अनुशासन पर्व

अध्याय 70: द्विजों के प्रति ब्रह्मा की गाथाएँ

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्ततितमोऽध्यायः ॥

25 श्लोक · 70 में से 274

इस अध्याय में क्या होता है

द्विजों के प्रति ब्रह्मा की गाथाएँ

भीष्म कहते हैं कि ब्राह्मण जन्म से ही महान है, सब प्राणियों का पूज्य और पहले भोजन पाने वाला। पूजित ब्राह्मण मंगल वचनों से आशीष देते हैं, अपमानित होने पर उनका क्रोध नाश कर सकता है। वे ब्रह्मा द्वारा द्विजों से कही प्राचीन गाथाएँ सुनाते हैं: अपना कर्म और स्वाध्याय करो; विद्वान ब्राह्मण शूद्र का कर्म न करे, नहीं तो उसकी ब्राह्मी श्री रुक जाती है; तप, ज्ञान और नियम से सब सिद्ध होता है। ब्राह्मण भिन्न स्वभाव के हैं, कुछ सिंह, बाघ या सर्प जैसे, कुछ सौम्य। मेकल, द्रविड़, लाट, पौण्ड्र, दरद, किरात, यवन आदि क्षत्रिय जातियाँ ब्राह्मणों के दर्शन न होने से वृषल हो गईं। पृथ्वी चाहने वाला दान और सेवा से उनका सम्मान करे।

भीष्म उवाच

70.1

जन्मनैव महाभागो ब्राह्मणो नाम जायते ।
नमस्यः सर्वभूतानामतिथिः प्रश्रिताग्रभुक्

janmanaiva mahābhāgo brāhmaṇo nāma jāyate |
namasyaḥ sarvabhūtānāmatithiḥ praśritāgrabhuk

70.2

सर्वेषां सुहृदस्तात ब्राह्मणाः सुमनोमुकाः ।
सर्वानेते हनिष्यन्ति ब्राह्मणा जातमन्यवः ।
गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः

sarveṣāṃ suhṛdastāta brāhmaṇāḥ sumanomukāḥ |
sarvānete haniṣyanti brāhmaṇā jātamanyavaḥ |
gīrbhirmaṅgalayuktābhiranudhyāyanti pūjitāḥ

70.3

सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः ।
गीर्भिर्दारुणयुक्ताभिर्हन्युश्चैते ह्यपूजिताः

sarvānno dviṣatastāta brāhmaṇā jātamanyavaḥ |
gīrbhirdāruṇayuktābhirhanyuścaite hyapūjitāḥ

70.4

अत्र गाथाः पुरा गीताः कीर्तयन्ति पुराविदः ।
सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत्

atra gāthāḥ purā gītāḥ kīrtayanti purāvidaḥ |
sṛṣṭvā dvijātīndhātā hi yathāpūrvaṃ samādadhat

70.5

न वोऽन्यदिह कर्तव्यं किञ्चिदूर्ध्वायनं विधि ।
गुप्तो गोपायते ब्रह्मा श्रेयो वस्तेन शोभनम्

na vo'nyadiha kartavyaṃ kiñcidūrdhvāyanaṃ vidhi |
gupto gopāyate brahmā śreyo vastena śobhanam

70.6

स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति ।
प्रमाणं सर्वभूतानां प्रग्रहाश्च भविष्यथ

svameva kurvatāṃ karma śrīrvo brāhmī bhaviṣyati |
pramāṇaṃ sarvabhūtānāṃ pragrahāśca bhaviṣyatha

70.7

न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता ।
शौद्रं हि कुर्वतः कर्म ब्राह्मी श्रीरुपरुध्यते

na śaudraṃ karma kartavyaṃ brāhmaṇena vipaścitā |
śaudraṃ hi kurvataḥ karma brāhmī śrīruparudhyate

70.8

श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी ।
स्वाध्यायेनैव महात्म्यं विपुलं प्रतिपत्स्यथ

śrīśca buddhiśca tejaśca vibhūtiśca pratāpinī |
svādhyāyenaiva mahātmyaṃ vipulaṃ pratipatsyatha

70.9

हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः ।
अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्मयाऽनुकल्पिताः

hutvā cāhavanīyasthaṃ mahābhāgye pratiṣṭhitāḥ |
agrabhojyāḥ prasūtīnāṃ śriyā brāhmayā'nukalpitāḥ

70.10

श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया ।
दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ

śraddhayā parayā yuktā hyanabhidrohalabdhayā |
damasvādhyāyaniratāḥ sarvānkāmānavāpsyatha

