किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह ।
कुर्वन्किं कर्म नृपतिरुभौ लोकौ समश्रुते
kiṃ rājñaḥ sarvakṛtyānāṃ garīyaḥ syātpitāmaha |
kurvankiṃ karma nṛpatirubhau lokau samaśrute
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टषष्टितमोऽध्यायः ॥
27 श्लोक · 68 में से 274
युधिष्ठिर पूछते हैं कि राजा का कौन सा कर्तव्य सबसे बड़ा है, जिससे दोनों लोक मिलें। भीष्म कहते हैं कि ब्राह्मणों की रक्षा और पूजा। विद्वान वृद्ध श्रोत्रियों और नगर तथा जनपद के ब्राह्मणों का अपने और अपने पुत्रों की भाँति मधुर वचन, दान और नमस्कार से पालन करे। ब्राह्मण भिन्न हैं: कुछ उग्र, कुछ कपास जैसे कोमल, कुछ तपस्वी, कुछ किसान या गोपालक, कुछ भिक्षाजीवी, कुछ चोर या नट। सबका सम्मान करे, निन्दा कभी नहीं। कुपित होकर वे राष्ट्र जला सकते हैं, अदेव को देव बना सकते हैं, और जिसकी वे प्रशंसा करें वह बढ़ता है। भीष्म कहते हैं कि शक, यवन, काम्बोज, द्रविड़, कलिंग आदि क्षत्रिय जातियाँ ब्राह्मणों के दर्शन न होने से वृषल हो गईं। ब्राह्मणों की निन्दा सुनने के बजाय उठकर चला जाए।
युधिष्ठिर उवाच
किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह ।
कुर्वन्किं कर्म नृपतिरुभौ लोकौ समश्रुते
kiṃ rājñaḥ sarvakṛtyānāṃ garīyaḥ syātpitāmaha |
kurvankiṃ karma nṛpatirubhau lokau samaśrute
भीष्म उवाच
एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत ।
ब्राह्मणानां रक्षणं च पूजा च सुखमिच्छतः
etadrājñaḥ kṛtyatamamabhiṣiktasya bhārata |
brāhmaṇānāṃ rakṣaṇaṃ ca pūjā ca sukhamicchataḥ
कर्तव्यं पार्थिवेन्द्रेण तथैव भरतर्षभ ।
श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत्
kartavyaṃ pārthivendreṇa tathaiva bharatarṣabha |
śrotriyānbrāhmaṇānvṛddhānnityamevābhipūjayet
पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् ।
सांत्वेन भोगदानेन नमस्कारैः सदाऽर्चयेत्
paurajānapadāṃścāpi brāhmaṇāṃśca bahuśrutān |
sāṃtvena bhogadānena namaskāraiḥ sadā'rcayet
एतत्कृत्यतमं राज्ञो नित्यमेवोपलक्षयेत् ।
यथाऽऽत्मानं यथा पुत्रांस्तथैतान्प्रतिपालयेत्
etatkṛtyatamaṃ rājño nityamevopalakṣayet |
yathā''tmānaṃ yathā putrāṃstathaitānpratipālayet
ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत् ।
तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते
ye cāpyeṣāṃ pūjyatamāstāndṛḍhaṃ pratipūjayet |
teṣu śānteṣu tadrāṣṭraṃ sarvameva virājate
ते पूज्यास्ते नमस्कार्या मान्यास्ते पितरो यथा ।
तेष्वेव यात्रा लोकानां भूतानामिव वासवे
te pūjyāste namaskāryā mānyāste pitaro yathā |
teṣveva yātrā lokānāṃ bhūtānāmiva vāsave
अभिचारैरुपायैश्च दहेयुरपि चेतसा ।
निःशेपं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः ।
abhicārairupāyaiśca daheyurapi cetasā |
niḥśepaṃ kupitāḥ kuryurugrāḥ satyaparākramāḥ |
नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः ।
कुपिताः समुदीक्षन्ते दावेषअवग्निशिखा इव
nāntameṣāṃ prapaśyāmi na diśaścāpyapāvṛtāḥ |
kupitāḥ samudīkṣante dāveṣaavagniśikhā iva
मान्यास्तेषां साधवो ये न निन्द्याश्चाप्यसाधवः ।
बिभ्यत्येषां साहसिका गुणास्तेषामतीव हि ।
कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे
mānyāsteṣāṃ sādhavo ye na nindyāścāpyasādhavaḥ |
bibhyatyeṣāṃ sāhasikā guṇāsteṣāmatīva hi |
kūpā iva tṛṇacchannā viśuddhā dyaurivāpare
प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे ।
सन्ति चैषामतिशठास्तथैवान्ये तपस्विनः
prasahyakāriṇaḥ kecitkārpāsamṛdavo'pare |
santi caiṣāmatiśaṭhāstathaivānye tapasvinaḥ
