गङ्गा चयनैः काञ्चनैश्चिता

havirmantrānnasampannairdevānāmādadhau mudam |
yena bhāgīrathī gaṅgā cayanaiḥ kāñcanaiścitā

60.4

यः सहस्रं सहस्राणां कन्या हेमविभूषिताः ।
राज्ञश्च राजपुत्रांश्च ब्राह्मणेभ्यो ह्यमन्यत

yaḥ sahasraṃ sahasrāṇāṃ kanyā hemavibhūṣitāḥ |
rājñaśca rājaputrāṃśca brāhmaṇebhyo hyamanyata

60.5

सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः ।
रथेरथे शतं नागाः सर्वे वै हेममालिनः

sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ |
ratherathe śataṃ nāgāḥ sarve vai hemamālinaḥ

60.6

सहस्रमश्वाश्चैकैकं गजानां पृष्ठतोऽन्वयुः ।
अश्वेअश्वे शतं गावो गवां पश्चादजाविकम्

sahasramaśvāścaikaikaṃ gajānāṃ pṛṣṭhato'nvayuḥ |
aśveaśve śataṃ gāvo gavāṃ paścādajāvikam

60.7

तेनाक्रान्ता जनौघेन दक्षिणा भूयसीर्ददत् ।
उपह्वरेऽतिव्यथिता तस्याङ्के निषसाद ह

tenākrāntā janaughena dakṣiṇā bhūyasīrdadat |
upahvare'tivyathitā tasyāṅke niṣasāda ha

60.8

तथा मागीरथी गङ्गा ह्यूर्ध्वगा ह्यभवत्पुरा ।
दुहितृत्वं गता राज्ञः पुत्रत्वमगमत्तदा

tathā māgīrathī gaṅgā hyūrdhvagā hyabhavatpurā |
duhitṛtvaṃ gatā rājñaḥ putratvamagamattadā

60.9

तां तु गाथा जगुः प्रीता गन्धर्वाः सूर्यवर्चसः ।
पितृदेवमनुष्याणां शृण्वतां वल्गुवादिनः

tāṃ tu gāthā jaguḥ prītā gandharvāḥ sūryavarcasaḥ |
pitṛdevamanuṣyāṇāṃ śṛṇvatāṃ valguvādinaḥ

60.10

भगीरथं यजमानमैक्ष्वाकुं भूरिदक्षिणम् ।
गङ्गा समुद्रगा देवी वव्रे पितरमीश्वरम्

bhagīrathaṃ yajamānamaikṣvākuṃ bhūridakṣiṇam |
gaṅgā samudragā devī vavre pitaramīśvaram

60.11

तस्य सेन्द्रैः सुरगणैर्देवैर्यज्ञः स्वलङ्कृतः ।
सम्यक्परिगृहीतश्च शान्तविघ्नो निरामयः

tasya sendraiḥ suragaṇairdevairyajñaḥ svalaṅkṛtaḥ |
samyakparigṛhītaśca śāntavighno nirāmayaḥ

60.12

यो य इच्छेत विप्रो वै यत्रयत्रात्मनः प्रियम् ।
भगीरथस्तदा प्रीतस्तत्रतत्राददद्वशी

yo ya iccheta vipro vai yatrayatrātmanaḥ priyam |
bhagīrathastadā prītastatratatrādadadvaśī

60.13

नादेयं ब्राह्मणस्यासीद्यस्य यत्स्यात्प्रियं धनम् ।
सोऽपि विप्रप्रसादेन ब्रह्मलोकं गतो नृपः

nādeyaṃ brāhmaṇasyāsīdyasya yatsyātpriyaṃ dhanam |
so'pi vipraprasādena brahmalokaṃ gato nṛpaḥ

60.14

येन यातौ मखमुखौ दिशाशाविह पादपाः ।
तेनावस्थातुमिच्छन्ति तं गत्वा राजमीश्वरम्

yena yātau makhamukhau diśāśāviha pādapāḥ |
tenāvasthātumicchanti taṃ gatvā rājamīśvaram

60.15

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyatarastubhyaṃ mā putramanutapyathāḥ |
ayajvānamadakṣiṇyamabhi śvaityetyudāharat

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)