भीष्म पर्व

अध्याय 15: दुर्योधन शिखण्डी से भीष्म की रक्षा करवाता है

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि पञ्चदशोऽध्यायः ॥

20 श्लोक · 15 में से 122

इस अध्याय में क्या होता है

दुर्योधन शिखण्डी से भीष्म की रक्षा करवाता है

सञ्जय उत्तर देते हैं कि धृतराष्ट्र यह दोष केवल दुर्योधन पर न डालें: जो अपने ही दुष्कर्म से दुःख पाता है, उसे दूसरे पर शंका नहीं करनी चाहिए। पाण्डवों ने उनकी ओर देखकर वन में लम्बे समय तक अपमान और कष्ट सहा। व्यास को प्रणाम करके, जिनकी कृपा से उन्हें अतीन्द्रिय दृष्टि, दूर तक सुनने की शक्ति, दूसरों के मन का ज्ञान और शस्त्रों से रक्षा मिली है, सञ्जय युद्ध का वृत्तान्त आरम्भ करते हैं। व्यूह सज जाने पर दुर्योधन दुःशासन से कहता है कि भीष्म की रक्षा के लिए रथ जोड़ो, इससे बड़ा कोई कार्य नहीं। भीष्म कह चुके हैं कि वे शिखण्डी को नहीं मारेंगे, क्योंकि वह पहले स्त्री था। इसलिए सब शिखण्डी के वध को तत्पर रहें, कहीं सिंह सियार से न मारा जाए।

सञ्जय उवाच

15.1

त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि ।
न तु दुर्योधने दोषमिममासङ्क्तुमर्हसि

tvadyukto'yamanupraśno mahārāja yathārhasi |
na tu duryodhane doṣamimamāsaṅktumarhasi

15.2

य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः ।
एनसा तेन नान्यं स उपाशङ्कितुमर्हति

ya ātmano duścaritādaśubhaṃ prāpnuyānnaraḥ |
enasā tena nānyaṃ sa upāśaṅkitumarhati

15.3

महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् ।
स वध्यः सर्वलोकस्य निन्दितानि समाचरन्

mahārāja manuṣyeṣu nindyaṃ yaḥ sarvamācaret |
sa vadhyaḥ sarvalokasya ninditāni samācaran

15.4

निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया ।
अनुभूतः सहामात्यैः क्षान्तश्च सुचिरं वने

nikāro nikṛtiprajñaiḥ pāṇḍavaistvatpratīkṣayā |
anubhūtaḥ sahāmātyaiḥ kṣāntaśca suciraṃ vane

15.5

हयानां च गजानां च राज्ञां चामिततेजसाम् ।
प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च

hayānāṃ ca gajānāṃ ca rājñāṃ cāmitatejasām |
pratyakṣaṃ yanmayā dṛṣṭaṃ dṛṣṭaṃ yogabalena ca

15.6

शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः ।
दिष्टमेतत्पुरा नूनमिदमेव नराधिप

śṛṇu tatpṛthivīpāla mā ca śoke manaḥ kṛthāḥ |
diṣṭametatpurā nūnamidameva narādhipa

15.7

नमस्कृत्वा प्रवक्ष्यामि पाराशर्याय धीमते ।
यस्य प्रसादाद्दिव्यं तत्प्राप्तं ज्ञानमनुत्तमम्

namaskṛtvā pravakṣyāmi pārāśaryāya dhīmate |
yasya prasādāddivyaṃ tatprāptaṃ jñānamanuttamam

15.8

दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च ।
परचित्तस्य विज्ञानमतीतानागतस्य च

dṛṣṭiścātīndriyā rājandūrācchravaṇameva ca |
paracittasya vijñānamatītānāgatasya ca

15.9

व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः शुभा ।
अस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः

vyutthitotpattivijñānamākāśe ca gatiḥ śubhā |
astrairasaṅgo yuddheṣu varadānānmahātmanaḥ

15.10

श्रृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् ।
भरतानामभूद्युद्धं यथा तद्रोमहर्षणम्

śrṛṇu me vistareṇedaṃ vicitraṃ paramādbhutam |
bharatānāmabhūdyuddhaṃ yathā tadromaharṣaṇam

15.11

तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः ।
दुर्योधनो महाराज दुःशासनमथाब्रवीत्

teṣvanīkeṣu yatteṣu vyūḍheṣu ca vidhānataḥ |
duryodhano mahārāja duḥśāsanamathābravīt

15.12

दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः ।
अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय

duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ |
anīkāni ca sarvāṇi śīghraṃ tvamanucodaya

15.13

अयं स मामभिप्राप्तो वर्षपूगाभिचिन्तितः ।
पाण्डवानां ससैन्यानां कुरूणां च समागमः

ayaṃ sa māmabhiprāpto varṣapūgābhicintitaḥ |
pāṇḍavānāṃ sasainyānāṃ kurūṇāṃ ca samāgamaḥ

15.14

नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् ।
हन्युद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान्

nātaḥ kāryatamaṃ manye raṇe bhīṣmasya rakṣaṇāt |
hanyudgupto hyasau pārthānsomakāṃśca sasṛñjayān

15.15

अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनाम् ।
श्रूयते स्त्री ह्यसौ पूर्वं तस्मादूर्त्यो रणे मम

abravīcca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinām |
śrūyate strī hyasau pūrvaṃ tasmādūrtyo raṇe mama

15.16

तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः ।
शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः

tasmādbhīṣmo rakṣitavyo viśeṣeṇeti me matiḥ |
śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ

15.17

तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः ।
सर्वथाऽस्त्रेषु कुशलास्ते रक्षन्तु पितामहम्

tathā prācyāḥ pratīcyāśca dākṣiṇātyottarāpathāḥ |
sarvathā'streṣu kuśalāste rakṣantu pitāmaham

15.18

अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् ।
मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना

arakṣyamāṇaṃ hi vṛko hanyātsiṃhaṃ mahābalam |
mā siṃhaṃ jambukeneva ghātayāmaḥ śikhaṇḍinā

15.19

वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् ।
गोप्तारौ फाल्गुनं प्राप्तौ फाल्गुनोपि शिखण्डिनः ।

vāmaṃ cakraṃ yudhāmanyuruttamaujāśca dakṣiṇam |
goptārau phālgunaṃ prāptau phālgunopi śikhaṇḍinaḥ |

15.20

संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः ।
यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु

saṃrakṣyamāṇaḥ pārthena bhīṣmeṇa ca vivarjitaḥ |
yathā na hanyādgāṅgeyaṃ duḥśāsana tathā kuru

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)