एवं बहुगुणं सैन्यमेवं बहुविधं परम् ।
व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय
evaṃ bahuguṇaṃ sainyamevaṃ bahuvidhaṃ param |
vyūḍhamevaṃ yathāśāstramamoghaṃ caiva sañjaya
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे षट्सप्ततितमोऽध्यायः ॥
26 श्लोक · 76 में से 122
धृतराष्ट्र बीच में ही विलाप करने लगते हैं। वे कहते हैं, मेरी सेना में हर गुण है। वह शास्त्र के अनुसार सजी है, न अधिक बूढ़ी न बालक, न दुबली न मोटी। वह तलवार, गदा, मल्लयुद्ध, भाले, परिघ और धनुष में निपुण है, हाथी, घोड़े और रथ पर परखी गई है, और योग्यता देखकर वेतन पर रखी गई है, कृपा या सम्बन्ध से नहीं। द्रोण, भीष्म, कृप, जयद्रथ आदि उसकी रक्षा करते हैं। ऐसी सेना पुराने ऋषियों ने भी नहीं देखी। फिर भी वह मारी जा रही है, तो यह भाग्य ही है। निश्चय ही देवता पाण्डवों के लिए लड़ रहे हैं। विदुर ने हित की बात कही थी, पर मेरे मूढ़ पुत्र दुर्योधन ने नहीं मानी। विधाता ने जो लिखा, वह अन्यथा नहीं होता।
धृतराष्ट्र उवाच
एवं बहुगुणं सैन्यमेवं बहुविधं परम् ।
व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय
evaṃ bahuguṇaṃ sainyamevaṃ bahuvidhaṃ param |
vyūḍhamevaṃ yathāśāstramamoghaṃ caiva sañjaya
जुष्टमस्माकमत्यन्तमभिकामं च नः सदा ।
प्रहृष्टं व्यसनोपेतं पुरस्ताद्दृष्टविक्रमम्
juṣṭamasmākamatyantamabhikāmaṃ ca naḥ sadā |
prahṛṣṭaṃ vyasanopetaṃ purastāddṛṣṭavikramam
नातिवृद्धमबालं च न कृशं न च पीवरम् ।
लघुवृत्तायतप्रायं सागराकारमव्ययम्
nātivṛddhamabālaṃ ca na kṛśaṃ na ca pīvaram |
laghuvṛttāyataprāyaṃ sāgarākāramavyayam
आत्तसन्नाहशस्त्रं च बहुशस्त्रपरिग्रहम् ।
असियुद्धे नियुद्धे च गदायुद्धे च कोविदम्
āttasannāhaśastraṃ ca bahuśastraparigraham |
asiyuddhe niyuddhe ca gadāyuddhe ca kovidam
प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च ।
भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः
prāsarṣṭitomareṣvājau parigheṣvāyaseṣu ca |
bhiṇḍipāleṣu śaktīṣu musaleṣu ca sarvaśaḥ
कम्पनेषु च चापेषु कणपेषु च सर्वशः ।
क्षेणणीयेषु चित्रेषु मुष्टयुद्धेषु च क्षमम्
kampaneṣu ca cāpeṣu kaṇapeṣu ca sarvaśaḥ |
kṣeṇaṇīyeṣu citreṣu muṣṭayuddheṣu ca kṣamam
अपरोक्षं च विद्यासु व्यायामे च कृतश्रमम् ।
शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम्
aparokṣaṃ ca vidyāsu vyāyāme ca kṛtaśramam |
śastragrahaṇavidyāsu sarvāsu pariniṣṭhitam
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते ।
सम्यक्प्रहरणे याने व्यपयाने च कोविदम्
ārohe paryavaskande saraṇe sāntaraplute |
samyakpraharaṇe yāne vyapayāne ca kovidam
नागाश्वरथयानेषु बहुशः सुपरीक्षितम् ।
परीक्ष्य च यथान्यायं वेतनेनोपपादितम्
nāgāśvarathayāneṣu bahuśaḥ suparīkṣitam |
parīkṣya ca yathānyāyaṃ vetanenopapāditam
न गोष्ठ्या नोपकारेण न च बन्धुनिमित्ततः ।
न सौहृदबलैर्वापि नाकुलीनपरिग्रहैः
na goṣṭhyā nopakāreṇa na ca bandhunimittataḥ |
na sauhṛdabalairvāpi nākulīnaparigrahaiḥ
समृद्धजनमार्यं च तुष्टसंबन्धिबान्धवम् ।
कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च
