अनुशासन पर्व

अध्याय 57: विधिवत विवाह से बाहर जन्मे पुत्रों पर नारद

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तपञ्चाशोऽध्यायः ॥

25 श्लोक · 57 में से 274

इस अध्याय में क्या होता है

विधिवत विवाह से बाहर जन्मे पुत्रों पर नारद

मार्कण्डेय नारद से पूछते हैं कि बन्धुओं और पति से अलग आश्रमों में रहने वाली स्त्रियाँ दोषरहित कैसे रहती हैं। नारद कहते हैं कि ऐसी स्त्रियाँ निर्दोष हैं और उनके पुत्र हव्य-कव्य दे सकते हैं। जो पत्नी पराए पुरुष से संसर्ग कर चुकी हो, वह धर्मकार्यों में त्याज्य है और देवता उसका अर्पण नहीं लेते। पराए खेत में बोया बीज खेत के स्वामी का होता है, बोने वाले का नहीं। पराई पत्नी से दो पुत्र जन्मते हैं: पति के जीवित रहते कुण्ड और पति की मृत्यु के बाद गोलक। उनका अर्पण यातुधान और पिशाच ग्रहण करते हैं, और पत्नी की रक्षा न करने वाला पति तथा जन्म देने वाला दोनों नरक में जाते हैं। फिर भी दिया हुआ सर्वथा नष्ट नहीं होता।

मार्कण्डेय उवाच

57.1

श्रुता भार्याश्च पुत्राश्च विस्तरेण महामुने ।
आश्रमस्थाः कथं नार्यो न दुष्यन्तीति ब्रूहि भो

śrutā bhāryāśca putrāśca vistareṇa mahāmune |
āśramasthāḥ kathaṃ nāryo na duṣyantīti brūhi bho

नारद उवाच

57.2

आश्रमस्थासु नारीषु बान्धवत्वं प्रणश्यति ।
नष्टवंश्या भवन्त्येता बन्धूनामथ भर्तृणाम्

āśramasthāsu nārīṣu bāndhavatvaṃ praṇaśyati |
naṣṭavaṃśyā bhavantyetā bandhūnāmatha bhartṛṇām

57.3

परदारा मुक्तदोषास्ता नार्योऽऽश्रमसंस्थिताः ।
स्वयमीशाः स्वदेहानां काम्यास्तद्गतमानसाः

paradārā muktadoṣāstā nāryo''śramasaṃsthitāḥ |
svayamīśāḥ svadehānāṃ kāmyāstadgatamānasāḥ

57.4

एवं नार्यो न दुष्यन्ति नराणां तत्प्रसूतिषु ।
धर्मपत्न्यो भवन्त्येताः सपुत्रा हव्यकव्यदाः

evaṃ nāryo na duṣyanti narāṇāṃ tatprasūtiṣu |
dharmapatnyo bhavantyetāḥ saputrā havyakavyadāḥ

मार्कण्डेय उवाच

57.5

परस्य भार्या या पूर्वं मृते भर्तरि या पुनः ।
अन्यं भजति भर्तारं ससुता असुता कथम्

parasya bhāryā yā pūrvaṃ mṛte bhartari yā punaḥ |
anyaṃ bhajati bhartāraṃ sasutā asutā katham

नारद उवाच

57.6

असुता वा प्रसूता वा गृहस्थानां परस्त्रियः ।
परामृष्टेति ता वर्ज्या धर्माचारेषु दूषिताः

asutā vā prasūtā vā gṛhasthānāṃ parastriyaḥ |
parāmṛṣṭeti tā varjyā dharmācāreṣu dūṣitāḥ

57.7

न चासां हव्यकव्यानि प्रतिगृह्णन्ति देवताः ।
यस्तासु जनयेत्पुत्रान्न तैः पुत्रमवाप्नुयात्

na cāsāṃ havyakavyāni pratigṛhṇanti devatāḥ |
yastāsu janayetputrānna taiḥ putramavāpnuyāt

मार्कण्डेय उवाच

57.8

परक्षेत्रेषु यो बीजं चापलाद्विसृजेन्नरः ।
कथं पुत्रफलं तस्य भवेत्तदृषिसत्तम

parakṣetreṣu yo bījaṃ cāpalādvisṛjennaraḥ |
kathaṃ putraphalaṃ tasya bhavettadṛṣisattama

नारद उवाच

57.9

अस्वामिके परक्षेत्रे यो नरो बीजमुत्सृजेत् ।
स्वयंवृतोऽऽश्रमस्थायां तद्बीजं न विनश्यति

asvāmike parakṣetre yo naro bījamutsṛjet |
svayaṃvṛto''śramasthāyāṃ tadbījaṃ na vinaśyati

57.10

परक्षेत्रेषु यो बीजं नरो दर्पात्समुत्सृजेत् ।
क्षेत्रिकस्यैव तद्बीजं न बीजी लभते फलम्

parakṣetreṣu yo bījaṃ naro darpātsamutsṛjet |
kṣetrikasyaiva tadbījaṃ na bījī labhate phalam

57.11

नातः परमधर्म्यं चाप्ययशस्यं तथोत्तरम् ।
गर्भादीनां च बहुभिस्ताश्च त्याज्याः समेष्वपि

nātaḥ paramadharmyaṃ cāpyayaśasyaṃ tathottaram |
garbhādīnāṃ ca bahubhistāśca tyājyāḥ sameṣvapi

