संन्यासं तप इत्याहुर्वृद्धा निश्चितवादिनः ।
ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः
saṃnyāsaṃ tapa ityāhurvṛddhā niścitavādinaḥ |
brāhmaṇā brahmayonisthā jñānaṃ brahma paraṃ viduḥ
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तचत्वारिंशोऽध्यायः ॥
17 श्लोक · 47 में से 118
ब्रह्मा कहते हैं कि वृद्ध ज्ञानी संन्यास को तप कहते हैं, और ब्राह्मण ज्ञान को परम ब्रह्म जानते हैं। वह ब्रह्म निर्गुण और नित्य है; धीर पुरुष ज्ञान और तप द्वारा उसे देखते हैं। तप दीपक है, ज्ञान परम है और संन्यास उत्तम तप। जो सब प्राणियों में आत्मा को देखता है, वह सर्वज्ञ है; जो न कुछ चाहता है न किसी का तिरस्कार करता है, वह इसी लोक में ब्रह्मभाव को प्राप्त होता है। वह शुभ-अशुभ कर्म और सत्य-अनृत दोनों छोड़कर मुक्त होता है। फिर ब्रह्मा सनातन ब्रह्मवृक्ष का वर्णन करते हैं, जो अव्यक्त बीज से उगा है, बुद्धि जिसका तना है, अहंकार और महाभूत जिसकी शाखाएँ हैं और शुभ-अशुभ फल देता है। ज्ञानी तत्त्वज्ञान की तलवार से उसे काटकर जन्म-मृत्यु से छूट जाते हैं।
ब्रह्मोवाच
संन्यासं तप इत्याहुर्वृद्धा निश्चितवादिनः ।
ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः
saṃnyāsaṃ tapa ityāhurvṛddhā niścitavādinaḥ |
brāhmaṇā brahmayonisthā jñānaṃ brahma paraṃ viduḥ
अतिदूरात्मकं ब्रह्म वेदविद्याव्यपाश्रयम् ।
निर्द्वन्द्वं निर्गुणं नित्यमचिन्त्यगुणमुत्तमम्
atidūrātmakaṃ brahma vedavidyāvyapāśrayam |
nirdvandvaṃ nirguṇaṃ nityamacintyaguṇamuttamam
ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्परम् ।
निर्णिक्तमनसः पूता व्युत्क्रान्तरजसोऽमलाः
jñānena tapasā caiva dhīrāḥ paśyanti tatparam |
nirṇiktamanasaḥ pūtā vyutkrāntarajaso'malāḥ
तपसा क्षेममध्वानं गच्छन्ति परमेश्वरम् ।
संन्यासनिरता नित्यं ये च ब्रह्मविदो जनाः
tapasā kṣemamadhvānaṃ gacchanti parameśvaram |
saṃnyāsaniratā nityaṃ ye ca brahmavido janāḥ
तपः प्रदीप इत्याहुराचारो धर्मसाधकः ।
ज्ञानं वै परमं विद्यात्संन्यासं तप उत्तमम्
tapaḥ pradīpa ityāhurācāro dharmasādhakaḥ |
jñānaṃ vai paramaṃ vidyātsaṃnyāsaṃ tapa uttamam
यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात् ।
सर्वभूतस्थमात्मानं स सर्वविदिहोच्यते
yastu veda nirābādhaṃ jñānaṃ tattvaviniścayāt |
sarvabhūtasthamātmānaṃ sa sarvavidihocyate
यो विद्वान्सहवासं च विवासं चैव पश्यति ।
तथैवेकत्वनानात्वे स दुःखात्प्रतिमुच्यते
yo vidvānsahavāsaṃ ca vivāsaṃ caiva paśyati |
tathaivekatvanānātve sa duḥkhātpratimucyate
यो न कामयते किञ्चिन्न किञ्चिदवमन्यते ।
इह लोकस्थ एवैष ब्रह्मभूयाय कल्पते
yo na kāmayate kiñcinna kiñcidavamanyate |
iha lokastha evaiṣa brahmabhūyāya kalpate
प्रधानगुणतत्त्वज्ञः सर्व भूतविधानवित् ।
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः
pradhānaguṇatattvajñaḥ sarva bhūtavidhānavit |
nirmamo nirahaṅkāro mucyate nātra saṃśayaḥ
निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च ।
निर्गुणं नित्यमद्वन्द्वं प्रशमेनैव गच्छति
nirdvandvo nirnamaskāro niḥsvadhākāra eva ca |
nirguṇaṃ nityamadvandvaṃ praśamenaiva gacchati
हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम् ।
उभे सत्यानृते हित्वा मुच्यते नात्र संशयः
hitvā guṇamayaṃ sarvaṃ karma jantuḥ śubhāśubham |
ubhe satyānṛte hitvā mucyate nātra saṃśayaḥ
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् ।
महाहङ्कारविटप इन्द्रियान्तरकोटरः
avyaktabījaprabhavo buddhiskandhamayo mahān |
mahāhaṅkāraviṭapa indriyāntarakoṭaraḥ
महाभूतविशाखश्च विशेषप्रतिशाखवान् ।
सदापत्रः सदापुष्पः शुभाशुभफलोदयः
mahābhūtaviśākhaśca viśeṣapratiśākhavān |
sadāpatraḥ sadāpuṣpaḥ śubhāśubhaphalodayaḥ
आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ।
एनं छित्त्वा च भित्त्वा च तत्त्वज्ञानासिना बुधः
ājīvyaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ |
enaṃ chittvā ca bhittvā ca tattvajñānāsinā budhaḥ
हित्वा सङ्गमयान्पाशान्मृत्युजन्मजरोदयान् ।
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः
hitvā saṅgamayānpāśānmṛtyujanmajarodayān |
nirmamo nirahaṅkāro mucyate nātra saṃśayaḥ
द्वाविमौ पक्षिणौ नित्यौ संक्षेपौ चाप्यचेतनौ ।
एताभ्यां तु परो योन्यश्चेतनावान्स उच्यते
dvāvimau pakṣiṇau nityau saṃkṣepau cāpyacetanau |
etābhyāṃ tu paro yonyaścetanāvānsa ucyate
अचेतनः सत्वसङ्ख्याविमुक्तः
सत्त्वात्परं चेतयतेऽन्तरात्मा ।
स क्षेत्रवित्सर्वसङ्ख्यातबुद्धि-
र्गुणातिगो मुच्यते सर्वपापैः
acetanaḥ satvasaṅkhyāvimuktaḥ
sattvātparaṃ cetayate'ntarātmā |
sa kṣetravitsarvasaṅkhyātabuddhi-
rguṇātigo mucyate sarvapāpaiḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)