एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः ।
धृतराष्ट्रमुपेत्यैव वाक्यमाह महार्थवत्
evamuktastu rājñā sa viduro buddhisattamaḥ |
dhṛtarāṣṭramupetyaiva vākyamāha mahārthavat
15 श्लोक · 14 में से 41
विदुर युधिष्ठिर का उत्तर लेकर धृतराष्ट्र के पास लौटते हैं। राजा ने आपकी बात की प्रशंसा की; अर्जुन अपना घर, धन और प्राण तक अर्पित करते हैं; युधिष्ठिर राज्य, प्राण और धन देते हैं। अपने अनेक कष्ट याद कर भीम ने युधिष्ठिर और अर्जुन के समझाने पर आहें भरते हुए अनिच्छा से सहमति दी। युधिष्ठिर कहते हैं कि पुराना वैर याद करने के लिए राजा भीम पर रोष न करें, क्षत्रियधर्म ऐसा ही होता है। वे जितना चाहें दें: ब्राह्मणों को अग्रहार, पुत्रों के और्ध्वदैहिक कर्म, रत्न, गौएँ और दास-दासी, दीनों और अन्धों को दान, और भरपूर अन्न-पान वाली सभाएँ तथा पशुओं के लिए जलाशय। धृतराष्ट्र प्रसन्न होकर कार्तिकी पूर्णिमा को महादान का निश्चय करते हैं।
वैशम्पायन उवाच
एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः ।
धृतराष्ट्रमुपेत्यैव वाक्यमाह महार्थवत्
evamuktastu rājñā sa viduro buddhisattamaḥ |
dhṛtarāṣṭramupetyaiva vākyamāha mahārthavat
उक्तो युधिष्ठिरो राजा भवद्वचनमादितः ।
स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः
ukto yudhiṣṭhiro rājā bhavadvacanamāditaḥ |
sa ca saṃśrutya vākyaṃ te praśaśaṃsa mahādyutiḥ
बीभत्सुश्च महातेजा निवेदयति ते गृहान् ।
वसु तस्य गृहे यच्च प्राणानपि च केवलान्
bībhatsuśca mahātejā nivedayati te gṛhān |
vasu tasya gṛhe yacca prāṇānapi ca kevalān
धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च ।
अनुजानाति राजर्षे यच्चान्यदपि किञ्चन
dharmarājaśca putraste rājyaṃ prāṇāndhanāni ca |
anujānāti rājarṣe yaccānyadapi kiñcana
भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत ।
कृच्छ्रादिव महाबाहुरनुजज्ञे विनिःश्वसन्
bhīmastu sarvaduḥkhāni saṃsmṛtya bahulānyuta |
kṛcchrādiva mahābāhuranujajñe viniḥśvasan
र राजन्धर्मशीलेन राज्ञा बीभत्सुना तथा ।
अनुनीतो महाबाहुः सौहृदे स्थापितोपि च
ra rājandharmaśīlena rājñā bībhatsunā tathā |
anunīto mahābāhuḥ sauhṛde sthāpitopi ca
न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट् ।
संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरत्
na ca manyustvayā kārya iti tvāṃ prāha dharmarāṭ |
saṃsmṛtya bhīmastadvairaṃ yadanyāyavadācarat
एवंप्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप ।
शुद्धे क्षत्रियधर्मे न निरतोऽयं वृकोदरः
evaṃprāyo hi dharmo'yaṃ kṣatriyāṇāṃ narādhipa |
śuddhe kṣatriyadharme na nirato'yaṃ vṛkodaraḥ
वृकोदरकृते चाहमर्जुनश्च पुनः पुनः ।
प्रसीद याचे नृपते भवान्प्रभुरिहास्ति यत्
vṛkodarakṛte cāhamarjunaśca punaḥ punaḥ |
prasīda yāce nṛpate bhavānprabhurihāsti yat
तद्ददातु भवान्वित्तं यावदिच्छसि पार्थिवः ।
त्वमीश्वरो नो राज्यस्य प्राणानामपि भारत
taddadātu bhavānvittaṃ yāvadicchasi pārthivaḥ |
tvamīśvaro no rājyasya prāṇānāmapi bhārata
ब्रह्मदेयाग्रहारांश्च पुत्राणामौर्ध्वदेहिकम् ।
इतो रत्नानि गाश्चैव दासीदासमजाविकम्
brahmadeyāgrahārāṃśca putrāṇāmaurdhvadehikam |
ito ratnāni gāścaiva dāsīdāsamajāvikam
अर्चयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु ।
दीनान्धकृपणेभ्यश्च तत्रतत्र नृपाज्ञया
arcayitvā kuruśreṣṭho brāhmaṇebhyaḥ prayacchatu |
dīnāndhakṛpaṇebhyaśca tatratatra nṛpājñayā
बह्वन्नरसपानाढ्याः सभा विदुर कारय ।
गवां निपानान्यन्यच्च विविधं पुण्यकं कुरु
bahvannarasapānāḍhyāḥ sabhā vidura kāraya |
gavāṃ nipānānyanyacca vividhaṃ puṇyakaṃ kuru
इति मामब्रवीद्राजा पार्थश्चैव धनंजयः ।
यदत्रानन्तरं कार्यं तद्भवम्ववक्तुमर्हति
iti māmabravīdrājā pārthaścaiva dhanaṃjayaḥ |
yadatrānantaraṃ kāryaṃ tadbhavamvavaktumarhati
इत्युक्ते विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तान् ।
मनश्चक्रे महादाने कार्तिक्यां जनमेजय
ityukte vidureṇātha dhṛtarāṣṭro'bhinandya tān |
manaścakre mahādāne kārtikyāṃ janamejaya
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)