अनुशासन पर्व

अध्याय 72: दान का सुपात्र कौन है

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विसप्ततितमोऽध्यायः ॥

19 श्लोक · 72 में से 274

इस अध्याय में क्या होता है

दान का सुपात्र कौन है

युधिष्ठिर पूछते हैं कि दान का पात्र कौन है, अपरिचित, पुराना परिचित या दूर से आया। भीष्म कहते हैं कि कुछ लोग माँगने वाले को सब कुछ देने का व्रत रखते हैं, पर अपने आश्रितों को कष्ट देकर नहीं। नयापन, परिचय या दूरी किसी को पात्र नहीं बनाते। विद्वान और ईर्ष्यारहित ऋत्विज, पुरोहित, आचार्य, शिष्य और सम्बन्धी पूजनीय हैं। मनुष्य को गुणों से परखो: अक्रोध, सत्य, अहिंसा, दम, सरलता, निरभिमानता, लज्जा और क्षमा। जो ब्राह्मण वेद की निन्दा करे, सूखे तर्क पर गर्व करे और ब्राह्मणों को कोसे, वह भौंकने और काटने वाले कुत्ते के समान है। श्रुति, स्मृति, इतिहास और पुराण के जानकारों का अनुसरण करो। देव, ऋषि, पितर, ब्राह्मण और अतिथि का ऋण चुकाने वाला गृहस्थ धर्म से नहीं गिरता।

युधिष्ठिर उवाच

72.1

अपूर्वं वा भवेत्पात्रमथवाऽपि चिरोषितम् ।
दूरादभ्यागतं वाऽपि किं पात्रं स्यात्पितामह

apūrvaṃ vā bhavetpātramathavā'pi ciroṣitam |
dūrādabhyāgataṃ vā'pi kiṃ pātraṃ syātpitāmaha

भीष्म उवाच

72.2

क्रिया भवति केषांचिदुपांशुव्रतमुत्तमम् ।
यो नो याचेत यत्किंचित्सर्वं दद्याम इत्यपि

kriyā bhavati keṣāṃcidupāṃśuvratamuttamam |
yo no yāceta yatkiṃcitsarvaṃ dadyāma ityapi

72.3

अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम ।
पीडयन्भृत्यवर्गं हि आत्मानमपकर्षति

apīḍayanbhṛtyavargamityevamanuśuśruma |
pīḍayanbhṛtyavargaṃ hi ātmānamapakarṣati

72.4

अपूर्वं चापि यत्पात्रं यच्चापि स्याच्चिरोषितम् ।
दूरादभ्यागतं चापि तत्पात्रं न विदुर्बुधाः

apūrvaṃ cāpi yatpātraṃ yaccāpi syācciroṣitam |
dūrādabhyāgataṃ cāpi tatpātraṃ na vidurbudhāḥ

युधिष्ठिर उवाच

72.5

अपीडया च भूतानां धर्मस्याहिंसया तथा ।
पात्रं विद्यामतत्त्वेन यस्मै दत्तं न सन्तपेत्

apīḍayā ca bhūtānāṃ dharmasyāhiṃsayā tathā |
pātraṃ vidyāmatattvena yasmai dattaṃ na santapet

भीष्म उवाच

72.6

ऋत्विक्पुरोहिताचार्याः शिष्यसम्बन्धिबान्धवाः ।
सर्वे पूज्याश्च मान्याश्च श्रुतवन्तोऽनसूयकाः

ṛtvikpurohitācāryāḥ śiṣyasambandhibāndhavāḥ |
sarve pūjyāśca mānyāśca śrutavanto'nasūyakāḥ

72.7

अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम् ।
तस्माद्गुणैः परीक्षेत पुरुषान्प्रणिधाय वै

ato'nyathā vartamānāḥ sarve nārhanti satkriyām |
tasmādguṇaiḥ parīkṣeta puruṣānpraṇidhāya vai

