अनुशासन पर्व

अध्याय 69: ब्राह्मण देवों और पितरों का मुख

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनसप्ततितमोऽध्यायः ॥

22 श्लोक · 69 में से 274

इस अध्याय में क्या होता है

ब्राह्मण देवों और पितरों का मुख

भीष्म युधिष्ठिर से कहते हैं कि सोम जिनके राजा हैं, उन ब्राह्मणों का दान, अलंकार और नमस्कार से सदा पूजन करो और पिता की भाँति रक्षा करो, तब राष्ट्र में शान्ति रहती है। ब्राह्मणों को दिया हवि देवता और पितर ग्रहण करते हैं, क्योंकि सूर्य, चन्द्र, विष्णु, शंकर, अग्नि और प्रजापति ब्राह्मण में प्रवेश करके अन्न खाते हैं। जहाँ ब्राह्मण नहीं जिमाए जाते, वहाँ पितर और देव भी नहीं खाते। उग्र क्षत्रियों का तेज ब्राह्मणों में शान्त होता है: भृगुओं ने तालजंघों को, आंगिरसों ने नीपों को, भरद्वाज ने वैतहव्यों को जीता। फिर श्रीकृष्ण माता पृथ्वी से पूछते हैं कि गृहस्थ पाप कैसे दूर करे। उनका पूरा उत्तर इस पाठ में नहीं है, केवल अन्तिम उपदेश बचा है।

भीष्म उवाच

69.1

ब्राह्मणानेव सततं भृशं सम्परिपूजयेत् ।
एते हि सोमराजान ईश्वरः सुखदुःखयोः

brāhmaṇāneva satataṃ bhṛśaṃ samparipūjayet |
ete hi somarājāna īśvaraḥ sukhaduḥkhayoḥ

69.2

एते भोगैरलङ्कारैरन्यैश्चैव किमिच्छकैः ।
सदा पूज्या नमस्कारै रक्ष्याश्च पितृवन्नृपैः ।
ततो राष्ट्राय शान्तिर्हि भूतानामिव वासवात्

ete bhogairalaṅkārairanyaiścaiva kimicchakaiḥ |
sadā pūjyā namaskārai rakṣyāśca pitṛvannṛpaiḥ |
tato rāṣṭrāya śāntirhi bhūtānāmiva vāsavāt

69.3

ज्ञानवान्ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः ।
महारथश्च राजन्य एष्टव्यः शत्रुतापनः

jñānavānbrahmavarcasvī rāṣṭre vai brāhmaṇaḥ śuciḥ |
mahārathaśca rājanya eṣṭavyaḥ śatrutāpanaḥ

69.4

ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितव्रतम् ।
बोजयीत गृहे राजन्न तस्मात्परमस्ति वै

brāhmaṇaṃ jātisampannaṃ dharmajñaṃ saṃśitavratam |
bojayīta gṛhe rājanna tasmātparamasti vai

69.5

ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः ।
पितरः सर्वभूतानां नैतेभ्यो विद्यते परम्

brāhmaṇebhyo havirdattaṃ pratigṛhṇanti devatāḥ |
pitaraḥ sarvabhūtānāṃ naitebhyo vidyate param

69.6

आदित्यश्चन्द्रमा विष्णुः सङ्करोऽग्निः प्रजापतिः ।
सर्वे ब्राह्मणमाविश्य सदाऽन्नमुपभुञ्जते

ādityaścandramā viṣṇuḥ saṅkaro'gniḥ prajāpatiḥ |
sarve brāhmaṇamāviśya sadā'nnamupabhuñjate

69.7

न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते ।
देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः

na tasyāśnanti pitaro yasya viprā na bhuñjate |
devāścāpyasya nāśnanti pāpasya brāhmaṇadviṣaḥ

69.8

ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा ।
तथैव देवता राजन्नात्र कार्या विचारणा

brāhmaṇeṣu tu tuṣṭeṣu prīyante pitaraḥ sadā |
tathaiva devatā rājannātra kāryā vicāraṇā

