वन पर्व

अध्याय 304: कुन्तिभोज पृथा को ब्राह्मण की सेवा सौंपते हैं

इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि चतुरधिकत्रिशततमोऽध्यायः ॥

29 श्लोक · 304 में से 315

इस अध्याय में क्या होता है

कुन्तिभोज पृथा को ब्राह्मण की सेवा सौंपते हैं

जनमेजय पूछते हैं कि सूर्य ने कौन-सा रहस्य नहीं बताया और कर्ण के कवच-कुण्डल कहाँ से आए। वैशम्पायन कथा आरम्भ करते हैं। प्राचीन काल में दाढ़ी, दण्ड और जटा धारण किए एक ऊँचे, तेजस्वी ब्राह्मण राजा कुन्तिभोज के पास आए। उन्होंने उनके घर रहने की इच्छा जताई, इस शर्त पर कि वे मनमाने आएँ-जाएँ और शय्या, आसन या भोजन में कोई उनका अपराध न करे। कुन्तिभोज ने स्वीकार कर अपनी पुत्री पृथा को बुलाया। वे कहते हैं कि ब्राह्मण परम तेज और परम तप हैं; उनके नमस्कार से ही सूर्य आकाश में चमकता है। तुम वसुदेव की बहन हो, मुझे पुत्री रूप में मिली हो। अभिमान छोड़कर इस वरदायक ब्राह्मण की निर्दोष सेवा करो; इससे तुम्हारा कल्याण होगा, और उनके क्रोध से मेरा सारा कुल जल सकता है।

जनमेजय उवाच

304.1

किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना ।
कीदृशेकुण्डले ते च कवचं रचैव कीदृशम्

kiṃ tadguhyaṃ na cākhyātaṃ karṇāyehoṣṇaraśminā |
kīdṛśekuṇḍale te ca kavacaṃ racaiva kīdṛśam

304.2

कुतश्च कवचं तस्यं कुण्डलेचैव सत्तम ।
एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन

kutaśca kavacaṃ tasyaṃ kuṇḍalecaiva sattama |
etadicchāmyahaṃ śrotuṃ tanme brūhi tapodhana

वैशंपायन उवाच

304.3

अहं राजन्ब्रवीम्येतत्तस्य गुह्यं विभावसोः ।
यादृशे कुण्डले ते च कवचं वैव यादृशम्

ahaṃ rājanbravīmyetattasya guhyaṃ vibhāvasoḥ |
yādṛśe kuṇḍale te ca kavacaṃ vaiva yādṛśam

304.4

कुन्तिभोजं पुरा राजन्ब्राह्मणः पर्युपस्थितः ।
तिग्मतेजा महान्प्रांशुः श्मश्रुदण्डजटाधरः

kuntibhojaṃ purā rājanbrāhmaṇaḥ paryupasthitaḥ |
tigmatejā mahānprāṃśuḥ śmaśrudaṇḍajaṭādharaḥ

304.5

दर्सनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव ।
मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः

darsanīyo'navadyāṅgastejasā prajvalanniva |
madhupiṅgo madhuravāktapaḥsvādhyāyabhūṣaṇaḥ

304.6

स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः ।
भिक्षामिच्छामि वै भोक्तुं तव गेहे विमत्सर

sa rājānaṃ kuntibhojamabravītsumahātapāḥ |
bhikṣāmicchāmi vai bhoktuṃ tava gehe vimatsara

304.7

न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः ।
एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ

na me vyalīkaṃ kartavyaṃ tvayā vā tava cānugaiḥ |
evaṃ vatsyāmi te gehe yadi te rocate'nagha

304.8

यथाकामं च गच्छेयमागच्छेयं तथैव च ।
शय्यासने च मे राजन्नापराध्येत कश्चन

yathākāmaṃ ca gaccheyamāgaccheyaṃ tathaiva ca |
śayyāsane ca me rājannāparādhyeta kaścana

304.9

तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः ।
एवमस्तु परंचेति पुनश्चैवमथाब्रवीत्

tamabravītkuntibhojaḥ prītiyuktamidaṃ vacaḥ |
evamastu paraṃceti punaścaivamathābravīt

304.10

मम कन्या महाप्राज्ञ पृथा नाम यशस्विनी ।
शीलवृत्तान्विता साध्वी नियताऽनवमानिनी

mama kanyā mahāprājña pṛthā nāma yaśasvinī |
śīlavṛttānvitā sādhvī niyatā'navamāninī

304.11

उपस्थास्यति सा त्वां वै पूजयाऽनवमत्य च ।
तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि

upasthāsyati sā tvāṃ vai pūjayā'navamatya ca |
tasyāśca śīlavṛttena tuṣṭiṃ samupayāsyasi

304.12

एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि ।
उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम्

evamuktvā tu taṃ vipramabhipūjya yathāvidhi |
uvāca kanyāmabhyetya pṛthāṃ pṛthulalocanām

