द्रोण पर्व

अध्याय 44: अभिमन्यु वसातीय को मारकर अदृश्य हो जाते हैं

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे चतुश्चत्वारिंशोऽध्यायः ॥

21 श्लोक · 44 में से 203

इस अध्याय में क्या होता है

अभिमन्यु वसातीय को मारकर अदृश्य हो जाते हैं

जयद्रथ ने पाण्डवों को रोक रखा है, इसलिए अभिमन्यु रथ-समूहों से घिरे अकेले लड़ते हैं। वे वृषसेन के सारथि को मारकर उसका धनुष काटते हैं, और घबराये घोड़े वृषसेन को रण से दूर ले जाते हैं। कौरव हर्षित होते हैं, तभी वसातीय दौड़कर साठ सुनहरे बाणों से अभिमन्यु को ढकता है और कहता है कि तुम जीवित नहीं बचोगे। अभिमन्यु का दूर जाने वाला बाण उसके लोहे के कवच को भेदकर हृदय में धँसता है और वह मरकर गिरता है। क्रोधित क्षत्रिय अर्जुन के पुत्र को मारने के लिए घेरते हैं, पर वे उनके धनुष, शरीर और कुण्डल वाले सिर काट देते हैं। धरती मुकुटों और टूटे रथों से भर जाती है। हर दिशा में घूमते अभिमन्यु दोपहर के सूर्य की तरह दिखायी ही नहीं देते।

सञ्जय उवाच

44.1

सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्‍डुषु ।
सुघोरमभवद्युद्धं त्वदीयानां परैः सह

saindhavena niruddheṣu jayagṛddhiṣu pāṇ‍ḍuṣu |
sughoramabhavadyuddhaṃ tvadīyānāṃ paraiḥ saha

44.2

प्रविश्याथार्जुनिः सेनां सत्यसन्धो दुरासदः ।
व्यक्षोभयत तेजस्वी मकरः सागरं यथा

praviśyāthārjuniḥ senāṃ satyasandho durāsadaḥ |
vyakṣobhayata tejasvī makaraḥ sāgaraṃ yathā

44.3

तं तथा शरवर्षेण छादयन्तमरिंदमम् ।
यथा प्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः

taṃ tathā śaravarṣeṇa chādayantamariṃdamam |
yathā pradhānāḥ saubhadramabhyayuḥ kurusattamāḥ

44.4

तेषां तस्य च सम्मर्दो दारुणः समपद्यत ।
सृजतां शरवर्षाणि प्रसक्तममितौजसाम्

teṣāṃ tasya ca sammardo dāruṇaḥ samapadyata |
sṛjatāṃ śaravarṣāṇi prasaktamamitaujasām

44.5

रथव्रजेन संरुद्धस्तैरमित्रैस्तथाऽऽर्जुनिः ।
वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम्

rathavrajena saṃruddhastairamitraistathā''rjuniḥ |
vṛṣasenasya yantāraṃ hatvā ciccheda kārmukam

44.6

तं च विव्याध बलवांस्तस्य चाश्वानजिह्मगैः ।
वातायमानैस्तैरश्वैर्विसंज्ञोऽपहृतो रणात्

taṃ ca vivyādha balavāṃstasya cāśvānajihmagaiḥ |
vātāyamānaistairaśvairvisaṃjño'pahṛto raṇāt

44.7

तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम् ।
रथव्रजास्ततो हृष्टाः साधुसाध्विति चुक्रुशुः

tenāntareṇābhimanyoryantāpāsārayadratham |
rathavrajāstato hṛṣṭāḥ sādhusādhviti cukruśuḥ

44.8

तं सिंहमिव सङ्क्रुद्धं प्रमथ्नन्तं शरैररीन् ।
आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम्

taṃ siṃhamiva saṅkruddhaṃ pramathnantaṃ śarairarīn |
ārādāyāntamabhyetya vasātīyo'bhyayāddrutam

44.9

सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्कैरवाकिरत् ।
अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे

so'bhimanyuṃ śaraiḥ ṣaṣṭyā rukmapuṅkairavākirat |
abravīcca na me jīvañjīvato yudhi mokṣyase

44.10

तमयस्मयवर्माणमिषुणा दूरपातिना ।
विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ

tamayasmayavarmāṇamiṣuṇā dūrapātinā |
vivyādha hṛdi saubhadraḥ sa papāta vyasuḥ kṣitau

44.11

वसातीयं हतं दृष्ट्वा क्रुद्धाः क्षत्रियपुङ्गवाः ।
परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः

vasātīyaṃ hataṃ dṛṣṭvā kruddhāḥ kṣatriyapuṅgavāḥ |
parivavrustadā rājaṃstava pautraṃ jighāṃsavaḥ

44.12

विष्फारयन्तश्चापानि नानारूपाण्यनेकशः ।
तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह

viṣphārayantaścāpāni nānārūpāṇyanekaśaḥ |
tadyuddhamabhavadraudraṃ saubhadrasyāribhiḥ saha

44.13

तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च ।
सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः

teṣāṃ śarānseṣvasanāñśarīrāṇi śirāṃsi ca |
sakuṇḍalāni sragvīṇi kruddhaściccheda phālguniḥ

44.14

सखङ्गाः साङ्गुलित्राणाः सपट्टसपरश्वथाः ।
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः

sakhaṅgāḥ sāṅgulitrāṇāḥ sapaṭṭasaparaśvathāḥ |
adṛśyanta bhujāśchinnā hemābharaṇabhūṣitāḥ

44.15

स्रग्भिराभरणैर्वस्त्रैः पतितैर्विविधैर्ध्वजैः ।
वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः

sragbhirābharaṇairvastraiḥ patitairvividhairdhvajaiḥ |
varmabhiścarmabhirhārairmukuṭaiśchatracāmaraiḥ

44.16

उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ।
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः

upaskarairadhiṣṭhānairīṣādaṇḍakabandhuraiḥ |
akṣairvimathitaiścakrairbhagnaiśca bahudhā yugaiḥ

44.17

अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः ।
रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही

anukarṣaiḥ patākābhistathā sārathivājibhiḥ |
rathaiśca bhagnairnāgaiśca hataiḥ kīrṇābhavanmahī

44.18

निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः ।
जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत

nihataiḥ kṣatriyaiḥ śūrairnānājanapadeśvaraiḥ |
jayagṛddhairvṛtā bhūmirdāruṇā samapadyata

44.19

दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा ।
रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत

diśo vicaratastasya sarvāśca pradiśastathā |
raṇe'bhimanyoḥ kruddhasya rūpamantaradhīyata

44.20

काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च ।
धनुषश्च शराणां च तदपश्याम केवलम्

kāñcanaṃ yadyadasyāsīdvarma cābharaṇāni ca |
dhanuṣaśca śarāṇāṃ ca tadapaśyāma kevalam

44.21

तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम् ।
आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम्

taṃ tadā nāśakatkaściccakṣurbhyāmabhivīkṣitum |
ādadānaṃ śarairyodhānmadhye sūryamiva sthitam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)