एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर ।
दृढप्रीतमना विप्रो धर्मव्याधमुवाच ह
evaṃ saṃkathite kṛtsne mokṣadharme yudhiṣṭhira |
dṛḍhaprītamanā vipro dharmavyādhamuvāca ha
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि सप्तदशाधिकद्विशततमोऽध्यायः ॥
29 श्लोक · 217 में से 315
कौशिक व्याध के उपदेश की प्रशंसा करते हैं। व्याध कहता है, अब मेरा प्रत्यक्ष धर्म देखिए, जिससे मुझे यह सिद्धि मिली, और उन्हें घर के भीतर ले जाता है। वह चार शालाओं वाला सुन्दर भवन देवमन्दिर जैसा है, सुगन्धित और सजा हुआ। वहाँ श्वेत वस्त्र पहने उसके माता-पिता भोजन करके सन्तुष्ट बैठे हैं। वे पुत्र को आशीर्वाद देते हैं कि तुमने मन, वाणी और कर्म से हमारी सेवा की है, हम यहाँ देवलोक के समान सुख से रहते हैं। वे कौशिक का स्वागत करके कुशल पूछते हैं। व्याध कहता है कि माता-पिता ही मेरे परम देवता हैं। मैं स्वयं उन्हें नहलाता हूँ, पैर धोता हूँ, भोजन कराता हूँ और कभी अप्रिय नहीं बोलता। पिता, माता, अग्नि, आत्मा और गुरु, ये गृहस्थ के पाँच गुरु हैं।
मार्कण्डेय उवाच
एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर ।
दृढप्रीतमना विप्रो धर्मव्याधमुवाच ह
evaṃ saṃkathite kṛtsne mokṣadharme yudhiṣṭhira |
dṛḍhaprītamanā vipro dharmavyādhamuvāca ha
न्याययुक्तमिदं सर्वं भवता परिकीर्तितम् ।
न तेऽस्त्यविदितं किंचिद्धर्मेष्वभिसमीक्ष्यते
nyāyayuktamidaṃ sarvaṃ bhavatā parikīrtitam |
na te'styaviditaṃ kiṃciddharmeṣvabhisamīkṣyate
व्याध उवाच
प्रत्यक्षं मम यो धर्मस्तं च पश्य द्विजोत्तम ।
येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुङ्गव
pratyakṣaṃ mama yo dharmastaṃ ca paśya dvijottama |
yena siddhiriyaṃ prāptā mayā brāhmaṇapuṅgava
उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम् ।
द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे
uttiṣṭha bhagavankṣipraṃ praviśyābhyantaraṃ gṛham |
draṣṭumarhasi dharmajña mātaraṃ pitaraṃ ca me
इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम् ।
सौधं हृद्यं चतुःशालमतीव च मनोरमम्
ityuktaḥ sa praviśyātha dadarśa paramārcitam |
saudhaṃ hṛdyaṃ catuḥśālamatīva ca manoramam
देवतागृहसंकाश दैवतैश्च सुपूजितम् ।
शयनासनसंबाधं गन्धैश्च परमैर्युतम्
devatāgṛhasaṃkāśa daivataiśca supūjitam |
śayanāsanasaṃbādhaṃ gandhaiśca paramairyutam
तत्रशुक्लाम्बरधरौ पितरावस्य पूजितौ ।
कृताहारौ तु संतुष्टावुपविष्टौ वरासने
tatraśuklāmbaradharau pitarāvasya pūjitau |
kṛtāhārau tu saṃtuṣṭāvupaviṣṭau varāsane
तस्य व्याधस्य पितरौ ब्राह्मणः संददर्श ह ।
धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसाऽपतत्
tasya vyādhasya pitarau brāhmaṇaḥ saṃdadarśa ha |
dharmavyādhastu tau dṛṣṭvā pādeṣu śirasā'patat
वृद्धावूचतुः
उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु ।
प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि ।
[गतिमिष्टां तपो ज्ञानं मेधां च परमां गतः]
uttiṣṭhottiṣṭha dharmajña dharmastvāmabhirakṣatu |
prītau svastava śaucena dīrghamāyuravāpnuhi |
[gatimiṣṭāṃ tapo jñānaṃ medhāṃ ca paramāṃ gataḥ]
सत्पुत्रेण त्वया पुत्र नित्यं काले सुपूजितौ ।
सुखमेव वसावोऽत्र देवलोकगताविव
satputreṇa tvayā putra nityaṃ kāle supūjitau |
sukhameva vasāvo'tra devalokagatāviva
न तेऽन्यद्दैवतं किंचिद्दैवतेष्वपि वर्तते ।
प्रयतसत्वाद्द्विजातीनांदमेनासि समनवितः
na te'nyaddaivataṃ kiṃciddaivateṣvapi vartate |
prayatasatvāddvijātīnāṃdamenāsi samanavitaḥ
पितुः पितामहा ये च तथैव प्रपितामहाः ।
प्रीतास्ते सततं पुत्र दमेनावां च पूजया
pituḥ pitāmahā ye ca tathaiva prapitāmahāḥ |
prītāste satataṃ putra damenāvāṃ ca pūjayā
मनसा कर्मणा वाचा शुश्रूषा नैव हीयते ।
न चान्या हि तथा बुद्धिर्दृश्यते सांप्रतं तव
manasā karmaṇā vācā śuśrūṣā naiva hīyate |
