वन पर्व

अध्याय 112: ऋश्यशृंग के पास युवती वेश्या का आना

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्वादशाधिकशततमोऽध्यायः ॥

24 श्लोक · 112 में से 315

इस अध्याय में क्या होता है

ऋश्यशृंग के पास युवती वेश्या का आना

वृद्धा नाव पर कृत्रिम वृक्षों और लताओं से सजा एक तैरता आश्रम बनाती है और उसे विभाण्डक के आश्रम के पास बाँध देती है। पिता के बाहर जाने पर वह अपनी चतुर पुत्री को भेजती है। ऋश्यशृंग ने कभी स्त्री नहीं देखी थी, इसलिए उसे तेजस्वी ब्रह्मचारी समझकर जल और फल देते हैं। वह कहती है कि मेरे व्रत में प्रणाम का उत्तर नहीं, आलिंगन होता है। वह उन्हें मिठाइयाँ, मालाएँ, चमकीले वस्त्र और उत्तम पेय देती है, बार बार उनसे सटती है और फिर अग्निहोत्र का बहाना बनाकर चली जाती है। ऋश्यशृंग सुध खोकर आहें भरते रहते हैं। विभाण्डक लौटकर देखते हैं कि समिधा नहीं आई, अग्निहोत्र नहीं हुआ, और उदास पुत्र से पूछते हैं कि यहाँ कौन आया था।

लोमश उवाच

112.1

सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये ।
संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत

sā tu nāvyāśramaṃ cakre rājakāryārthasiddhaye |
saṃdeśāccaiva nṛpateḥ svabuddhyā caiva bhārata

112.2

नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितैः ।
नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः

nānāpuṣpaphalairvṛkṣaiḥ kṛtrimairupaśobhitaiḥ |
nānāgulmalatopetaiḥ svādukāmaphalapradaiḥ

112.3

अतीव रमणीयं तदतीव च मनोहरम् ।
चक्रे नाव्याश्रमं रम्यमद्भुतोपमदेर्शनम्

atīva ramaṇīyaṃ tadatīva ca manoharam |
cakre nāvyāśramaṃ ramyamadbhutopamaderśanam

112.4

ततो निवध्य सा नावमदूरे काश्यपाश्रमात् ।
चारयामास पुरुषैर्विहारं तस्य वै मुनेः

tato nivadhya sā nāvamadūre kāśyapāśramāt |
cārayāmāsa puruṣairvihāraṃ tasya vai muneḥ

112.5

ततो दुहितरं वेश्यां समाधायेतिकार्यताम् ।
दृष्ट्वाऽन्तरं काशय्पस्य प्राहिणोद्बुद्धिसंमताम्

tato duhitaraṃ veśyāṃ samādhāyetikāryatām |
dṛṣṭvā'ntaraṃ kāśaypasya prāhiṇodbuddhisaṃmatām

112.6

सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ ।
आश्रमं तं समासाद्य ददर्श तमृषेः सुतम्

sā tatra gatvā kuśalā taponityasya saṃnidhau |
āśramaṃ taṃ samāsādya dadarśa tamṛṣeḥ sutam

वेश्योवाच

112.7

कच्चिन्मुने कुशलं तापसानां
कच्चिच्च वो मूलफलं प्रभूतम् ।
कच्चिद्भवान्रमते चाश्रेऽस्मिं-
स्त्वां वै द्रष्टुं सांप्रतमागतास्मि

kaccinmune kuśalaṃ tāpasānāṃ
kaccicca vo mūlaphalaṃ prabhūtam |
kaccidbhavānramate cāśre'smiṃ-
stvāṃ vai draṣṭuṃ sāṃpratamāgatāsmi

112.8

कच्चित्तपो वर्धते तापसानां
पिता च ते कच्चिदहीनतेजाः ।
कच्चित्त्वया प्रीयतेचैव विप्र
कच्चित्स्वाध्यायः क्रियते चर्श्यशृङ्गः

kaccittapo vardhate tāpasānāṃ
pitā ca te kaccidahīnatejāḥ |
kaccittvayā prīyatecaiva vipra
kaccitsvādhyāyaḥ kriyate carśyaśṛṅgaḥ

