यन्मां पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् ।
शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत्
yanmāṃ pṛcchasi rājendra sindhurājasya vikramam |
śṛṇu tatsarvamākhyāsye yathā pāṇḍūnayodhayat
इति श्रीमन्महाभारते द्रोणपर्वणि अभमन्युवधपर्वणि त्रयोदशदिवसयुद्धे त्रिचत्वारिंशोऽध्यायः ॥
19 श्लोक · 43 में से 203
सञ्जय युद्ध में जयद्रथ का वर्णन करते हैं। श्वेत छत्र के नीचे वह तारों के बीच चन्द्रमा जैसा शोभित है। अपना महान धनुष तानकर वह उसी दरार को बाणों से भर देता है जो अभिमन्यु ने व्यूह में बनायी थी। वह सात्यकि, भीम, धृष्टद्युम्न, विराट, द्रुपद आदि को बींधता है। युधिष्ठिर हँसकर उसका धनुष काटते हैं, पर वह तुरन्त दूसरा ले लेता है। भीम उसका धनुष, ध्वज और छत्र काटते हैं। जयद्रथ बदले में भीम का ध्वज, धनुष और घोड़े गिरा देता है, और भीम सात्यकि के रथ पर कूद जाते हैं। फिर भी जयद्रथ अस्त्रबल से सबको रोके रहता है और सब प्राणी उसकी प्रशंसा करते हैं। अभिमन्यु का खोला मार्ग बन्द रहता है।
सञ्जय उवाच
यन्मां पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् ।
शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत्
yanmāṃ pṛcchasi rājendra sindhurājasya vikramam |
śṛṇu tatsarvamākhyāsye yathā pāṇḍūnayodhayat
तमूहुर्वाजिनो वश्याः सैन्धवाः साधुवाहिनः ।
विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपरंहसः
tamūhurvājino vaśyāḥ saindhavāḥ sādhuvāhinaḥ |
vikurvāṇā bṛhanto'śvāḥ śvasanoparaṃhasaḥ
गन्धर्वनगराकारं विधिवत्कल्पितं रथम् ।
तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान्
gandharvanagarākāraṃ vidhivatkalpitaṃ ratham |
tasyābhyaśobhayatketurvārāho rājato mahān
श्वेतश्चत्रपताकाभिश्चामरव्यजनेन च ।
स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे
śvetaścatrapatākābhiścāmaravyajanena ca |
sa babhau rājaliṅgaistaistārāpatirivāmbare
मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम् ।
वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम्
muktāvajramaṇisvarṇairbhūṣitaṃ tadayasmayam |
varūthaṃ vibabhau tasya jyotirbhiḥ khamivāvṛtam
स विष्फार्य महच्चापं किरन्निषुगणान्बहून ।
तत्कण्डं पूरयामास यदार्जुनिरदारयत्
sa viṣphārya mahaccāpaṃ kiranniṣugaṇānbahūna |
tatkaṇḍaṃ pūrayāmāsa yadārjuniradārayat
स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम् ।
धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः
sa sātyakiṃ tribhirbāṇairaṣṭabhiśca vṛkodaram |
dhṛṣṭadyumnaṃ tathā ṣaṣṭyā virāṭaṃ daśabhiḥ śaraiḥ
द्रुपदं पञ्चभिस्तीक्ष्णैः सप्तभिश्च शिखण्डिनम् ।
केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः
drupadaṃ pañcabhistīkṣṇaiḥ saptabhiśca śikhaṇḍinam |
kekayānpañcaviṃśatyā draupadeyāṃstribhistribhiḥ
युधिष्ठिरं तु सप्तत्या ततः शेषानपानुदत् ।
इषुजालेन महता तदद्भुतमिवाभवत्
yudhiṣṭhiraṃ tu saptatyā tataḥ śeṣānapānudat |
iṣujālena mahatā tadadbhutamivābhavat
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् ।
चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान्
athāsya śitapītena bhallenādiśya kārmukam |
ciccheda prahasanrājā dharmaputraḥ pratāpavān
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् ।
विव्याध दशभिः पार्थं तांश्चैवान्यांस्त्रिभिस्त्रिभिः
akṣṇornimeṣamātreṇa so'nyadādāya kārmukam |
vivyādha daśabhiḥ pārthaṃ tāṃścaivānyāṃstribhistribhiḥ
तत्तस्य लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिस्त्रिभिः ।
धनुर्ध्वजं च च्छत्रं च क्षितौ क्षिप्रमपातयत्
tattasya lāghavaṃ jñātvā bhīmo bhallaistribhistribhiḥ |
dhanurdhvajaṃ ca cchatraṃ ca kṣitau kṣipramapātayat
सोऽन्यदादाय बलवान्सज्जं कृत्वा च कार्मुकम् ।
भीमस्यापातयत्केतुं धनुरश्वांश्च मारिष
so'nyadādāya balavānsajjaṃ kṛtvā ca kārmukam |
bhīmasyāpātayatketuṃ dhanuraśvāṃśca māriṣa
स हताश्वादवप्लुत्य च्छिन्नधन्वा रथोत्तमात् ।
सोत्यकेराप्लुतो यानं गिर्यग्रमिव केसरी
sa hatāśvādavaplutya cchinnadhanvā rathottamāt |
sotyakerāpluto yānaṃ giryagramiva kesarī
ततस्त्वदीयाः संहृष्टाः साधुसाध्विति वादिनः ।
सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमद्भुतम्
tatastvadīyāḥ saṃhṛṣṭāḥ sādhusādhviti vādinaḥ |
sindhurājasya tatkarma prekṣyāśraddheyamadbhutam
सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा ।
तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन्
saṅkruddhānpāṇḍavāneko yaddadhārāstratejasā |
tattasya karma bhūtāni sarvāṇyevābhyapūjayan
सौभद्रेण हतैः पूर्वं सोत्तरायोधिभिर्द्विपैः ।
पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः
saubhadreṇa hataiḥ pūrvaṃ sottarāyodhibhirdvipaiḥ |
pāṇḍūnāṃ darśitaḥ panthāḥ saindhavena nivāritaḥ
यतमानास्तु ते वीरा मात्स्यपाञ्चालकेकयाः ।
पाण्डवाश्चान्वपद्यन्त प्रतिशेकुर्न सैन्धवम्
yatamānāstu te vīrā mātsyapāñcālakekayāḥ |
pāṇḍavāścānvapadyanta pratiśekurna saindhavam
यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः ।
तत्तमेव वरं प्राप्य सैन्धवः प्रत्यवारयत्
yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ |
tattameva varaṃ prāpya saindhavaḥ pratyavārayat
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)