द्रोण पर्व

अध्याय 58: उशीनर के पुत्र शिबि

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये अष्टपञ्चाशत्तमोऽध्यायः ॥

15 श्लोक · 58 में से 203

इस अध्याय में क्या होता है

उशीनर के पुत्र शिबि

नारद उशीनर के पुत्र शिबि की कथा कहते हैं, जिन्होंने सारी पृथ्वी को चर्म की भाँति लपेट लिया था और उसे रथ के घोष से गुँजा दिया। मूर्धाभिषिक्त राजाओं में श्रेष्ठ, उन्होंने पृथ्वी जीतकर अश्वमेध किए और सहस्रों करोड़ स्वर्ण मुद्राएँ दीं। जितनी वर्षा की धाराएँ, आकाश के तारे, गङ्गा की रेत के कण और मेरु के पत्थर हैं, उतनी गौएँ उन्होंने दान कीं। प्रजापति को भूत, वर्तमान या भविष्य में कोई ऐसा न मिला जो उनका भार उठा सके। उनके यज्ञों में सोने के यूप, द्वार और प्राकार थे, पेय की नदियाँ और अन्न के पर्वत थे, जहाँ लोग पुकारते, पियो, नहाओ, खाओ। प्रसन्न होकर रुद्र ने उन्हें अक्षय धन, श्रद्धा और कीर्ति का वर दिया। फिर सृञ्जय के लिए वही टेक आती है।

नारद उवाच

58.1

शिबिमौशीनरं चापि मृतं सृञ्जय शुश्रुम ।
य इमां पृथिवीं सर्वां चर्मवत्पर्यवेष्टयत्

śibimauśīnaraṃ cāpi mṛtaṃ sṛñjaya śuśruma |
ya imāṃ pṛthivīṃ sarvāṃ carmavatparyaveṣṭayat

58.2

साद्रिद्वीपार्णववनां रथघोषेण नादयन् ।
स शिबिर्यष्टुमन्विच्छन्मुख्यः सर्वसपत्नजित्

sādridvīpārṇavavanāṃ rathaghoṣeṇa nādayan |
sa śibiryaṣṭumanvicchanmukhyaḥ sarvasapatnajit

58.3

तेन यज्ञैर्बहुविधैरिष्टं पर्याप्तदक्षिणैः ।
अविहिंस्य जनानन्यानवाप वसु पुष्कलम्

tena yajñairbahuvidhairiṣṭaṃ paryāptadakṣiṇaiḥ |
avihiṃsya janānanyānavāpa vasu puṣkalam

58.4

सर्वमूर्धाभिषिक्तानां सम्मतः सोऽभवद्युधि ।
अजयच्चाश्वमेधैर्यो विजित्य पृथिवीमिमाम्

sarvamūrdhābhiṣiktānāṃ sammataḥ so'bhavadyudhi |
ajayaccāśvamedhairyo vijitya pṛthivīmimām

58.5

निरर्गलैर्बहुफलैर्निष्ककोटिसहस्रदः ।
बिभर्ति दक्षिणा यस्य गङ्‌गायाः स्रोत आवृणोत्

nirargalairbahuphalairniṣkakoṭisahasradaḥ |
bibharti dakṣiṇā yasya gaṅ‌gāyāḥ srota āvṛṇot

58.6

हस्त्यश्वपशुभिर्धान्यैर्मृगैर्गोजाविभिस्तथा ।
विविधैः पृथिवीं पुण्यां शिबिर्ब्राह्मणसात्करोत्

hastyaśvapaśubhirdhānyairmṛgairgojāvibhistathā |
vividhaiḥ pṛthivīṃ puṇyāṃ śibirbrāhmaṇasātkarot

58.7

यावत्यो वर्षतो धारा यावत्यो दिवि तारकाः ।
यावत्यः सिकता गाङ्ग्यो यावन्मेरोर्महोपलाः

yāvatyo varṣato dhārā yāvatyo divi tārakāḥ |
yāvatyaḥ sikatā gāṅgyo yāvanmerormahopalāḥ

58.8

उदन्वति च यावन्ति रत्नानि प्राणिनोऽपि च ।
तावतीरददद्गा वै शिबिरौशीनरोऽध्वरे

udanvati ca yāvanti ratnāni prāṇino'pi ca |
tāvatīradadadgā vai śibirauśīnaro'dhvare

58.9

नोद्यन्तारं धुरस्तस्य कञ्चिदन्यं प्रजापतिः ।
भूतं भव्यं भवन्तं वा नाध्यगच्छन्नरोत्तमम्

nodyantāraṃ dhurastasya kañcidanyaṃ prajāpatiḥ |
bhūtaṃ bhavyaṃ bhavantaṃ vā nādhyagacchannarottamam

58.10

तस्यासन्विविधा यज्ञाः सर्वकामैः समन्विताः ।
हेमयूपासनगृहा हेमप्राकारतोरणाः

tasyāsanvividhā yajñāḥ sarvakāmaiḥ samanvitāḥ |
hemayūpāsanagṛhā hemaprākāratoraṇāḥ

58.11

शुचिस्वाद्वन्नपानं च ब्राह्मणाः प्रयुतायुताः ।
नानाभक्ष्यैः प्रियकथाः पयोदधिमहाहदाः

śucisvādvannapānaṃ ca brāhmaṇāḥ prayutāyutāḥ |
nānābhakṣyaiḥ priyakathāḥ payodadhimahāhadāḥ

58.12

तस्यासन्यज्ञवाटेषु नद्यः शुभ्रान्नपर्वताः ।
पिबत स्नात खादध्वमिति यत्रोच्यते जनैः

tasyāsanyajñavāṭeṣu nadyaḥ śubhrānnaparvatāḥ |
pibata snāta khādadhvamiti yatrocyate janaiḥ

58.13

यस्मै प्रादाद्वरं रुद्रस्तुष्टः पुण्येन कर्मणा ।
अक्षयं ददतो वित्तं श्रद्धा कीर्तिस्तथा क्रियाः

yasmai prādādvaraṃ rudrastuṣṭaḥ puṇyena karmaṇā |
akṣayaṃ dadato vittaṃ śraddhā kīrtistathā kriyāḥ

58.14

यथोक्तमेव भूतानां प्रियत्वं स्वर्गमुत्तमम् ।
एताँल्लब्ध्वा वरानिष्टाञ्शिबिः काले दिवं गतः

yathoktameva bhūtānāṃ priyatvaṃ svargamuttamam |
etām̐llabdhvā varāniṣṭāñśibiḥ kāle divaṃ gataḥ

58.15

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyatarastubhyaṃ mā putramanutapyathāḥ |
ayajvānamadakṣiṇyamabhi śvaityetyudāharat

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)