ऋश्यशृङ्ग उवाच

112.9

ऋद्ध्या भवाञ्ज्योतिरिव प्रकाशते
मन्ये चाहं त्वामभिवादनीयम् ।
पाद्यं वै ते संप्रदास्यामि कामा-
द्यथाधर्मं फलमूलानि चैव

ṛddhyā bhavāñjyotiriva prakāśate
manye cāhaṃ tvāmabhivādanīyam |
pādyaṃ vai te saṃpradāsyāmi kāmā-
dyathādharmaṃ phalamūlāni caiva

112.10

कौश्यां बृस्यामास्स्व यथोपजोषं
कृष्णाजिनेनावृतायां सुखाय ।
क्व चाश्रमस्तव किं नाम चेदं
व्रतंब्रह्मंश्चरसि हि देववत्त्वम्

kauśyāṃ bṛsyāmāssva yathopajoṣaṃ
kṛṣṇājinenāvṛtāyāṃ sukhāya |
kva cāśramastava kiṃ nāma cedaṃ
vrataṃbrahmaṃścarasi hi devavattvam

वेश्योवाच

112.11

ममाश्रमः काश्यपपुत्र रम्य-
स्त्रियोजनं शैलमिमं परेण ।
तत्रस्वधर्मोऽनभिवादनं नो
न चोदकं पाद्यमुपस्पृशामः

mamāśramaḥ kāśyapaputra ramya-
striyojanaṃ śailamimaṃ pareṇa |
tatrasvadharmo'nabhivādanaṃ no
na codakaṃ pādyamupaspṛśāmaḥ

112.12

भवता नाभिवाद्योऽहमभिवाद्यो भवान्मया ।
व्रतमेतादृशं ब्रह्मन्परिष्वज्यो भवान्मया

bhavatā nābhivādyo'hamabhivādyo bhavānmayā |
vratametādṛśaṃ brahmanpariṣvajyo bhavānmayā

ऋश्यशृङ्ग उवाच

112.13

फलानि पक्वानि ददानि तेऽहं
भल्लातकान्यामलकानि चैव ।
करूषकानीङ्गुदधन्वनानि
प्रियालानां काङ्क्षितं वै कुरुष्व

phalāni pakvāni dadāni te'haṃ
bhallātakānyāmalakāni caiva |
karūṣakānīṅgudadhanvanāni
priyālānāṃ kāṅkṣitaṃ vai kuruṣva

लोमश उवाच

112.14

सा तानि सर्वाणि विसर्जयित्वा
भक्ष्याण्यनर्हाणि ददौ ततोऽस्मै ।
तान्यृश्यशृङ्गाय महारसानि
भृशं सुरूपाणि च मोदकानि

sā tāni sarvāṇi visarjayitvā
bhakṣyāṇyanarhāṇi dadau tato'smai |
tānyṛśyaśṛṅgāya mahārasāni
bhṛśaṃ surūpāṇi ca modakāni

112.15

ददौ च माल्यानि सुगन्धवन्ति
चित्राणि वासांसि च भानुमन्ति ।
पेयानि चाग्र्याणि ततो मुमोद
चिक्रीड चैव प्रजहास चैव

dadau ca mālyāni sugandhavanti
citrāṇi vāsāṃsi ca bhānumanti |
peyāni cāgryāṇi tato mumoda
cikrīḍa caiva prajahāsa caiva

112.16

सा कन्दुकेनारमतास्य मूले
विभज्यमाना फलिता लतेव ।
गात्रैश्च गात्राणि निषेवमाणा
समाश्लिषच्चासकृदृश्यशृङ्गम्

sā kandukenāramatāsya mūle
vibhajyamānā phalitā lateva |
gātraiśca gātrāṇi niṣevamāṇā
samāśliṣaccāsakṛdṛśyaśṛṅgam

