भगवन्तमहं भक्तो यथा मां वेत्थ गोपते ।
तथा परमतिग्मांशो नास्त्यदेयं कथंचन
bhagavantamahaṃ bhakto yathā māṃ vettha gopate |
tathā paramatigmāṃśo nāstyadeyaṃ kathaṃcana
इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि त्र्यधिकत्रिशततमोऽध्यायः ॥
25 श्लोक · 303 में से 315
कर्ण कहते हैं कि पत्नी, पुत्र, मित्र या स्वयं उनका शरीर भी उन्हें सूर्यदेव जितना प्रिय नहीं, और मना करने के लिए क्षमा माँगते हैं। वे मृत्यु से अधिक असत्य से डरते हैं और ब्राह्मण को प्राण देने में भी संकोच नहीं करेंगे। रही अर्जुन की बात, तो जामदग्न्य परशुराम और द्रोण से पाए अस्त्रों के बल से वे उसे युद्ध में जीतेंगे। सूर्य कहते हैं कि यदि कुण्डल देने ही हैं तो बदले में इन्द्र से उनकी अमोघ शक्ति माँगना, जिससे तुम संग्राम में शत्रु मारोगे। जागकर कर्ण यही निश्चय करते हैं। प्रातः जप के बाद वे सूर्य को पूरा स्वप्न सुनाते हैं। सूर्य मुस्कराकर कहते हैं कि ऐसा ही है, और कर्ण शक्ति की इच्छा से इन्द्र की प्रतीक्षा करते हैं।
कर्ण उवाच
भगवन्तमहं भक्तो यथा मां वेत्थ गोपते ।
तथा परमतिग्मांशो नास्त्यदेयं कथंचन
bhagavantamahaṃ bhakto yathā māṃ vettha gopate |
tathā paramatigmāṃśo nāstyadeyaṃ kathaṃcana
न मे दारा न मेपुत्रा न चात्मा सुहृदो न च ।
तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम
na me dārā na meputrā na cātmā suhṛdo na ca |
tatheṣṭā vai sadā bhaktyā yathā tvaṃ gopate mama
इष्टानां च महात्मानो भक्तानां च न संशयः ।
कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर
iṣṭānāṃ ca mahātmāno bhaktānāṃ ca na saṃśayaḥ |
kurvanti bhaktimiṣṭāṃ ca jānīṣe tvaṃ ca bhāskara
इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि ।
जानीत इतिवै कृत्वा भगवानाह मद्धितम्
iṣṭo bhaktaśca me karṇo na cānyaddaivataṃ divi |
jānīta itivai kṛtvā bhagavānāha maddhitam
भूयश्च शिरसा याचे प्रसाद्य च पुनःपुनः ।
इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि
bhūyaśca śirasā yāce prasādya ca punaḥpunaḥ |
iti bravīmi tigmāṃśo tvaṃ tu me kṣantumarhasi
बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम् ।
विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम्
bibhemi na tathā mṛtyoryathā bibhye'nṛtādaham |
viśeṣeṇa dvijātīnāṃ sarveṣāṃ sarvadā satām
प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा ।
यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति
pradāne jīvitasyāpi na me'trāsti vicāraṇā |
yacca māmāttha deva tvaṃ pāṇḍavaṃ phalgunaṃ prati
व्येतु संतापजं दुःखं तव भास्कर मानसम् ।
अर्जुनप्रतिमं चैव विजेष्यामि रणेऽर्जुनम्
vyetu saṃtāpajaṃ duḥkhaṃ tava bhāskara mānasam |
arjunapratimaṃ caiva vijeṣyāmi raṇe'rjunam
तवापि विदितं देव ममाप्यस्त्रबलं महत् ।
जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः
tavāpi viditaṃ deva mamāpyastrabalaṃ mahat |
jāmadagnyādupāttaṃ yattathā droṇānmahātmanaḥ
इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम ।
भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः
idaṃ tvamanujānīhi suraśreṣṭha vrataṃ mama |
bhikṣate vajriṇe dadyāmapi jīvitamātmanaḥ
सूर्य उवाच
