माऽहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा ।
पुत्राणामथ भार्याणामथो मातुरथो पितुः
mā'hitaṃ karṇa kārṣīstvamātmanaḥ suhṛdāṃ tathā |
putrāṇāmatha bhāryāṇāmatho māturatho pituḥ
इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि द्व्यधिकत्रिशततमोऽध्यायः ॥
18 श्लोक · 302 में से 315
सूर्यदेव फिर समझाते हैं। अपना, पुत्रों, पत्नियों और माता-पिता का अहित मत करो। कीर्ति शरीर का नाश किए बिना पाई जाती है; प्राण देकर अमर कीर्ति चाहोगे तो वह प्राण ही ले जाएगी। भस्म हुए देही के लिए कीर्ति किस काम की? मरा हुआ अपनी कीर्ति नहीं जानता; मृत की कीर्ति शव पर माला जैसी है। वे कहते हैं कि कर्ण उनका भक्त है और भक्त की रक्षा करनी चाहिए। इसमें देवताओं का रचा एक रहस्य भी है, जिसे कर्ण अभी नहीं जान सकता, समय आने पर जानेगा। पाण्डवों के हित के लिए ब्राह्मण-वेश में भिक्षा माँगने आए इन्द्र को मधुर और युक्तिपूर्ण वचनों से लौटा दो। तुम सदा अर्जुन से होड़ करते हो; कुण्डल पहने रहोगे तो स्वयं इन्द्र अर्जुन के बाण बनें, तब भी तुम्हें नहीं जीत सकेंगे।
सूर्य उवाच
माऽहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा ।
पुत्राणामथ भार्याणामथो मातुरथो पितुः
mā'hitaṃ karṇa kārṣīstvamātmanaḥ suhṛdāṃ tathā |
putrāṇāmatha bhāryāṇāmatho māturatho pituḥ
शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर ।
इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा
śarīrasyāvirodhena prāṇināṃ prāṇabhṛdvara |
iṣyate yaśasaḥ prāptiḥ kīrtiśca tridive sthirā
यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम् ।
सा ते प्राणान्समादाय गमिष्यति न संशयः
yastvaṃ prāṇavirodhena kīrtimicchasi śāśvatīm |
sā te prāṇānsamādāya gamiṣyati na saṃśayaḥ
जीवतां कुरुते कार्यं पिता माता सुतास्तथा ।
ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ
jīvatāṃ kurute kāryaṃ pitā mātā sutāstathā |
ye cānye bāndhavāḥ kecilloke'sminpuruṣarṣabha
राजानश्च नरव्याघ्र पौरुषेण निबोध तत् ।
कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते
rājānaśca naravyāghra pauruṣeṇa nibodha tat |
kīrtiśca jīvataḥ sādhvī puruṣasya mahādyute
मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः ।
मृतः कीर्तिं न जानीते जीवन्कीर्ति समश्नुते
mṛtasya kīrtyā kiṃ kāryaṃ bhasmībhūtasya dehinaḥ |
mṛtaḥ kīrtiṃ na jānīte jīvankīrti samaśnute
मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः ।
अहं तु त्वां ब्रवीम्येतद्भक्तोसीति हितेप्सया
mṛtasya kīrtirmartyasya yathā mālā gatāyuṣaḥ |
ahaṃ tu tvāṃ bravīmyetadbhaktosīti hitepsayā
भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना ।
भक्तोयं परया भक्त्या मामित्येव महाभुज
bhaktimanto hi me rakṣyā ityetenāpi hetunā |
bhaktoyaṃ parayā bhaktyā māmityeva mahābhuja
ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम ।
अस्ति चात्र परं किंचिदध्यात्मं देवनिर्मितम् ।
अतश्च त्वां ब्रवीम्येतत्क्रियतामविशङ्कया
mamāpi bhaktirutpannā sa tvaṃ kuru vaco mama |
asti cātra paraṃ kiṃcidadhyātmaṃ devanirmitam |
ataśca tvāṃ bravīmyetatkriyatāmaviśaṅkayā
देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ ।
नस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान्
devaguhyaṃ tvayā jñātuṃ na śakyaṃ puruṣarṣabha |
nasmānnākhyāmi te guhyaṃ kāle vetsyati tadbhavān
पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत् ।
माऽस्मै ते कुण्डले दद्या भिक्षिते वज्रापाणिना
punaruktaṃ ca vakṣyāmi tvaṃ rādheya nibodha tat |
mā'smai te kuṇḍale dadyā bhikṣite vajrāpāṇinā
शोभसे कुण्डलाभ्यां च रुचिराभ्यां महाद्युते ।
विशाखयोर्मध्यगतः शशीव विमले दिवि
śobhase kuṇḍalābhyāṃ ca rucirābhyāṃ mahādyute |
viśākhayormadhyagataḥ śaśīva vimale divi
कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत् ।
प्रत्याख्येयस्त्वया तात कुण्डलार्थे सुरेश्वरः
kīrtiśca jīvataḥ sādhvī puruṣasyeti viddhi tat |
pratyākhyeyastvayā tāta kuṇḍalārthe sureśvaraḥ
पाण्डवानां हिते युक्तो भिक्षन्ब्राह्मणवेषधृत् ।
शक्त्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयाऽनघ ।
विहन्तुं देवराजस् हेतुयुक्तैः पुनःपुनः
pāṇḍavānāṃ hite yukto bhikṣanbrāhmaṇaveṣadhṛt |
śaktyā bahuvidhairvākyaiḥ kuṇḍalepsā tvayā'nagha |
vihantuṃ devarājas hetuyuktaiḥ punaḥpunaḥ
उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः ।
पुरंदरस्य कर्ण त्वं बुद्धिमेतामपानुद
upapattyupapannārthairmādhuryakṛtabhūṣaṇaiḥ |
puraṃdarasya karṇa tvaṃ buddhimetāmapānuda
त्वं हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना ।
सव्यसाची त्वया चेह युधि शूरः समेष्यति
tvaṃ hi nityaṃ naravyāghra spardhase savyasācinā |
savyasācī tvayā ceha yudhi śūraḥ sameṣyati
न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम् ।
विजेतुं युधि यद्यस्य स्वयमिन्द्रः शरो भवेत्
na tu tvāmarjunaḥ śaktaḥ kuṇḍalābhyāṃ samanvitam |
vijetuṃ yudhi yadyasya svayamindraḥ śaro bhavet
तस्मान्न देये शख्राय त्वयैते कुण्डले शुभे ।
संग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम्
tasmānna deye śakhrāya tvayaite kuṇḍale śubhe |
saṃgrāme yadi nirjetuṃ karṇa kāmayase'rjunam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)