भीष्म पर्व

अध्याय 16: युद्ध का प्रभात और अग्रभाग में भीष्म

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि षोडशोऽध्यायः ॥

27 श्लोक · 16 में से 122

इस अध्याय में क्या होता है

युद्ध का प्रभात और अग्रभाग में भीष्म

रात बीतते ही राजाओं का महान कोलाहल उठता है: जोतो, जोतो! शंख, दुन्दुभि, सिंहनाद, घोड़ों की हिनहिनाहट और पहियों की घरघराहट से आकाश भर जाता है, और सूर्योदय पर दोनों सेनाएँ तैयार खड़ी होती हैं। स्वर्णभूषित हाथी और रथ बिजली वाले मेघों से चमकते हैं, रथसेनाएँ नगरों जैसी दिखती हैं। सञ्जय दुर्योधन के दस अक्षौहिणीपतियों के नाम लेते हैं: शकुनि, शल्य, जयद्रथ, विन्द और अनुविन्द, केकय, काम्बोज सुदक्षिण, कलिंग श्रुतायुध, जयत्सेन, कोसल बृहद्बल और कृतवर्मा। ग्यारह अक्षौहिणियों के आगे भीष्म खड़े हैं, श्वेत पगड़ी, श्वेत घोड़े, श्वेत कवच, चाँदी के रथ पर ताड़ की ध्वजा, उदित चन्द्रमा जैसे। धृष्टद्युम्न के नेतृत्व में पाण्डव और सृञ्जय काँप उठते हैं। ग्यारह और सात अक्षौहिणियाँ प्रलय में मिलते दो सागरों जैसी लगती हैं।

सञ्जय उवाच

16.1

ततो रजन्यां व्युष्टायां शब्दः समभवन्महान् ।
क्रोशतां भूमिपलानां युज्यतां युज्यतामिति

tato rajanyāṃ vyuṣṭāyāṃ śabdaḥ samabhavanmahān |
krośatāṃ bhūmipalānāṃ yujyatāṃ yujyatāmiti

16.2

शङ्खदुन्दुभिघोषैश्च सिंहनादैश्च भारत ।
हयहेषितनादैश्च रथनेमिस्वनैस्तथा

śaṅkhadundubhighoṣaiśca siṃhanādaiśca bhārata |
hayaheṣitanādaiśca rathanemisvanaistathā

16.3

गाजानां बृहतां चैव योधानां चापि गर्जताम् ।
क्ष्वेलितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत्

gājānāṃ bṛhatāṃ caiva yodhānāṃ cāpi garjatām |
kṣvelitāsphoṭitotkruṣṭaistumulaṃ sarvato'bhavat

16.4

उदतिष्ठन्महाराज सर्वं युक्तमशेषतः ।
सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः

udatiṣṭhanmahārāja sarvaṃ yuktamaśeṣataḥ |
sūryodaye mahatsainyaṃ kurupāṇḍavasenayoḥ

16.5

राजेन्द्र तव पुत्राणां पाण्डवानां तथैव च ।
दुष्प्रधृष्याणि चास्त्राणि सशस्रकवचानि च

rājendra tava putrāṇāṃ pāṇḍavānāṃ tathaiva ca |
duṣpradhṛṣyāṇi cāstrāṇi saśasrakavacāni ca

16.6

ततः प्रकाशे सैन्यानि समदृश्यन्त भारत ।
त्वदीयानां परेषां च शस्त्रवन्ति महान्ति च

tataḥ prakāśe sainyāni samadṛśyanta bhārata |
tvadīyānāṃ pareṣāṃ ca śastravanti mahānti ca

16.7

तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः ।
विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः

tatra nāgā rathāścaiva jāmbūnadapariṣkṛtāḥ |
vibhrājamānā dṛśyante meghā iva savidyutaḥ

16.8

रथानीकान्यदृश्यन्त नगराणीव भूरिशः ।
अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत्

rathānīkānyadṛśyanta nagarāṇīva bhūriśaḥ |
atīva śuśubhe tatra pitā te pūrṇacandravat

16.9

धनुर्भिर्ऋष्टिभिः खङ्गैर्गदाभिः शक्तितोमरैः ।
योधाः प्रहरणैः शुभ्रैस्तेष्वनीकेष्ववस्थिताः

dhanurbhirṛṣṭibhiḥ khaṅgairgadābhiḥ śaktitomaraiḥ |
yodhāḥ praharaṇaiḥ śubhraisteṣvanīkeṣvavasthitāḥ

16.10

गजाः पदाता रथिनस्तुरगाश्च विशांपते ।
व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः

gajāḥ padātā rathinasturagāśca viśāṃpate |
vyatiṣṭhanvāgurākārāḥ śataśo'tha sahasraśaḥ

16.11

ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः ।
स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः

dhvajā bahuvidhākārā vyadṛśyanta samucchritāḥ |
sveṣāṃ caiva pareṣāṃ ca dyutimantaḥ sahasraśaḥ

