अनुशासन पर्व

अध्याय 73: नारद अप्सरा पञ्चचूडा से स्त्री-स्वभाव पूछते हैं

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिसप्ततितमोऽध्यायः ॥

31 श्लोक · 73 में से 274

इस अध्याय में क्या होता है

नारद अप्सरा पञ्चचूडा से स्त्री-स्वभाव पूछते हैं

युधिष्ठिर स्त्रियों का स्वभाव पूछते हैं, जिन्हें दोषों का मूल कहा जाता है। भीष्म बताते हैं कि देवर्षि नारद ने ब्रह्मलोक की अप्सरा पञ्चचूडा से यही पूछा। पहले उसने मना किया कि स्त्री होकर वह स्त्रियों की निन्दा नहीं कर सकती। नारद ने कहा कि झूठ में दोष है, सत्य में नहीं। तब उसने अपनी ही जाति के विषय में कठोर बातें कहीं। उसने कहा कि कुलीन, रूपवती और सुरक्षित स्त्रियाँ भी मर्यादा लाँघती हैं; अधिकतर चाहने वालों का अभाव, परिजनों का भय या दण्ड का डर उन्हें रोकता है। जैसे अग्नि लकड़ी से, सागर नदियों से और मृत्यु प्राणियों से तृप्त नहीं होते, वैसे ही स्त्रियाँ पुरुषों से तृप्त नहीं होतीं। अन्त में वह स्त्रियों को मृत्यु, विष, सर्प और अग्नि के बराबर रखती है।

युधिष्ठिर उवाच

73.1

स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम ।
स्त्रियो हि मूलं दोषाणां लघुचित्ता हि ताः स्मृताः?

strīṇāṃ svabhāvamicchāmi śrotuṃ bharatasattama |
striyo hi mūlaṃ doṣāṇāṃ laghucittā hi tāḥ smṛtāḥ?

भीष्म उवाच

73.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादं पुंश्चल्या पञ्चचूडाया

atrāpyudāharantīmamitihāsaṃ purātanam |
nāradasya ca saṃvādaṃ puṃścalyā pañcacūḍāyā

73.3

लोकाननुचरन्सर्वान्देवर्षिर्नारदः पुरा ।
ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम्

lokānanucaransarvāndevarṣirnāradaḥ purā |
dadarśāpsarasaṃ brāhmīṃ pañcacūḍāmaninditām

73.4

तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्चाप्सरसं मुनिः ।
संशयो हृदि कश्चिन्मे ब्रूहि तन्मे सुमध्यमे

tāṃ dṛṣṭvā cārusarvāṅgīṃ papraccāpsarasaṃ muniḥ |
saṃśayo hṛdi kaścinme brūhi tanme sumadhyame

73.5

एवमुक्ताऽथ सा विप्रं प्रत्युवाचाथ नारदम् ।
विषये सति वक्ष्यामि समर्थां मन्यसे च माम्

evamuktā'tha sā vipraṃ pratyuvācātha nāradam |
viṣaye sati vakṣyāmi samarthāṃ manyase ca mām

नारद उवाच

73.6

न त्वामविषये भद्रे नियोक्ष्यामि कथञ्चन ।
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने

na tvāmaviṣaye bhadre niyokṣyāmi kathañcana |
strīṇāṃ svabhāvamicchāmi tvattaḥ śrotuṃ varānane

73.7

एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा ।
प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः

etacchrutvā vacastasya devarṣerapsarottamā |
pratyuvāca na śakṣyāmi strī satī nindituṃ striyaḥ

73.8

विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः ।
न मामर्हसि देवर्षे नियोक्तुं कार्य ईदृशे

viditāste striyo yāśca yādṛśāśca svabhāvataḥ |
na māmarhasi devarṣe niyoktuṃ kārya īdṛśe

73.9

तामुवाच स देवर्षिः सत्यं वद सुमध्यमे ।
मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते

tāmuvāca sa devarṣiḥ satyaṃ vada sumadhyame |
mṛṣāvāde bhaveddoṣaḥ satye doṣo na vidyate

73.10

इत्युक्ता सा कृतमतिरभवच्चारुहासिनी ।
स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं सम्प्रचक्रमे

ityuktā sā kṛtamatirabhavaccāruhāsinī |
strīdoṣāñśāśvatānsatyānbhāṣituṃ sampracakrame

73.11

कुलीना रूपवत्यश्च नाथवत्यश्च योषितः ।
मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद

kulīnā rūpavatyaśca nāthavatyaśca yoṣitaḥ |
maryādāsu na tiṣṭhanti sa doṣaḥ strīṣu nārada

73.12

न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति वै ।
स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह

na strībhyaḥ kiñcidanyadvai pāpīyastaramasti vai |
striyo hi mūlaṃ doṣāṇāṃ tathā tvamapi vettha ha

73.13

समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान् ।
पतीनन्तरमासाद्य नालं नार्यः परीक्षितुम्

samājñātānṛddhimataḥ pratirūpānvaśe sthitān |
patīnantaramāsādya nālaṃ nāryaḥ parīkṣitum