यदि तात ददास्येते वज्रिणे कुण्डले शुभे ।
त्वमप्येनमथो ब्रूया विजयार्थं महाबल
yadi tāta dadāsyete vajriṇe kuṇḍale śubhe |
tvamapyenamatho brūyā vijayārthaṃ mahābala
नियमेन प्रदद्यास्त्वं कुण्डलेवै शतक्रतोः ।
अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः
niyamena pradadyāstvaṃ kuṇḍalevai śatakratoḥ |
avadhyo hyasi bhūtānāṃ kuṇḍalābhyāṃ samanvitaḥ
अर्जुनन विनाशं हि तव दानवसूदनः ।
प्रार्तयानो रणे वत्स कुण्डले ते जिहीर्षति
arjunana vināśaṃ hi tava dānavasūdanaḥ |
prārtayāno raṇe vatsa kuṇḍale te jihīrṣati
स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः ।
अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम्
sa tvamapyenamārādhya sūnṛtābhiḥ punaḥ punaḥ |
abhyarthayethā deveśamamoghārthaṃ puraṃdaram
अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम् ।
दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम्
amoghāṃ dehi me śaktimamitravinibarhiṇīm |
dāsyāmi te sahasrākṣa kuṇḍale varma cottamam
इत्येव नियमेन त्वं दद्याः शक्राय कुण्डले ।
तया त्वं कर्ण संग्रामे हनिष्यसि रणे रिपून्
ityeva niyamena tvaṃ dadyāḥ śakrāya kuṇḍale |
tayā tvaṃ karṇa saṃgrāme haniṣyasi raṇe ripūn
नाहत्वा हि महाबाहो शत्रूनेति करं पुनः ।
सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः
nāhatvā hi mahābāho śatrūneti karaṃ punaḥ |
sā śaktirdevarājasya śataśo'tha sahasraśaḥ
वैशंपायन उवाच
एवमुक्त्वा सहस्रांशुः सहसाऽन्तरधीयत ।
कर्णस्तु बुबुधे राजन्स्वप्नान्ते प्रव्यथन्निव
evamuktvā sahasrāṃśuḥ sahasā'ntaradhīyata |
karṇastu bubudhe rājansvapnānte pravyathanniva
प्रतिबुद्धस्तु राधेयः स्वप्नं संचिन्त्य भारत ।
चकार निश्चयं राजञ्शक्त्यर्थं वदतांवर
pratibuddhastu rādheyaḥ svapnaṃ saṃcintya bhārata |
cakāra niścayaṃ rājañśaktyarthaṃ vadatāṃvara
यदि मामिन्द्र आयाति कुण्डलार्थं परन्तप ।
शक्त्या तस्मै प्रदास्यामि कुण्डले वर्म चैव ह
yadi māmindra āyāti kuṇḍalārthaṃ parantapa |
śaktyā tasmai pradāsyāmi kuṇḍale varma caiva ha
स कृत्वा प्रातरुत्थाय कार्याणि भरतर्षभ ।
ब्राह्मणान्वाचयित्वा च यथाकार्यमुपाक्रमत्
sa kṛtvā prātarutthāya kāryāṇi bharatarṣabha |
brāhmaṇānvācayitvā ca yathākāryamupākramat
विधिना राजशार्दूल मुहूर्तमजपत्तदा ।
ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत्
vidhinā rājaśārdūla muhūrtamajapattadā |
tataḥ sūryāya japyānte karṇaḥ svapnaṃ nyavedayat
यथा दृष्टं यथातत्त्वं यथोक्तमुभयोर्निसि ।
तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा
yathā dṛṣṭaṃ yathātattvaṃ yathoktamubhayornisi |
tatsarvamānupūrvyeṇa śaśaṃsāsmai vṛṣastadā
तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः ।
उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव
tacchrutvā bhagavāndevo bhānuḥ svarbhānusūdanaḥ |
uvāca taṃ tathetyeva karṇaṃ sūryaḥ smayanniva
ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा ।
शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत्
tatastattvamiti jñātvā rādheyaḥ paravīrahā |
śaktimevābhikāṅkṣanvai vāsavaṃ pratyapālayat
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)