69.9

तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः ।
न च प्रेत्य विनश्यन्ति गच्छन्ति च परां गतिम्

tathaiva te'pi prīyante yeṣāṃ bhavati taddhaviḥ |
na ca pretya vinaśyanti gacchanti ca parāṃ gatim

69.10

येनयेनैव प्रीयन्ते पितरो देवतास्तथा ॥
तेनतेनैव प्रीयन्ते पितरो देवतास्तथा

yenayenaiva prīyante pitaro devatāstathā ||
tenatenaiva prīyante pitaro devatāstathā

69.11

ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः ।
यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति

brāhmaṇādeva tadbhūtaṃ prabhavanti yataḥ prajāḥ |
yataścāyaṃ prabhavati pretya yatra ca gacchati

69.12

वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च ।
आगतानागते चोमे ब्राह्मणो द्विपदांवरः

vedaiṣa mārgaṃ svargasya tathaiva narakasya ca |
āgatānāgate come brāhmaṇo dvipadāṃvaraḥ

69.13

ब्राह्मणो द्विपदां श्रेष्ठः स्वधर्मं चैव वेद यः ।
ये चैनमनुवर्तन्ते ते न यान्ति पराभवम् ।
न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम्

brāhmaṇo dvipadāṃ śreṣṭhaḥ svadharmaṃ caiva veda yaḥ |
ye cainamanuvartante te na yānti parābhavam |
na te pretya vinaśyanti gacchanti na parābhavam

69.14

यद्ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः ।
कृतात्मानो महात्मानस्ते न यान्ति पराभवम्

yadbrāhmaṇamukhātprāptaṃ pratigṛhṇanti vai vacaḥ |
kṛtātmāno mahātmānaste na yānti parābhavam

69.15

क्षत्रियाणां प्रतपतां तेजसा च बलेन च ।
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च

kṣatriyāṇāṃ pratapatāṃ tejasā ca balena ca |
brāhmaṇeṣveva śāmyanti tejāṃsi ca balāni ca

69.16

भृगवस्तालजङ्घांश्च नीपानाङ्गिरसोऽजयन् ।
भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ

bhṛgavastālajaṅghāṃśca nīpānāṅgiraso'jayan |
bharadvājo vaitahavyānailāṃśca bharatarṣabha

69.17

चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः ।
प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत्

citrāyudhāṃścāpyajayannete kṛṣṇājinadhvajāḥ |
prakṣipyātha ca kumbhānvai pāragāminamārabhet

69.18

यत्किंचित्कथ्यते लोके श्रूयते पठ्यतेऽपि वा ।
सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु

yatkiṃcitkathyate loke śrūyate paṭhyate'pi vā |
sarvaṃ tadbrāhmaṇeṣveva gūḍho'gniriva dāruṣu

69.19

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ

atrāpyudāharantīmamitihāsaṃ purātanam |
saṃvādaṃ vāsudevasya pṛthvyāśca bharatarṣabha

वासुदेव उवाच

69.20

मातरं सर्वभूतानां पृच्छे त्वां संशयं शुभे ।
केनस्वित्कर्मणा पापं व्यपोहति नरो गृही ॥
ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान्

mātaraṃ sarvabhūtānāṃ pṛcche tvāṃ saṃśayaṃ śubhe |
kenasvitkarmaṇā pāpaṃ vyapohati naro gṛhī ||
brāhmaṇānumate tiṣṭhetpuruṣaḥ śucirātmavān

भीष्म उवाच

69.29

इत्येतद्वचनं श्रुत्वा मेदिन्या मधूसूदनः ।
साधुसाध्विति कौरव्य मेदिनीं प्रत्यपूजयत्

ityetadvacanaṃ śrutvā medinyā madhūsūdanaḥ |
sādhusādhviti kauravya medinīṃ pratyapūjayat

69.30

एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान् ।
सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे

etāṃ śrutvopamāṃ pārtha prayato brāhmaṇarṣabhān |
satataṃ pūjayethāstvaṃ tataḥ śreyo'bhipatsyase

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)