मार्कण्डेय उवाच

57.12

अथ ये परदारेषु पुत्रा जायन्ति नारद ।
कस्य ते बन्धुदायादा भवन्ति परमद्युते

atha ye paradāreṣu putrā jāyanti nārada |
kasya te bandhudāyādā bhavanti paramadyute

नारद उवाच

57.13

परदारेषु जायेते द्वौ पुत्रौ कुण्डगोलकौ ।
जीवत्यथ पतौ कुण्डो मृते भर्तरि गोलकः

paradāreṣu jāyete dvau putrau kuṇḍagolakau |
jīvatyatha patau kuṇḍo mṛte bhartari golakaḥ

57.14

ते च जाताः परक्षेत्रे देहिनां प्रेत्य चेह च ।
दत्तानि हव्यकव्यानि नाशयन्त्यथ दातृणाम्

te ca jātāḥ parakṣetre dehināṃ pretya ceha ca |
dattāni havyakavyāni nāśayantyatha dātṛṇām

57.15

पितुहि नरकायैते गोलकस्तु विशेषतः ।
चण्डालतुल्यौ तज्जौ हि परत्रेह च नश्यतः

pituhi narakāyaite golakastu viśeṣataḥ |
caṇḍālatulyau tajjau hi paratreha ca naśyataḥ

मार्कण्डेय उवाच

57.16

कस्य ते गर्हिताः पुत्राः पितॄणां हव्यकव्यदाः ।
यस्य क्षेत्रे प्रसूयन्ते यो वा ताञ्जनयेत्सुतान्

kasya te garhitāḥ putrāḥ pitṝṇāṃ havyakavyadāḥ |
yasya kṣetre prasūyante yo vā tāñjanayetsutān

नारद उवाच

57.17

क्षेत्रिकश्चैव बीजी च द्वावेतौ निरयं गतौ ।
न रक्षति च यो दारान्परदाराश्च गच्छति

kṣetrikaścaiva bījī ca dvāvetau nirayaṃ gatau |
na rakṣati ca yo dārānparadārāśca gacchati

57.18

गर्हितास्ते नरा नित्यं धर्माचारबहिष्कृताः ।
कुण्डो भोक्ता च भोगी च कुत्सिताः पितृदैवतैः

garhitāste narā nityaṃ dharmācārabahiṣkṛtāḥ |
kuṇḍo bhoktā ca bhogī ca kutsitāḥ pitṛdaivataiḥ

मार्कण्डेय उवाच

57.19

तथैते गर्हिताः पुत्रा हव्यकव्यानि नारद ।
कस्य नित्यं प्रयच्छन्ति धर्मो वा तेषु किं फलं

tathaite garhitāḥ putrā havyakavyāni nārada |
kasya nityaṃ prayacchanti dharmo vā teṣu kiṃ phalaṃ

नारद उवाच

57.20

यातुधानाः पिशाचाश्च प्रतिगृह्णन्ति तैर्हुतम् ।
हव्यं कव्यं च तैर्दत्तं ये च भूता निशाचराः

yātudhānāḥ piśācāśca pratigṛhṇanti tairhutam |
havyaṃ kavyaṃ ca tairdattaṃ ye ca bhūtā niśācarāḥ

मार्कण्डेय उवाच

57.21

अथ ते राक्षसाः प्रीताः किं प्रयच्छन्ति दातृणाम् ।
किं वा धर्मफलं तेषां भवेत्तदृषिसत्तम

atha te rākṣasāḥ prītāḥ kiṃ prayacchanti dātṛṇām |
kiṃ vā dharmaphalaṃ teṣāṃ bhavettadṛṣisattama

नारद उवाच

57.22

न दत्तं नश्यते किञ्चित्सर्वभूतेषु दातृणाम् ।
प्रेत्य चेह च तां पुष्टिमुपाश्नन्ति प्रदायिनः

na dattaṃ naśyate kiñcitsarvabhūteṣu dātṛṇām |
pretya ceha ca tāṃ puṣṭimupāśnanti pradāyinaḥ

मार्कण्डेय उवाच

57.23

अथ गोलककुण्डाभ्यां सन्ततिर्या भविष्यति ।
तयोर्ये बान्धवाः केचित्प्रदास्यन्ति कथं नु तं

atha golakakuṇḍābhyāṃ santatiryā bhaviṣyati |
tayorye bāndhavāḥ kecitpradāsyanti kathaṃ nu taṃ

नारद उवाच

57.24

साध्वीजाताः सुतास्तेषां तां वृत्तिमनुतिष्ठताम् ।
प्रीणन्ति पितृदैवत्यं हव्यकव्यसमाहिताः

sādhvījātāḥ sutāsteṣāṃ tāṃ vṛttimanutiṣṭhatām |
prīṇanti pitṛdaivatyaṃ havyakavyasamāhitāḥ

57.25

एवं गोलककुण्डाभ्यां ये च वर्णापदेशिनः ।
हव्यं कव्यं च शुद्धानां प्रतिगृह्णन्ति देवताः

evaṃ golakakuṇḍābhyāṃ ye ca varṇāpadeśinaḥ |
havyaṃ kavyaṃ ca śuddhānāṃ pratigṛhṇanti devatāḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)