आश्रमवासिक पर्व

अध्याय 10: धृतराष्ट्र प्रजा से क्षमा माँगते हैं

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि दशमोऽध्यायः ॥

19 श्लोक · 10 में से 41

इस अध्याय में क्या होता है

धृतराष्ट्र प्रजा से क्षमा माँगते हैं

धृतराष्ट्र प्रजा को याद दिलाते हैं कि शान्तनु ने, भीष्म के संरक्षण में विचित्रवीर्य ने और उनके भाई पाण्डु ने उनका पालन किया। वे अपनी सेवा में हुई किसी भी चूक के लिए क्षमा माँगते हैं। जब दुर्योधन ने निष्कण्टक राज्य भोगा, तब क्या उस मूर्ख पुत्र ने उनका कुछ बिगाड़ा? उसी की दुर्बुद्धि और राजाओं के अभिमान से महासंहार हुआ और पृथ्वी नष्ट हुई। मैंने भला किया या बुरा, उसे मन में न रखें; वे हाथ जोड़ते हैं। वे वृद्ध, पुत्रहीन, दुःखी और पूर्व राजाओं के पुत्र हैं; गान्धारी भी यही माँगती हैं। लोकपालों जैसे चार भाइयों के साथ युधिष्ठिर उनकी रक्षा करेंगे। वे युधिष्ठिर को प्रजा के हाथ धरोहर रूप में सौंपते हैं, और प्रजा को उनके हाथ। लोग रोते हुए एक-दूसरे को देखते रह जाते हैं।

धृतराष्ट्र उवाच

10.1

शान्तनुः पालयामास यथावद्वसुधामिमाम् ।
तथा विचित्रवीर्यश्च भीष्मेण परिपालितः ।
पालयामास नस्तातो विदितं वो न संशयः

śāntanuḥ pālayāmāsa yathāvadvasudhāmimām |
tathā vicitravīryaśca bhīṣmeṇa paripālitaḥ |
pālayāmāsa nastāto viditaṃ vo na saṃśayaḥ

10.2

यथा च पाण्डुर्भाता मे दयितो भवतामभूत् ।
स चापि पालयामास यथावत्तच्च वेत्थ ह

yathā ca pāṇḍurbhātā me dayito bhavatāmabhūt |
sa cāpi pālayāmāsa yathāvattacca vettha ha

10.3

अनन्तरं हि पितरमनुज्ञातो युधिष्ठिरः ।
नात्र किञ्चिन्मृषा जातु भाषतेति मतिर्मम

anantaraṃ hi pitaramanujñāto yudhiṣṭhiraḥ |
nātra kiñcinmṛṣā jātu bhāṣateti matirmama

10.4

मया च भवतां सम्यक् शुश्रूषा या कृताऽनघाः ।
असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः

mayā ca bhavatāṃ samyak śuśrūṣā yā kṛtā'naghāḥ |
asamyagvā mahābhāgāstatkṣantavyamatandritaiḥ

10.5

यदा दुर्योधनेनेदं भुक्तं राज्यमकण्टकम् ।
अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान्

yadā duryodhanenedaṃ bhuktaṃ rājyamakaṇṭakam |
api tatra na vo mando durbuddhiraparāddhavān

10.6

तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम् ।
विमर्दः सुमहानासीदनयात्स्वकृतादथ ।
घातिताः कौरवेयाश्च पृथिवी च विनाशिता

tasyāparādhāddurbuddherabhimānānmahīkṣitām |
vimardaḥ sumahānāsīdanayātsvakṛtādatha |
ghātitāḥ kauraveyāśca pṛthivī ca vināśitā

10.7

तन्मया साधु वाऽपीदं यदि वाऽसाधु वै कृतम् ।
तद्वो हृदि न कर्तव्यं मया बद्धोऽयमञ्जलिः

tanmayā sādhu vā'pīdaṃ yadi vā'sādhu vai kṛtam |
tadvo hṛdi na kartavyaṃ mayā baddho'yamañjaliḥ

10.8

वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं नराधिपः ।
पूर्वराज्ञां च पुत्रोऽयमिति कृत्वाऽनुजानथ

vṛddho'yaṃ hataputro'yaṃ duḥkhito'yaṃ narādhipaḥ |
pūrvarājñāṃ ca putro'yamiti kṛtvā'nujānatha

10.9

इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी ।
गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया

iyaṃ ca kṛpaṇā vṛddhā hataputrā tapasvinī |
gāndhārī putraśokārtā tulyaṃ yācati vo mayā

10.10

हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा ।
अनुजानीत भद्रं वो व्रजाव शरणं च वः

hataputrāvimau vṛddhau viditvā duḥkhitau tathā |
anujānīta bhadraṃ vo vrajāva śaraṇaṃ ca vaḥ

10.11

अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः ।
सर्वैर्भवद्भिर्द्रव्यः समेषु विषमेषु च ।
न जातु विषमं चैव गमिष्यति कदाचन

ayaṃ ca kauravo rājā kuntīputro yudhiṣṭhiraḥ |
sarvairbhavadbhirdravyaḥ sameṣu viṣameṣu ca |
na jātu viṣamaṃ caiva gamiṣyati kadācana

10.12

चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः ।
लोककपालसमा ह्येते सर्वधर्मार्थदर्शिनः

catvāraḥ sacivā yasya bhrātaro vipulaujasaḥ |
lokakapālasamā hyete sarvadharmārthadarśinaḥ

10.13

चतुर्णां लोकपालानां मध्ये विपरिवर्तते ।
ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः

caturṇāṃ lokapālānāṃ madhye viparivartate |
brahmeva bhagavāneṣa sarvabhūtajagatpatiḥ

10.14

एवमेव महाबाहुर्भीमार्जुनयमैर्वृतः ।
युधिष्ठिरो महातेजा भवतः पालयिष्यति

evameva mahābāhurbhīmārjunayamairvṛtaḥ |
yudhiṣṭhiro mahātejā bhavataḥ pālayiṣyati

10.15

अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः ।
एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः ।
भवन्तोऽस्य च वीरस्य न्यासभूताः कृता मया

avaśyameva vaktavyamiti kṛtvā bravīmi vaḥ |
eṣa nyāso mayā dattaḥ sarveṣāṃ vo yudhiṣṭhiraḥ |
bhavanto'sya ca vīrasya nyāsabhūtāḥ kṛtā mayā

10.16

यदेव तैः कृतं किञ्चिद्व्यलीकं वः सुतैर्मम ।
यदन्येनि मदीयेन तदनुज्ञातुमर्हथ

yadeva taiḥ kṛtaṃ kiñcidvyalīkaṃ vaḥ sutairmama |
yadanyeni madīyena tadanujñātumarhatha

10.17

भवद्भिर्न हि मे मन्युः कृतपूर्वः कथञ्चन ।
अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः

bhavadbhirna hi me manyuḥ kṛtapūrvaḥ kathañcana |
atyantagurubhaktānāmeṣo'ñjaliridaṃ namaḥ

10.18

तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम् ।
कृते याचेऽद्य वः सर्वान्गान्धारीसहितोऽनघाः

teṣāmasthirabuddhīnāṃ lubdhānāṃ kāmacāriṇām |
kṛte yāce'dya vaḥ sarvāngāndhārīsahito'naghāḥ

10.19

इत्युक्तांस्तेन ते सर्वे पौरजानपदा जनाः ।
नोचुर्बाष्पकलाः किञ्चिद्वीक्षांचक्रुः परस्परम्

ityuktāṃstena te sarve paurajānapadā janāḥ |
nocurbāṣpakalāḥ kiñcidvīkṣāṃcakruḥ parasparam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)