अनुशासन पर्व

अध्याय 71: शम्बर वेश बदले इन्द्र को अपना रहस्य बताते हैं

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकसप्ततितमोऽध्यायः ॥

20 श्लोक · 71 में से 274

इस अध्याय में क्या होता है

शम्बर वेश बदले इन्द्र को अपना रहस्य बताते हैं

भीष्म शक्र और शम्बर का संवाद सुनाते हैं। जटाधारी ब्राह्मण का वेश बनाकर इन्द्र असुर शम्बर से पूछते हैं कि वे अपनी जाति के अगुआ कैसे बने। शम्बर कहते हैं कि वे ब्राह्मणों से कभी ईर्ष्या नहीं करते, उनका सम्मान करते, चरण छूते और प्रश्न पूछते हैं, इसलिए वे उन्हें खुलकर सिखाते हैं, जैसे मधुमक्खियाँ छत्ते में मधु भरती हैं। दूसरे असावधान हों तब भी वे सजग रहते हैं, और इसी से अपनी जाति पर वैसे राज करते हैं जैसे चन्द्रमा नक्षत्रों पर। उनके पिता ने ब्राह्मणों की महिमा देखकर सोम से पूछा था। सोम ने कहा कि ब्राह्मण तप से सिद्ध होते हैं, और जैसे राजा का बल भुजा है वैसे ब्राह्मण का अस्त्र वाणी है। यह सुनकर इन्द्र ने ब्राह्मणों का पूजन किया और महेन्द्र पद पाया।

भीष्म उवाच

71.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शक्रशम्बरसंवादं तन्निवोध युधिष्ठिर

atrāpyudāharantīmamitihāsaṃ purātanam |
śakraśambarasaṃvādaṃ tannivodha yudhiṣṭhira

71.2

शक्रो ह्यज्ञातरूपेण जटी भूत्वा सुवारुणः ।
विप्ररूपं समास्थाय प्रश्नं पप्रच्छ शम्बरम्

śakro hyajñātarūpeṇa jaṭī bhūtvā suvāruṇaḥ |
viprarūpaṃ samāsthāya praśnaṃ papraccha śambaram

71.3

केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि ।
श्रेष्ठं त्वां केन मन्यन्ते तद्वै प्रब्रूहि तत्त्वतः

kena śambara vṛttena svajātyānadhitiṣṭhasi |
śreṣṭhaṃ tvāṃ kena manyante tadvai prabrūhi tattvataḥ

शम्बर उवाच

71.4

नासूयामि सदा विप्रान्ब्राह्ममेव च मे मतम् ।
शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम्

nāsūyāmi sadā viprānbrāhmameva ca me matam |
śāstrāṇi vadato viprānsaṃmanyāmi yathāsukham

71.5

श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित् ।
अभ्यर्च्याभ्यनुपृच्छामि पादौ गृह्णामि धीमताम्

śrutvā ca nāvajānāmi nāparādhyāmi karhicit |
abhyarcyābhyanupṛcchāmi pādau gṛhṇāmi dhīmatām

71.6

ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा ।
प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि

te visrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā |
pramatteṣvapramatto'smi sadā supteṣu jāgṛmi

71.7

ते मां शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम् ।
समासिञ्चति शास्तारः क्षौद्रं मध्विव मक्षिकाः

te māṃ śāstrapathe yuktaṃ brahmaṇyamanasūyakam |
samāsiñcati śāstāraḥ kṣaudraṃ madhviva makṣikāḥ

71.8

यच्च भाषन्ति संतुष्टास्तच्च गृह्णाम्यमायया ।
समाधिमात्मनो नित्यमनुलोममचिन्तयम्

yacca bhāṣanti saṃtuṣṭāstacca gṛhṇāmyamāyayā |
samādhimātmano nityamanulomamacintayam

71.9

सोहं वागग्रमृष्टानां रसानामवलेहकः ।
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः

sohaṃ vāgagramṛṣṭānāṃ rasānāmavalehakaḥ |
svajātyānadhitiṣṭhāmi nakṣatrāṇīva candramāḥ

71.10

एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् ।
यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते

etatpṛthivyāmamṛtametaccakṣuranuttamam |
yadbrāhmaṇamukhācchāstramiha śrutvā pravartate

71.11

एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा ।
युद्धं पिता मे हृष्टात्मा विस्मितः समपद्यत

etatkāraṇamājñāya dṛṣṭvā devāsuraṃ purā |
yuddhaṃ pitā me hṛṣṭātmā vismitaḥ samapadyata

71.12

दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम् ।
पर्यपृच्छत्कथममी सिद्धा इति निशाकरम्

dṛṣṭvā ca brāhmaṇānāṃ tu mahimānaṃ mahātmanām |
paryapṛcchatkathamamī siddhā iti niśākaram

सोम उवाच

71.13

ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा ।
भुजवीर्याश्च राजानो वागस्त्राश्च द्विजातयः

brāhmaṇāstapasā sarve sidhyante vāgbalāḥ sadā |
bhujavīryāśca rājāno vāgastrāśca dvijātayaḥ

71.14

प्रवसन्वाप्यधीयीत ब्राह्मीर्दुर्वसतीर्वसन् ।
निर्मन्युरपि निर्वाणो यतिः स्यात्समदर्शनः

pravasanvāpyadhīyīta brāhmīrdurvasatīrvasan |
nirmanyurapi nirvāṇo yatiḥ syātsamadarśanaḥ

71.15

अपि च ज्ञानसम्पन्नः सर्वान्वेदान्पितुर्गृहे ।
श्लाघमान इवाधीयाद्ग्राम्य इत्येव तं विदुः

api ca jñānasampannaḥ sarvānvedānpiturgṛhe |
ślāghamāna ivādhīyādgrāmya ityeva taṃ viduḥ

71.16

भूमिरेतौ निगिरति सर्पो बिलशयानिव ।
राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम्

bhūmiretau nigirati sarpo bilaśayāniva |
rājānaṃ cāpyayoddhāraṃ brāhmaṇaṃ cāpravāsinam

71.17

अभिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः ।
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः

abhimānaḥ śriyaṃ hanti puruṣasyālpamedhasaḥ |
garbheṇa duṣyate kanyā gṛhavāsena ca dvijaḥ

71.18

विद्याविदो लोकविदस्तपोदमसमन्विताः ।
नित्यपूज्याश्च वन्द्याश्च द्विजा लोकद्वयेच्छुभिः

vidyāvido lokavidastapodamasamanvitāḥ |
nityapūjyāśca vandyāśca dvijā lokadvayecchubhiḥ

71.19

इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात् ।
ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान्

ityetanme pitā śrutvā somādadbhutadarśanāt |
brāhmaṇānpūjayāmāsa tathaivāhaṃ mahāvratān

भीष्म उवाच

71.20

श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम् ।
द्विजान्संम्पूजयामास महेन्द्रत्वमवाप च

śrutvaitadvacanaṃ śakro dānavendramukhāccyutam |
dvijānsaṃmpūjayāmāsa mahendratvamavāpa ca

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)