द्रोण पर्व

अध्याय 57: राजा अङ्ग के दान

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये सप्तपञ्चाशत्तमोऽध्यायः ॥

13 श्लोक · 57 में से 203

इस अध्याय में क्या होता है

राजा अङ्ग के दान

फिर नारद पौरव वंश के अङ्ग की कथा कहते हैं, जिन्होंने अपने अश्वमेध में दस लाख श्वेत घोड़े छोड़े। देश-देश से विद्वान ब्राह्मण आए, जिन्हें आवास, भोजन और नटों, नर्तकों तथा गन्धर्वों का मनोरंजन मिला। हर यज्ञ में अङ्ग ने समय पर दक्षिणा दी: सोने से ढके दस हजार हाथी, रथों पर बैठी स्वर्णाभूषित दस लाख कन्याएँ, घर, खेत और गौओं सहित घोड़े और हाथी, सोने की मालाओं वाले बैल, सोने के सींग, चाँदी के खुर और काँसे की दोहनी वाली गौएँ, और अन्न के पर्वत। पुराण जानने वाले आज भी उनकी गाथा गाते हैं कि इन्द्र उनके सोम से और ब्राह्मण उनकी दक्षिणा से तृप्त हुए। वही टेक आती है कि सृञ्जय, अपने पुत्र का शोक मत करो।

नारद उवाच

57.1

अङ्गं च पौरवं वीरं मृतं सृञ्जय शुश्रुम ।
सहस्रं यः सहस्राणां श्वेतानश्वानवासृजत्

aṅgaṃ ca pauravaṃ vīraṃ mṛtaṃ sṛñjaya śuśruma |
sahasraṃ yaḥ sahasrāṇāṃ śvetānaśvānavāsṛjat

57.2

तस्याश्वमेधे राजर्षेर्देशाद्देशात्समीयुषाम् ।
शिक्षाक्षरविधिज्ञानां नासीत्सङ्ख्या विपश्चिताम्

tasyāśvamedhe rājarṣerdeśāddeśātsamīyuṣām |
śikṣākṣaravidhijñānāṃ nāsītsaṅkhyā vipaścitām

57.3

वेदविद्याव्रतस्नाता वदान्याः प्रियदर्शनाः ।
सुभिक्षाच्छादनगृहाः सुशय्यासनभोजनाः

vedavidyāvratasnātā vadānyāḥ priyadarśanāḥ |
subhikṣācchādanagṛhāḥ suśayyāsanabhojanāḥ

57.4

नटनर्तकगन्धर्वैः पूर्णकैर्वर्धमानकैः ।
नित्योद्योगैश्च क्रीडद्भिस्तत्र स्म परिहर्षिताः

naṭanartakagandharvaiḥ pūrṇakairvardhamānakaiḥ |
nityodyogaiśca krīḍadbhistatra sma pariharṣitāḥ

57.5

यज्ञे यज्ञे यथाकालं दक्षिणाः सोऽत्यकालयत् ।
द्विपान्दशसहस्राख्यानदात्काञ्चनसंवृतान्

yajñe yajñe yathākālaṃ dakṣiṇāḥ so'tyakālayat |
dvipāndaśasahasrākhyānadātkāñcanasaṃvṛtān

57.6

यः सहस्रं सहस्राणि कन्या हेमविभूषिताः ॥
धूर्युजाश्वगजारूढाः सगृहक्षेत्रगोशताः ।

yaḥ sahasraṃ sahasrāṇi kanyā hemavibhūṣitāḥ ||
dhūryujāśvagajārūḍhāḥ sagṛhakṣetragośatāḥ |

57.7

शतं शतसहस्राणि स्वर्णमालानथर्षभान् ॥
गवां सहस्रानुचरान्दक्षिणामत्यकालयत् ।

śataṃ śatasahasrāṇi svarṇamālānatharṣabhān ||
gavāṃ sahasrānucarāndakṣiṇāmatyakālayat |

57.8

हेमशृङ्ग्यो रौप्यखुराः सवत्साः कांस्यदोहनाः ॥
दासीदासखरोष्ट्रांश्च प्रादादाजाविकं बहु ।

hemaśṛṅgyo raupyakhurāḥ savatsāḥ kāṃsyadohanāḥ ||
dāsīdāsakharoṣṭrāṃśca prādādājāvikaṃ bahu |

57.9

रत्नानां विविधानां च विविधांश्चान्नपर्वतान् ॥
तस्मिन्संवितते यज्ञे दक्षिणामत्यकालयत् ।

ratnānāṃ vividhānāṃ ca vividhāṃścānnaparvatān ||
tasminsaṃvitate yajñe dakṣiṇāmatyakālayat |

57.10

तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः ॥
अङ्गस्य यजमानस्य अपि विष्णुपदे वयम् ।

tatrāsya gāthā gāyanti ye purāṇavido janāḥ ||
aṅgasya yajamānasya api viṣṇupade vayam |

57.11

अमाद्यदिन्द्रुः सोमेन दक्षिणाभिर्द्विजातयः ।
देवमानुषगन्धर्वांश्चात्यरोचन्त दक्षिणाः

amādyadindruḥ somena dakṣiṇābhirdvijātayaḥ |
devamānuṣagandharvāṃścātyarocanta dakṣiṇāḥ

57.12

अङ्गस्य यजमानस्य स्वधर्माधिगताः शुभाः ।
गुणोत्तरास्तु क्रतवस्तस्यासन्सार्वकामिकाः

aṅgasya yajamānasya svadharmādhigatāḥ śubhāḥ |
guṇottarāstu kratavastasyāsansārvakāmikāḥ

57.13

स चेन्ममार सृञ्जय चतुर्भद्रतस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्

sa cenmamāra sṛñjaya caturbhadratastvayā |
putrātpuṇyatarastubhyaṃ mā putramanutapyathāḥ |
ayajvānamadakṣiṇyamabhi śvaityetyudāharat

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)