वन पर्व

अध्याय 157: आकाशवाणी ने पाण्डवों को लौटाया

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्तपञ्चाशदधिकशततमोऽध्यायः ॥

21 श्लोक · 157 में से 315

इस अध्याय में क्या होता है

आकाशवाणी ने पाण्डवों को लौटाया

युधिष्ठिर भाइयों और ब्राह्मणों को बुलाकर अब तक का स्मरण करते हैं: पावन तीर्थ और देवताओं तथा मुनियों के विचरे वन, आश्रमों में सुनी कथाएँ, पुष्पों और जल से देवपूजा, कन्द मूल फल से पितरों का तर्पण, इला, सरस्वती, सिन्धु, यमुना और नर्मदा में स्नान, गङ्गाद्वार, हिमालय, बदरी और दिव्य सरोवर, जिन्हें लोमश ने दिखाया। अब वे भीम से पूछते हैं कि गन्धमादन में कैसे प्रवेश करें। तभी आकाशवाणी होती है: यह पर्वत दुर्गम है; बदरी लौटो, फिर वृषपर्वा के आश्रम से आगे आर्ष्टिषेण के आश्रम में रहो, वहाँ से कुबेर का निवास दिखेगा। सुगन्धित वायु फूल बरसाती है। धौम्य लौटने की सलाह देते हैं, और सब नर नारायण के आश्रम में सुख से रहते हैं।

वैशंपायन उवाच

157.1

तस्मिन्निवसमानोऽथ धर्मराजो युधिष्ठिरः ।
आमन्त्र्य सहितान्भ्रातृनित्युवाच सहद्विजान्

tasminnivasamāno'tha dharmarājo yudhiṣṭhiraḥ |
āmantrya sahitānbhrātṛnityuvāca sahadvijān

157.2

दृष्टानि तीर्थान्यस्माभिः पुण्यानि च शिवानि च ।
मनसो ह्लादनीयानि वनानि च पृथक्पृथक्

dṛṣṭāni tīrthānyasmābhiḥ puṇyāni ca śivāni ca |
manaso hlādanīyāni vanāni ca pṛthakpṛthak

157.3

देवैः पूर्वं विचीर्णानि मुनिभिश्च महात्मभिः ।
यथाक्रममशेषेण द्विजैः संपूजितानि च

devaiḥ pūrvaṃ vicīrṇāni munibhiśca mahātmabhiḥ |
yathākramamaśeṣeṇa dvijaiḥ saṃpūjitāni ca

157.4

ऋषीणां पूर्वचरितं तपोधर्मविचेष्टितम् ।
राजर्षीणां च चरितं कथाश्च विविधाः शुभाः

ṛṣīṇāṃ pūrvacaritaṃ tapodharmaviceṣṭitam |
rājarṣīṇāṃ ca caritaṃ kathāśca vividhāḥ śubhāḥ

157.5

शृण्वानास्तत्रतत्र स्म आश्रमेषु शिवेषु च ।
अभिषेकं द्विजैः सार्धं कृतवन्तो विशेषतः

śṛṇvānāstatratatra sma āśrameṣu śiveṣu ca |
abhiṣekaṃ dvijaiḥ sārdhaṃ kṛtavanto viśeṣataḥ

157.6

अर्चिताः सततं देवाः पुष्पैरद्भिः सदा च वः ।
यथालब्धैर्मूलफलैः पितरश्चापि तर्पिताः

arcitāḥ satataṃ devāḥ puṣpairadbhiḥ sadā ca vaḥ |
yathālabdhairmūlaphalaiḥ pitaraścāpi tarpitāḥ

157.7

पर्वतेषु च रम्येषु सर्वेषु च सरस्सु च ।
उदधौ च महापुण्ये सूपस्पृष्टं महात्मभिः

parvateṣu ca ramyeṣu sarveṣu ca sarassu ca |
udadhau ca mahāpuṇye sūpaspṛṣṭaṃ mahātmabhiḥ

157.8

इला सरस्वती सिन्धुर्यमुना नर्मदा तथा ।
नानातीर्थेषु रम्येषु सूपस्पृष्टं सह द्विजैः

ilā sarasvatī sindhuryamunā narmadā tathā |
nānātīrtheṣu ramyeṣu sūpaspṛṣṭaṃ saha dvijaiḥ