कृषिगोरक्ष्यमप्येके भैक्ष्यमन्येऽप्यनुष्ठिताः ।
चोराश्चान्येऽनृताश्चान्ये तथाऽन्ये नटनर्तकाः
kṛṣigorakṣyamapyeke bhaikṣyamanye'pyanuṣṭhitāḥ |
corāścānye'nṛtāścānye tathā'nye naṭanartakāḥ
सर्वकर्मसहाश्चान्ये पार्थिवेष्वितरेषु च ।
विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ
sarvakarmasahāścānye pārthiveṣvitareṣu ca |
vividhācārayuktāśca brāhmaṇā bharatarṣabha
नानाकर्मसु रक्तानां बहुकर्मोपजीविनाम् ।
धर्मज्ञानां सतां तेषां नित्यमवोनुकीर्तयेत्
nānākarmasu raktānāṃ bahukarmopajīvinām |
dharmajñānāṃ satāṃ teṣāṃ nityamavonukīrtayet
पितॄणां देवतानं च मनुष्योरगरक्षसाम् ।
पुराऽप्येते महाभागा ब्राह्मणा वै जनाधिप
pitṝṇāṃ devatānaṃ ca manuṣyoragarakṣasām |
purā'pyete mahābhāgā brāhmaṇā vai janādhipa
नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः ।
नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः
naite devairna pitṛbhirna gandharvairna rākṣasaiḥ |
nāsurairna piśācaiśca śakyā jetuṃ dvijātayaḥ
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् ।
यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत्
adaivaṃ daivataṃ kuryurdaivataṃ cāpyadaivatam |
yamiccheyuḥ sa rājā syādyaṃ dviṣyuḥ sa parābhavet
परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः ।
सत्यं ब्रवीमि ते राजन्विनश्येयुर्न संशयः
parivādaṃ ca ye kuryurbrāhmaṇānāmacetasaḥ |
satyaṃ bravīmi te rājanvinaśyeyurna saṃśayaḥ
निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरायणाः ।
परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः
nindāpraśaṃsākuśalāḥ kīrtyakīrtiparāyaṇāḥ |
parikupyanti te rājansatataṃ dviṣatāṃ dvijāḥ
ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते ।
ब्राह्मणैर्यः पराकृष्टः पराभूयात्क्षणाद्धि सः
brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate |
brāhmaṇairyaḥ parākṛṣṭaḥ parābhūyātkṣaṇāddhi saḥ
शका यवनकाम्भोजास्तास्ताः क्षत्रियजातयः ।
वृषलत्वं परिगता ब्राह्मणानामदर्शनात्
śakā yavanakāmbhojāstāstāḥ kṣatriyajātayaḥ |
vṛṣalatvaṃ parigatā brāhmaṇānāmadarśanāt
द्राविडाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः ।
कोलिसर्पा महिपकास्तास्ताः क्षत्रियजातयः
drāviḍāśca kaliṅgāśca pulindāścāpyuśīnarāḥ |
kolisarpā mahipakāstāstāḥ kṣatriyajātayaḥ
वृपलत्वं परिगता ब्राह्मणानामदर्शनात् ।
श्रेयान्पराजयस्तेभ्यो न जयो जयतांवर
vṛpalatvaṃ parigatā brāhmaṇānāmadarśanāt |
śreyānparājayastebhyo na jayo jayatāṃvara
यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम् ।
ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः
yastu sarvamidaṃ hanyādbrāhmaṇaṃ ca na tatsamam |
brahmavadhyā mahāndoṣa ityāhuḥ paramarṣayaḥ
परिवादो द्विजातीनां न श्रोतव्यः कथञ्चन ।
आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा
parivādo dvijātīnāṃ na śrotavyaḥ kathañcana |
āsītādhomukhastūṣṇīṃ samutthāya vrajeta vā
न स जातो जनिष्यो वा पृथिव्यामिह कश्चन ।
यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत्
na sa jāto janiṣyo vā pṛthivyāmiha kaścana |
yo brāhmaṇavirodhena sukhaṃ jīvitumutsahet
दुर्ग्राह्यो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी ।
दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि
durgrāhyo muṣṭinā vāyurduḥsparśaḥ pāṇinā śaśī |
durdharā pṛthivī mūrdhnā durjayā brāhmaṇā bhuvi
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)