70.11

यच्चैव मानुषे लोके यच्च देवेषु किञ्चन ।
सर्वं वस्तपसा साध्यं ज्ञानेन नियमेन च

yaccaiva mānuṣe loke yacca deveṣu kiñcana |
sarvaṃ vastapasā sādhyaṃ jñānena niyamena ca

70.12

युष्मत्संमाननां प्रीतिं पावनैः क्षत्रिया भृशम् ।
अमुत्रेह समायान्ति वैश्यशूद्राधिकास्तथा

yuṣmatsaṃmānanāṃ prītiṃ pāvanaiḥ kṣatriyā bhṛśam |
amutreha samāyānti vaiśyaśūdrādhikāstathā

70.13

अरक्षिताश्च युष्माभिर्विरुद्धा यान्ति विप्रवम् ।
युष्मत्तेजोधृता लोकास्तद्रक्ष्यथ जगत्त्रयम्

arakṣitāśca yuṣmābhirviruddhā yānti vipravam |
yuṣmattejodhṛtā lokāstadrakṣyatha jagattrayam

70.14

इत्येवं ब्रह्मगीतास्ते समाख्याता मयाऽनघ ।
विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता

ityevaṃ brahmagītāste samākhyātā mayā'nagha |
viprānukampārthamidaṃ tena proktaṃ hi dhīmatā

70.15

भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः ।
दुरासदाश्च चण्डाश्च तपसा क्षिप्रकारिणः

bhūyasteṣāṃ balaṃ manye yathā rājñastapasvinaḥ |
durāsadāśca caṇḍāśca tapasā kṣiprakāriṇaḥ

70.16

सन्त्येषां सिम्हसत्वाश्च व्याघ्रसत्वास्तथाऽपरे ।
वराहमृगसत्वाश्च गजसत्वास्तथाऽपरे

santyeṣāṃ simhasatvāśca vyāghrasatvāstathā'pare |
varāhamṛgasatvāśca gajasatvāstathā'pare

70.17

सर्पस्पर्शसमाः केचित्तथाऽन्ये मकरस्पृशः ।
विभाष्य घातिनः केचित्तथा चक्षुर्हणोऽपरे

sarpasparśasamāḥ kecittathā'nye makaraspṛśaḥ |
vibhāṣya ghātinaḥ kecittathā cakṣurhaṇo'pare

70.18

सन्ति चाशीविषसमाः सन्ति मन्दास्तथाऽपरे ।
विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर

santi cāśīviṣasamāḥ santi mandāstathā'pare |
vividhānīha vṛttāni brāhmaṇānāṃ yudhiṣṭhira

70.19

मेकला द्राविडा लाटाः पौण्ड्राः कान्वशिरास्तथा ।
शौण्डिका दरदा दार्वाश्चोराः शबरबर्बराः

mekalā drāviḍā lāṭāḥ pauṇḍrāḥ kānvaśirāstathā |
śauṇḍikā daradā dārvāścorāḥ śabarabarbarāḥ

70.20

किराता यवनाश्चैव तास्ताः क्षत्रियजातयः ।
वृषत्वमनुप्राप्ता ब्राह्मणानामदर्शनात्

kirātā yavanāścaiva tāstāḥ kṣatriyajātayaḥ |
vṛṣatvamanuprāptā brāhmaṇānāmadarśanāt

70.21

ब्राह्मणानां परिभवादसुराः सलिलेशयाः ।
ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः

brāhmaṇānāṃ paribhavādasurāḥ salileśayāḥ |
brāhmaṇānāṃ prasādācca devāḥ svarganivāsinaḥ

70.22

अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः ।
अवार्या सेतुना गङ्गा दुर्जया ब्राह्ममा भुवि

aśakyaṃ spraṣṭumākāśamacālyo himavāngiriḥ |
avāryā setunā gaṅgā durjayā brāhmamā bhuvi

70.23

न ब्राह्मणविरोधेन शक्या शास्तुं वसुन्धरा ।
ब्राह्मणा हि महात्मानो देवानामपि देवताः

na brāhmaṇavirodhena śakyā śāstuṃ vasundharā |
brāhmaṇā hi mahātmāno devānāmapi devatāḥ

70.24

तान्पूजयस्व सततं दानेन परिचर्यया ।
यदीच्छसि महीं भोक्तमिमां सागरमेखलाम्

tānpūjayasva satataṃ dānena paricaryayā |
yadīcchasi mahīṃ bhoktamimāṃ sāgaramekhalām

70.25

प्रतिग्रहेण तेजो हि विप्राणा शाम्यतेऽनघ ।
प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वया नृप

pratigraheṇa tejo hi viprāṇā śāmyate'nagha |
pratigrahaṃ ye neccheyuste'pi rakṣyāstvayā nṛpa

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)