73.14

असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो ।
पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे

asaddharmastvayaṃ strīṇāmasmākaṃ bhavati prabho |
pāpīyaso narānyadvai lajjāṃ tyaktvā bhajāmahe

73.15

स्त्रियं हि यः प्रार्थयते सन्निकर्षं च गच्छति ।
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः

striyaṃ hi yaḥ prārthayate sannikarṣaṃ ca gacchati |
īṣacca kurute sevāṃ tamevecchanti yoṣitaḥ

73.16

अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च ।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु

anarthitvānmanuṣyāṇāṃ bhayātparijanasya ca |
maryādāyāmamaryādāḥ striyastiṣṭhanti bhartṛṣu

73.17

नासां कश्चिदगम्योस्ति नासां वयसि निश्चयः ॥
विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते

nāsāṃ kaścidagamyosti nāsāṃ vayasi niścayaḥ ||
virūpaṃ rūpavantaṃ vā pumānityeva bhuñjate

73.18

न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथञ्चन ।
न ज्ञातिकुलसम्बन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु

na bhayānnāpyanukrośānnārthahetoḥ kathañcana |
na jñātikulasambandhātstriyastiṣṭhanti bhartṛṣu

73.19

यौवने वर्तमानानां मृष्टाभरणवाससाम् ।
नारीणां खैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः

yauvane vartamānānāṃ mṛṣṭābharaṇavāsasām |
nārīṇāṃ khairavṛttīnāṃ spṛhayanti kulastriyaḥ

73.20

याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः ।
अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामनैः

yāśca śaśvadbahumatā rakṣyante dayitāḥ striyaḥ |
api tāḥ samprasajjante kubjāndhajaḍavāmanaiḥ

73.21

पङ्गुष्वथ च देवर्षे ये चान्ये कुत्सिता नराः ।
स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने

paṅguṣvatha ca devarṣe ye cānye kutsitā narāḥ |
strīṇāmagamyo loke'sminnāsti kaścinmahāmune

73.22

यदि पुंसां गतिर्ब्रह्मन्कथंचिन्नोपपद्यते ।
अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु

yadi puṃsāṃ gatirbrahmankathaṃcinnopapadyate |
apyanyonyaṃ pravartante na hi tiṣṭhanti bhartṛṣu

73.23

दुष्टाचाराः पापरता असत्या मायया वृताः ।
अदृष्टबुद्धिबहुलाः प्रायेणेत्यवगम्यताम्

duṣṭācārāḥ pāparatā asatyā māyayā vṛtāḥ |
adṛṣṭabuddhibahulāḥ prāyeṇetyavagamyatām

73.24

अलाभात्पुरुषाणां हि भयात्परिजनस्य च ।
वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः

alābhātpuruṣāṇāṃ hi bhayātparijanasya ca |
vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ

73.25

चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा ।
प्राज्ञस्य पुरुषस्येह यथाभावास्तथा स्त्रियः

calasvabhāvā duḥsevyā durgrāhyā bhāvatastathā |
prājñasya puruṣasyeha yathābhāvāstathā striyaḥ

73.26

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः

nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ |
nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ

73.27

इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् ।
दृष्ट्वैव पुरुषं ह्यन्यं योनिः प्रक्लिद्यते स्त्रियाः

idamanyacca devarṣe rahasyaṃ sarvayoṣitām |
dṛṣṭvaiva puruṣaṃ hyanyaṃ yoniḥ praklidyate striyāḥ

73.28

कामानामपि दातारं कर्तारं मानसान्त्वयोः ।
रक्षितारं न मृष्यन्ति स्वभर्तारमसत्स्त्रियः

kāmānāmapi dātāraṃ kartāraṃ mānasāntvayoḥ |
rakṣitāraṃ na mṛṣyanti svabhartāramasatstriyaḥ

73.29

न कामभोगान्विपुलान्नालङ्कारार्थसञ्चयान् ।
तथैव बहुमन्वन्ते यथा रत्यामनुग्रहम्

na kāmabhogānvipulānnālaṅkārārthasañcayān |
tathaiva bahumanvante yathā ratyāmanugraham

73.30

अन्तकः शमनो मृत्युः पातालं बडबामुखम् ।
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः

antakaḥ śamano mṛtyuḥ pātālaṃ baḍabāmukham |
kṣuradhārā viṣaṃ sarpo vahnirityekataḥ striyaḥ

73.31

यतश्च भूतानि महान्ति पञ्च
यतश्च लोका विहिता विधात्रा ।
यतः पुमांसः प्रमदाश्च निर्मिता-
स्ततश्च दोषाः प्रमदासु नारद

yataśca bhūtāni mahānti pañca
yataśca lokā vihitā vidhātrā |
yataḥ pumāṃsaḥ pramadāśca nirmitā-
stataśca doṣāḥ pramadāsu nārada

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)