112.17

सर्जानशोकांस्तिलकांश्च वृक्षा-
न्सुपुष्पितानवनाम्यावभज्य ।
विलज्जमानेव मदाभिभूता
प्रोभयामास सुतं महर्षेः

sarjānaśokāṃstilakāṃśca vṛkṣā-
nsupuṣpitānavanāmyāvabhajya |
vilajjamāneva madābhibhūtā
probhayāmāsa sutaṃ maharṣeḥ

112.18

अथर्श्यशृङ्गं विकृतंसमीक्ष्य
पुनः पुनः पीञ्य च कायमस्य ।
अवेक्ष्यमाणा शनकैर्जगाम
कृत्वाऽग्निहोत्रस्य तदाऽपदेशम्

atharśyaśṛṅgaṃ vikṛtaṃsamīkṣya
punaḥ punaḥ pīñya ca kāyamasya |
avekṣyamāṇā śanakairjagāma
kṛtvā'gnihotrasya tadā'padeśam

112.19

तस्यां गतायां मदनेन मत्तो
विचेतनश्चाभवदृश्यशृङ्गः ।
तामेव भावेन गतेन शून्ये
विनिःश्वसन्नार्तरूपो बभूव

tasyāṃ gatāyāṃ madanena matto
vicetanaścābhavadṛśyaśṛṅgaḥ |
tāmeva bhāvena gatena śūnye
viniḥśvasannārtarūpo babhūva

112.20

ततो मुहूर्ताद्धरिपिङ्गलाक्षः
प्रवेष्टितो रोमभिरानखाग्रात् ।
स्वाध्यायवान्वृत्तसमाधियुक्तो
विभाण्डकः काश्यपः प्रादुरासीत्

tato muhūrtāddharipiṅgalākṣaḥ
praveṣṭito romabhirānakhāgrāt |
svādhyāyavānvṛttasamādhiyukto
vibhāṇḍakaḥ kāśyapaḥ prādurāsīt

112.21

सोऽपश्यदासीनमुपेत्य पुत्रं
ध्यायन्तमेकं विपरीतचित्तम् ।
विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं
विभाण्‍कः पुत्रमुवाच दीनम्

so'paśyadāsīnamupetya putraṃ
dhyāyantamekaṃ viparītacittam |
viniḥśvasantaṃ muhurūrdhvadṛṣṭiṃ
vibhāṇ‍kaḥ putramuvāca dīnam

112.22

न कल्पिताः समिधः किंनु तात
कच्चिद्धुतं चाग्निहोऽत्रं त्वयाऽद्य ।
न संसृष्टं क्रियते द्वारभागे
सुवृक्षाणा खण्डने कः प्रवृत्तः

na kalpitāḥ samidhaḥ kiṃnu tāta
kacciddhutaṃ cāgniho'traṃ tvayā'dya |
na saṃsṛṣṭaṃ kriyate dvārabhāge
suvṛkṣāṇā khaṇḍane kaḥ pravṛttaḥ

112.23

सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः
कच्चित्सवत्साद्यकृता त्वया च ।
कोप्यागतः शुश्रूषणायेह पुत्र
कुतश्चित्रं माल्यमिदं प्रवृद्धम्

sunirṇiktaṃ sruksruvaṃ homadhenuḥ
kaccitsavatsādyakṛtā tvayā ca |
kopyāgataḥ śuśrūṣaṇāyeha putra
kutaścitraṃ mālyamidaṃ pravṛddham

112.24

न वै यथापूर्वमिवासि पुत्र
चिन्तापरश्चासि विचेतनश्च ।
दीनोतिमात्रं किमिवाद्य खिन्नः
पृच्छामि त्वां क इहाद्यागतोऽभूत्

na vai yathāpūrvamivāsi putra
cintāparaścāsi vicetanaśca |
dīnotimātraṃ kimivādya khinnaḥ
pṛcchāmi tvāṃ ka ihādyāgato'bhūt

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)