72.8

अक्रोधः सत्यवचनमहिंसा दम आर्जवम् ।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः

akrodhaḥ satyavacanamahiṃsā dama ārjavam |
adroho'nabhimānaśca hrīstitikṣā damaḥ śamaḥ

72.9

यस्मिन्नोतानि दृश्यन्ते न चाकार्याणि भारत ।
स्वभावतो निविष्टानि तत्पात्रं मानमर्हति

yasminnotāni dṛśyante na cākāryāṇi bhārata |
svabhāvato niviṣṭāni tatpātraṃ mānamarhati

72.10

तथा चिरोषितं चापि सम्प्रत्यागतमेव च ।
अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति

tathā ciroṣitaṃ cāpi sampratyāgatameva ca |
apūrvaṃ caiva pūrvaṃ ca tatpātraṃ mānamarhati

72.11

अप्रामाण्यं च वेदानां शास्त्राणां चाभिलङ्घनम् ।
अव्यवस्था च सर्वत्र एतन्नाशनमात्मनः

aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cābhilaṅghanam |
avyavasthā ca sarvatra etannāśanamātmanaḥ

72.12

भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः ।
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकां

bhavetpaṇḍitamānī yo brāhmaṇo vedanindakaḥ |
ānvīkṣikīṃ tarkavidyāmanurakto nirarthikāṃ

72.13

हेतुवादान्बुवन्सत्सु विजेताऽहेतुवादकः ।
आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैवहि

hetuvādānbuvansatsu vijetā'hetuvādakaḥ |
ākroṣṭā cātivaktā ca brāhmaṇānāṃ sadaivahi

72.14

सर्वाभिशङ्की मूढश्च बालः कटुकवागपि ।
बोद्धव्यस्तादृशस्तात नरं श्वानं हि तं विदुः

sarvābhiśaṅkī mūḍhaśca bālaḥ kaṭukavāgapi |
boddhavyastādṛśastāta naraṃ śvānaṃ hi taṃ viduḥ

72.15

यथा श्वा भषितुं चैव हन्तु चैवावसज्जते ।
एवं सम्भाषणार्थाय सर्वशास्त्रवधाय च ।
अल्पश्रुताः कुतर्काश्च दृष्टाः सृष्टाः कुपण्डिताः

yathā śvā bhaṣituṃ caiva hantu caivāvasajjate |
evaṃ sambhāṣaṇārthāya sarvaśāstravadhāya ca |
alpaśrutāḥ kutarkāśca dṛṣṭāḥ sṛṣṭāḥ kupaṇḍitāḥ

72.16

श्रुतिस्मृती चेतिहासपुराणारण्यवेदिनः ।
अनुरुन्ध्याद्बहुज्ञांश्च सारज्ञाश्चैव पण्डिताः

śrutismṛtī cetihāsapurāṇāraṇyavedinaḥ |
anurundhyādbahujñāṃśca sārajñāścaiva paṇḍitāḥ

72.17

लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च ।
एवं नरो वर्तमानः शाश्वतीर्वर्धते समाः

lokayātrā ca draṣṭavyā dharmaścātmahitāni ca |
evaṃ naro vartamānaḥ śāśvatīrvardhate samāḥ

72.18

ऋणमुन्मुच्य देवानामृषीणां च तथैव च ।
पितॄणामथ विप्राणामतिथीनां च पञ्चमम्

ṛṇamunmucya devānāmṛṣīṇāṃ ca tathaiva ca |
pitṝṇāmatha viprāṇāmatithīnāṃ ca pañcamam

72.19

पर्यायेण विमुक्तो यः सुनिर्णिक्तेन कर्मणा ।
एवं गृहस्थः कर्माणि कुर्वन्धर्मानन हीयते

paryāyeṇa vimukto yaḥ sunirṇiktena karmaṇā |
evaṃ gṛhasthaḥ karmāṇi kurvandharmānana hīyate

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)