304.13

अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति ।
मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम्

ayaṃ vatse mahābhāgo brāhmaṇo vastumicchati |
mama gehe mayā cāsya tathetyevaṃ pratiśrutam

304.14

त्वयि वत्से परायत्तं ब्राह्मणस्याभिराधनम् ।
तन्मे वाक्यममिथ्या त्वं कर्तुमर्हसि कर्हिचित्

tvayi vatse parāyattaṃ brāhmaṇasyābhirādhanam |
tanme vākyamamithyā tvaṃ kartumarhasi karhicit

304.15

अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः ।
यद्यद्ब्रूयान्महातेजास्तत्तद्देयमात्सरात्

ayaṃ tapasvī bhagavānsvādhyāyaniyato dvijaḥ |
yadyadbrūyānmahātejāstattaddeyamātsarāt

304.16

ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः ।
ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते

brāhmaṇā hi paraṃ tejo brāhmaṇā hi paraṃ tapaḥ |
brāhmaṇānāṃ namaskāraiḥ sūryo divi virājate

304.17

अमानयन्हि दाण्डक्यो वातापिश्च महासुरः ।
निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च ।
वैन्ध्याद्रिश्च समुद्रश्च नद्दुषश्च विहिंसितः

amānayanhi dāṇḍakyo vātāpiśca mahāsuraḥ |
nihato brahmadaṇḍena tālajaṅghastathaiva ca |
vaindhyādriśca samudraśca nadduṣaśca vihiṃsitaḥ

304.18

सोयं वत्से महाभार आहितस्त्वयि सांप्रतम् ।
त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम्

soyaṃ vatse mahābhāra āhitastvayi sāṃpratam |
tvaṃ sadā niyatā kuryā brāhmaṇasyābhirādhanam

304.19

जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि ।
ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह

jānāmi praṇidhānaṃ te bālyātprabhṛti nandini |
brāhmaṇeṣviha sarveṣu gurubandhuṣu caiva ha

304.20

तथा प्रेष्येषु सर्वेषु मित्रसंबन्धिमातृषु ।
मयि चैव यथावत्त्वंसर्वमावृत्य वर्तसे

tathā preṣyeṣu sarveṣu mitrasaṃbandhimātṛṣu |
mayi caiva yathāvattvaṃsarvamāvṛtya vartase

304.21

न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते ।
सम्यग्वृत्त्याऽनवद्याङ्गि तव भृत्यजनेष्वपि

na hyatuṣṭo jano'stīha pure cāntaḥpure ca te |
samyagvṛttyā'navadyāṅgi tava bhṛtyajaneṣvapi

304.22

संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति ।
पृथे बालेति कृत्वा वै सुता चासिममेति च

saṃdeṣṭavyāṃ tu manye tvāṃ dvijātiṃ kopanaṃ prati |
pṛthe bāleti kṛtvā vai sutā cāsimameti ca

304.23

वृष्णीनां च कुले जाता शूरस् दयिता सुता ।
दत्ता प्रीतिमता मह्यं पित्रा बाला पुरास्वयम्

vṛṣṇīnāṃ ca kule jātā śūras dayitā sutā |
dattā prītimatā mahyaṃ pitrā bālā purāsvayam

304.24

वसुदेवस् भगिनी सुतानां प्रवरा मम ।
अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम

vasudevas bhaginī sutānāṃ pravarā mama |
agryamagre pratijñāya tenāsi duhitā mama

304.25

तादृशे हि कुले जाता कुले मम विवर्धिता ।
सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवापगा

tādṛśe hi kule jātā kule mama vivardhitā |
sukhātsukhamanuprāptā hradāddhradamivāpagā

304.26

दौष्कुलेया विशेषेण कथंचित्प्रग्रहं गताः ।
बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे

dauṣkuleyā viśeṣeṇa kathaṃcitpragrahaṃ gatāḥ |
bālabhāvādvikurvanti prāyaśaḥ pramadāḥ śubhe

304.27

पृथे राजकुले जन्म रूपं चापि तवाद्भुतम् ।
तेन तेनासि संपन्ना समुपेता च भामिनि

pṛthe rājakule janma rūpaṃ cāpi tavādbhutam |
tena tenāsi saṃpannā samupetā ca bhāmini

304.28

सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि ।
आराध्यवरदं विप्रं श्रेयसा योक्ष्यसे पृथे

sā tvaṃ darpaṃ parityajya dambhaṃ mānaṃ ca bhāmini |
ārādhyavaradaṃ vipraṃ śreyasā yokṣyase pṛthe

304.29

एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम् ।
कोपिते च द्विजश्रेष्ठे कुत्स्नं दह्येत मे कुलम्

evaṃ prāpsyasi kalyāṇi kalyāṇamanaghe dhruvam |
kopite ca dvijaśreṣṭhe kutsnaṃ dahyeta me kulam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)