samṛddhajanamāryaṃ ca tuṣṭasaṃbandhibāndhavam |
kṛtopakārabhūyiṣṭhaṃ yaśasvi ca manasvi ca
स्वजनैस्तु नरैर्मुख्यैर्बहुशो दृष्टकर्मभिः ।
लोकपालोपमैस्तात पालितं लोकविश्रुतम्
svajanaistu narairmukhyairbahuśo dṛṣṭakarmabhiḥ |
lokapālopamaistāta pālitaṃ lokaviśrutam
बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः ।
अस्मानभिगतैः कामात्सबलैः सपदानुगैः
bahubhiḥ kṣatriyairguptaṃ pṛthivyāṃ lokasaṃmataiḥ |
asmānabhigataiḥ kāmātsabalaiḥ sapadānugaiḥ
महोदधिमिवापूर्णमापगाभिः समन्ततः ।
अपक्षपक्षिसंकाशै रथैर्नागैश्च संवृतम्
mahodadhimivāpūrṇamāpagābhiḥ samantataḥ |
apakṣapakṣisaṃkāśai rathairnāgaiśca saṃvṛtam
नानायोधजलं भीमं वाहनोर्मितरङ्गिणम् ।
क्षेपण्यसिगदाशक्तिशरप्राससामाकुलम्
nānāyodhajalaṃ bhīmaṃ vāhanormitaraṅgiṇam |
kṣepaṇyasigadāśaktiśaraprāsasāmākulam
ध्वजभूषणसंबाधं रत्नपट्टसुसंचितम् ।
परिधावद्भिरश्वैश्च वायुवेगविकम्पितम्
dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭasusaṃcitam |
paridhāvadbhiraśvaiśca vāyuvegavikampitam
अपारमिव गर्जन्तं सागरप्रतिमं महत् ।
द्रोणभीष्मासिसंगप्तं गुप्तं च कृतवर्मणा
apāramiva garjantaṃ sāgarapratimaṃ mahat |
droṇabhīṣmāsisaṃgaptaṃ guptaṃ ca kṛtavarmaṇā
कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा ।
भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः
kṛpaduḥśāsanābhyāṃ ca jayadrathamukhaistathā |
bhagadattavikarṇābhyāṃ drauṇisaubalabāhlikaiḥ
गुप्तं प्रवीरैर्लौकैश्च सारवद्भिर्महात्मभिः ।
यदहन्यत सैन्यं मे दिष्टमत्र परायणम्
guptaṃ pravīrairlaukaiśca sāravadbhirmahātmabhiḥ |
yadahanyata sainyaṃ me diṣṭamatra parāyaṇam
नैतादृशं समुद्योगं दृष्टवन्तो हि मानुषाः ।
ऋषयो वा महाभागाः पुराणा भुवि सञ्जय
naitādṛśaṃ samudyogaṃ dṛṣṭavanto hi mānuṣāḥ |
ṛṣayo vā mahābhāgāḥ purāṇā bhuvi sañjaya
ईदृशोऽपि बलौघस्तु संयुक्तः शस्त्रसंपदा ।
वध्यते यत्र संग्रामे किमन्यद्भागधेयतः
īdṛśo'pi balaughastu saṃyuktaḥ śastrasaṃpadā |
vadhyate yatra saṃgrāme kimanyadbhāgadheyataḥ
विपरीतमिदं सर्वं प्रतिभाति हि सञ्जय ।
यत्रेदृशं बलं घोरं नावधीद्युधि पाण्डवान्
viparītamidaṃ sarvaṃ pratibhāti hi sañjaya |
yatredṛśaṃ balaṃ ghoraṃ nāvadhīdyudhi pāṇḍavān
पाण्डवार्थाय नियतं देवास्तत्र समागताः ।
युध्यन्ते मामकं सैन्यं यथाऽवध्यत सञ्जय
pāṇḍavārthāya niyataṃ devāstatra samāgatāḥ |
yudhyante māmakaṃ sainyaṃ yathā'vadhyata sañjaya
उक्तोऽपि विदुरेणाहं हितं पथ्यं च नित्यशः ।
न च जग्राह तन्मन्दः पुत्रो दुर्योधनो मम
ukto'pi vidureṇāhaṃ hitaṃ pathyaṃ ca nityaśaḥ |
na ca jagrāha tanmandaḥ putro duryodhano mama
तथ्यां मन्ये मतिं तस्य सर्वज्ञस्य महात्मनः ।
आसीत्तथाऽऽगतं तात येन दृष्टमिदं पुरा
tathyāṃ manye matiṃ tasya sarvajñasya mahātmanaḥ |
āsīttathā''gataṃ tāta yena dṛṣṭamidaṃ purā
अथवा भाव्यमेवं हि संजयैतेन सर्वथा ।
पुरा धात्रा यथा दिष्टं तत्तथा न तदन्यथा
athavā bhāvyamevaṃ hi saṃjayaitena sarvathā |
purā dhātrā yathā diṣṭaṃ tattathā na tadanyathā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)