157.9

गङ्गाद्वारमतिक्रम्य बहवः पर्वताः शुभाः ।
हिमवान्पर्वतश्चैव नानाद्विजगणायुतः

gaṅgādvāramatikramya bahavaḥ parvatāḥ śubhāḥ |
himavānparvataścaiva nānādvijagaṇāyutaḥ

157.10

विशाला बदरी दृष्टा नरनारायणाश्रमः ।
दिव्यपुष्करिणी दृष्टा सिद्धदेवर्षिपूजिता

viśālā badarī dṛṣṭā naranārāyaṇāśramaḥ |
divyapuṣkariṇī dṛṣṭā siddhadevarṣipūjitā

157.11

यथाक्रमविशेषेण सर्वाण्यायतनानि च ।
दर्शितानि द्विजेनद्रेण लोमशेन महात्मना

yathākramaviśeṣeṇa sarvāṇyāyatanāni ca |
darśitāni dvijenadreṇa lomaśena mahātmanā

157.12

इमं वैश्रवणावासं दुर्गमं गन्धमादनम् ।
कथं भीम गमिष्यामो मतिरत्र विधीयताम्

imaṃ vaiśravaṇāvāsaṃ durgamaṃ gandhamādanam |
kathaṃ bhīma gamiṣyāmo matiratra vidhīyatām

157.13

एवं ब्रुवति राजेन्द्रे वागुवाचाशरीरिणी ।
न शक्यो दुर्गमो गन्तुं पर्वतो गन्धमादनः

evaṃ bruvati rājendre vāguvācāśarīriṇī |
na śakyo durgamo gantuṃ parvato gandhamādanaḥ

157.14

अननैव पथा राजन्प्रतिगच्छ यथागतम् ।
नरनारायणस्थानं बदरीत्यभिविश्रुतम्

ananaiva pathā rājanpratigaccha yathāgatam |
naranārāyaṇasthānaṃ badarītyabhiviśrutam

157.15

तस्माद्यास्यसि कौन्तेय सिद्धचारणसेवितम् ।
बहुपुष्पफलं रम्यमाश्रमं वृषपर्वणः

tasmādyāsyasi kaunteya siddhacāraṇasevitam |
bahupuṣpaphalaṃ ramyamāśramaṃ vṛṣaparvaṇaḥ

157.16

अतिक्रम्य च तं पार्थ त्वार्ष्टिषेणाश्रमे वसेः ।
ततो द्रक्ष्यसि कौन्तेय निवेशं धनदस्य च

atikramya ca taṃ pārtha tvārṣṭiṣeṇāśrame vaseḥ |
tato drakṣyasi kaunteya niveśaṃ dhanadasya ca

157.17

एतस्मिन्नन्तरे वायुर्दिव्यगन्धवहः शुभः ।
भनःप्रह्लादनः शीतः पुष्पवर्षं ववर्ष वै

etasminnantare vāyurdivyagandhavahaḥ śubhaḥ |
bhanaḥprahlādanaḥ śītaḥ puṣpavarṣaṃ vavarṣa vai

157.18

तच्छ्रुत्वा दिव्यमाकाशाद्विस्मयः समपद्यत ।
ऋषीणां ब्राह्मणानां च पार्थिवानां विशेषतः

tacchrutvā divyamākāśādvismayaḥ samapadyata |
ṛṣīṇāṃ brāhmaṇānāṃ ca pārthivānāṃ viśeṣataḥ

157.19

श्रुत्वा तन्महदाश्चर्यं द्विजो धौम्यस्त्वभाषत ।
न शक्यमुत्तरं गन्तुं प्रतिगच्छाम पाण्डव

śrutvā tanmahadāścaryaṃ dvijo dhaumyastvabhāṣata |
na śakyamuttaraṃ gantuṃ pratigacchāma pāṇḍava

157.20

ततो युधिष्ठिरो राजा विस्मयोत्फुल्ललोचनः ।
[प्रत्यागम्य पुनस्तं तु नरनारायणाश्रमम् ॥]

tato yudhiṣṭhiro rājā vismayotphullalocanaḥ |
[pratyāgamya punastaṃ tu naranārāyaṇāśramam ||]

157.21

भीमसेनादिभिः सर्वैर्भ्रातृभिः परिवारितः ।
पाञ्चाल्या ब्राह्मणैश्चैव न्यवसत्सुसुखं तदा

bhīmasenādibhiḥ sarvairbhrātṛbhiḥ parivāritaḥ |
pāñcālyā brāhmaṇaiścaiva nyavasatsusukhaṃ tadā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)