श्रुतं बहुविधं वृत्तं कन्यकानां महामते ।
इच्छामि योषितां श्रोतुं धर्माधर्मौ परिग्रहे
śrutaṃ bahuvidhaṃ vṛttaṃ kanyakānāṃ mahāmate |
icchāmi yoṣitāṃ śrotuṃ dharmādharmau parigrahe
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्पञ्चाशोऽध्यायः ॥
6 श्लोक · 56 में से 274
कन्याओं के विषय में सुनकर मार्कण्डेय पत्नी ग्रहण करने में धर्म और अधर्म पूछते हैं। नारद कहते हैं कि पुरुष के लिए आठ प्रकार की पत्नियाँ धर्मसम्मत हैं, जो इस लोक और परलोक में हितकारी हैं, और उनके पुत्र हव्य-कव्य दे सकते हैं। पहली तीन ये हैं: पाणिग्रहण से ब्याही साध्वी पत्नी, वह कन्या जिसका अभी विधिवत पाणिग्रहण नहीं हुआ, और भाई की विधवा जिसे अपनी पत्नी मानकर औरस पुत्र उत्पन्न हो। मार्कण्डेय शेष पाँच पूछते हैं। नारद बताते हैं: समान गोत्र की पत्नी, मोल ली गई पत्नी, व्यवस्था से दी गई दूसरे की पत्नी, छोड़कर लौट आई पत्नी, और आश्रम से लाई गई स्त्री। ये भी धर्मसम्मत हैं और इनके पुत्र देवताओं तथा पितरों को अर्पण कर सकते हैं।
मार्कण्डेय उवाच
श्रुतं बहुविधं वृत्तं कन्यकानां महामते ।
इच्छामि योषितां श्रोतुं धर्माधर्मौ परिग्रहे
śrutaṃ bahuvidhaṃ vṛttaṃ kanyakānāṃ mahāmate |
icchāmi yoṣitāṃ śrotuṃ dharmādharmau parigrahe
नारद उवाच
अष्टौ भार्यागमा धर्म्या नराणां दारकर्मणि ।
प्रेत्येह च हिता यास्तु सपुत्रा हव्यकव्यदाः
aṣṭau bhāryāgamā dharmyā narāṇāṃ dārakarmaṇi |
pretyeha ca hitā yāstu saputrā havyakavyadāḥ
साध्वी पाणिगृहीता या कौमारी पाणिवर्जिता ।
भ्रातृभार्या स्वभार्येति प्रसूयेत्पुत्रमौरसम्
sādhvī pāṇigṛhītā yā kaumārī pāṇivarjitā |
bhrātṛbhāryā svabhāryeti prasūyetputramaurasam
मार्कण्डेय उवाच
त्रयो भार्यागमा ज्ञेया यत्र धर्मो न नश्यति ।
पञ्चान्याः पश्चिमा ब्रूहि भार्यास्तासां च ये सुताः
trayo bhāryāgamā jñeyā yatra dharmo na naśyati |
pañcānyāḥ paścimā brūhi bhāryāstāsāṃ ca ye sutāḥ
नारद उवाच
सगोत्रभार्या क्रीता च परभार्या च कारिता ।
गतागता च या भार्या आश्रमादाहृता च या
sagotrabhāryā krītā ca parabhāryā ca kāritā |
gatāgatā ca yā bhāryā āśramādāhṛtā ca yā
एता भार्यागमाः पञ्च पुनर्भार्या भवन्ति याः ।
एता भार्या नृणां गम्यास्तत्पुत्रा हव्यकव्यदाः
etā bhāryāgamāḥ pañca punarbhāryā bhavanti yāḥ |
etā bhāryā nṛṇāṃ gamyāstatputrā havyakavyadāḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)