na cānyā hi tathā buddhirdṛśyate sāṃprataṃ tava
जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ ।
तथा त्वया कृतंसर्वंतद्विशिष्टं च पुत्रक
jāmadagnyena rāmeṇa yathā vṛddhau supūjitau |
tathā tvayā kṛtaṃsarvaṃtadviśiṣṭaṃ ca putraka
मार्कण्डेय उवाच
ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत् ।
तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा
tatastaṃ brāhmaṇaṃ tābhyāṃ dharmavyādho nyavedayat |
tau svāgatena taṃ vipramarcayāmāsatustadā
प्रतिगृह्यच तां पूजां द्विजः पप्रच्छ तावुभौ ।
सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे ।
अनामय च वां कच्चित्सुखं वेह शरीरयोः
pratigṛhyaca tāṃ pūjāṃ dvijaḥ papraccha tāvubhau |
saputrābhyāṃ sabhṛtyābhyāṃ kaccidvāṃ kuśalaṃ gṛhe |
anāmaya ca vāṃ kaccitsukhaṃ veha śarīrayoḥ
वृद्धावूचतुः
कुशलं नौ गृहे विप्र भृत्यवर्गे च सर्वशः ।
कच्चित्त्वमप्यविघ्नेन संप्राप्तो भगवन्निति
kuśalaṃ nau gṛhe vipra bhṛtyavarge ca sarvaśaḥ |
kaccittvamapyavighnena saṃprāpto bhagavanniti
मार्कण्डेय उवाच
हाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः ।
धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत्
hāḍhamityeva tau vipraḥ pratyuvāca mudānvitaḥ |
dharmavyādhastu taṃ vipramarthavadvākyamabravīt
पिता माता च भगवन्नेतौ मे दैवतं परम् ।
यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम्
pitā mātā ca bhagavannetau me daivataṃ param |
yaddaivatebhyaḥ kartavyaṃ tadetābhyāṃ karomyaham
त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः ।
संपूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम
trayastriṃśadyathā devāḥ sarve śakrapurogamāḥ |
saṃpūjyāḥ sarvalokasya tathā vṛddhāvimau mama
उपाहारानाहरन्तो देवतानां यथा द्विजः ।
कुर्वन्ति तद्वदेताभ्यां करोम्यहमतन्द्रितः
upāhārānāharanto devatānāṃ yathā dvijaḥ |
kurvanti tadvadetābhyāṃ karomyahamatandritaḥ
एतौ मे परमं ब्रह्मन्पिता माता च दैवतम् ।
एतौ पुष्पैः फलैरन्नैस्तोषयामि सदा द्विज
etau me paramaṃ brahmanpitā mātā ca daivatam |
etau puṣpaiḥ phalairannaistoṣayāmi sadā dvija
एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः ।
यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज
etāvevāgnayo mahyaṃ yānvadanti manīṣiṇaḥ |
yajñā vedāśca catvāraḥ sarvametau mama dvija
एतदर्थं मम प्राणा भार्या पुत्रः सुहृज्जनः ।
सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम्
etadarthaṃ mama prāṇā bhāryā putraḥ suhṛjjanaḥ |
saputradāraḥ śuśrūṣāṃ nityameva karomyaham
स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये ।
आहारं च प्रयच्छामि स्वयंच द्विजसत्तम
svayaṃ ca snāpayāmyetau tathā pādau pradhāvaye |
āhāraṃ ca prayacchāmi svayaṃca dvijasattama
अनुकूलाः कथा वच्मि विप्रियं परिवर्जये ।
अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम्
anukūlāḥ kathā vacmi vipriyaṃ parivarjaye |
adharmeṇāpi saṃyuktaṃ priyamābhyāṃ karomyaham
धर्ममेव गुरुं मत्वा साक्षादेतौ द्विजोत्तम ।
अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम्
dharmameva guruṃ matvā sākṣādetau dvijottama |
atandritaḥ sadā vipra śuśrūṣāṃ vai karomyaham
पञ्चैव गुरवो ब्रह्मनपुरुषस्य बुभूषतः ।
पिता माताऽग्निरात्मा च गुरुश्च द्विजसत्तम
pañcaiva guravo brahmanapuruṣasya bubhūṣataḥ |
pitā mātā'gnirātmā ca guruśca dvijasattama
एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम ।
भवेयुरप्रयस्तेन परिचीर्णास्तु नित्यशः ।
गार्हस्थ्ये वर्तमानस्य एष धर्मः सनातनः
eteṣu yastu varteta samyageva dvijottama |
bhaveyuraprayastena paricīrṇāstu nityaśaḥ |
gārhasthye vartamānasya eṣa dharmaḥ sanātanaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)