16.12

काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः ।
अर्चिष्मन्तो व्यरोचन्त गजारोहाः सहस्रशः

kāñcanā maṇicitrāṅgā jvalanta iva pāvakāḥ |
arciṣmanto vyarocanta gajārohāḥ sahasraśaḥ

16.13

महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ।
सन्नद्धास्ते प्रवीराश्च ददृशुर्युद्धकाङ्क्षिणः

mahendraketavaḥ śubhrā mahendrasadaneṣviva |
sannaddhāste pravīrāśca dadṛśuryuddhakāṅkṣiṇaḥ

16.14

उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः ।
ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः

udyatairāyudhaiścitrāstalabaddhāḥ kalāpinaḥ |
ṛṣabhākṣā manuṣyendrāścamūmukhagatā babhuḥ

16.15

शकुनिः सौबलः शल्य आवन्त्योऽथ जयद्रथः ।
विन्दानुविन्दौ कैकेयाः काम्भोजश्च सुदक्षिणः

śakuniḥ saubalaḥ śalya āvantyo'tha jayadrathaḥ |
vindānuvindau kaikeyāḥ kāmbhojaśca sudakṣiṇaḥ

16.16

श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः ।
बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः

śrutāyudhaśca kāliṅgo jayatsenaśca pārthivaḥ |
bṛhadbalaśca kauśalyaḥ kṛtavarmā ca sātvataḥ

16.17

दशैते पुरुषव्याघ्राः शूराः परिघबाहवः ।
अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः

daśaite puruṣavyāghrāḥ śūrāḥ parighabāhavaḥ |
akṣauhiṇīnāṃ patayo yajvāno bhūridakṣiṇāḥ

16.18

एते चान्ये च बहवो दुर्योधनवशानुगाः ।
राजानो राजपुत्राश्च नीतिमन्तो महारथाः

ete cānye ca bahavo duryodhanavaśānugāḥ |
rājāno rājaputrāśca nītimanto mahārathāḥ

16.19

सन्नद्धाः समदृश्यन स्वेष्वनीकेष्ववस्थिताः ।
बद्धकृष्णाजिनाः सर्वे बलिनो युद्धशालिनः

sannaddhāḥ samadṛśyana sveṣvanīkeṣvavasthitāḥ |
baddhakṛṣṇājināḥ sarve balino yuddhaśālinaḥ

16.20

हृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः ।
समर्था दश वाहिन्यः परिगृह्य व्यवस्थिताः

hṛṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ |
samarthā daśa vāhinyaḥ parigṛhya vyavasthitāḥ

16.21

एकादशी धार्तराष्ट्री कौरवाणां महाचमूः ।
अग्रतः सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः

ekādaśī dhārtarāṣṭrī kauravāṇāṃ mahācamūḥ |
agrataḥ sarvasainyānāṃ yatra śāntanavo'graṇīḥ

16.22

श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् ।
अपश्याम महाराज भीष्मं चन्द्रमिवोदितम्

śvetoṣṇīṣaṃ śvetahayaṃ śvetavarmāṇamacyutam |
apaśyāma mahārāja bhīṣmaṃ candramivoditam

16.23

हेमतालध्वजं भीष्मं राजते स्यन्दते स्थितम् ।
श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः

hematāladhvajaṃ bhīṣmaṃ rājate syandate sthitam |
śvetābhra iva tīkṣṇāṃśuṃ dadṛśuḥ kurupāṇḍavāḥ

16.24

दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः ।
सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः ।
जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा

dṛṣṭvā camūmukhe bhīṣmaṃ samakampanta pāṇḍavāḥ |
sṛñjayāśca maheṣvāsā dhṛṣṭadyumnapurogamāḥ |
jṛmbhamāṇaṃ mahāsiṃhaṃ dṛṣṭvā kṣudramṛgā yathā

16.25

धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः ।
एकादशैताः श्रीजुष्टा वाहिन्यस्तव पार्थिव

dhṛṣṭadyumnamukhāḥ sarve samudvivijire muhuḥ |
ekādaśaitāḥ śrījuṣṭā vāhinyastava pārthiva

16.26

पाण्डवानां तथा सप्त महापुरुषपालिताः ।
उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ

pāṇḍavānāṃ tathā sapta mahāpuruṣapālitāḥ |
unmattamakarāvartau mahāgrāhasamākulau

16.27

युगान्ते समवेतौ द्वौ दृश्येते सागराविव ।
नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः ।
अनीकानां समेतानां कौरवाणां तथाविधः

yugānte samavetau dvau dṛśyete sāgarāviva |
naiva nastādṛśo rājandṛṣṭapūrvo na ca śrutaḥ |
anīkānāṃ sametānāṃ kauravāṇāṃ tathāvidhaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)