अनुशासन पर्व

अध्याय 51: स्त्री के आगे अष्टावक्र का अडिग धैर्य

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकपञ्चाशोऽध्यायः ॥

26 श्लोक · 51 में से 274

इस अध्याय में क्या होता है

स्त्री के आगे अष्टावक्र का अडिग धैर्य

भीष्म अष्टावक्र की कथा आगे कहते हैं। वृद्धा स्त्री उनके अंगों पर दिव्य तेल मलती है, गुनगुने जल से स्नान कराती है और सेवा करती है, जिससे पूरी रात अनजाने बीत जाती है। सूर्योदय पर वे चकित होकर सूर्य की उपासना करते हैं और संध्या तक उसका अमृत जैसा भोजन करते हैं। आधी रात को वह उनकी शय्या पर आती है। अष्टावक्र मना करते हैं कि उनका मन परस्त्री में नहीं लगता। वह कहती है कि वह स्वतन्त्र है। वे उत्तर देते हैं कि कुमारी अवस्था में पिता, यौवन में पति और बुढ़ापे में पुत्र स्त्री की रक्षा करते हैं, स्त्री स्वतन्त्रता की अधिकारिणी नहीं। तब वह दिव्य आभूषणों वाली कन्या बनकर पाणिग्रहण की प्रार्थना करती है। अष्टावक्र विस्मित होते हैं पर धैर्य से अडिग रहते हैं।

भीष्म उवाच

51.1

अथ सा स्त्री तमुवाच विप्रमेवं भवत्विति ।
तैलं दिव्यमुपादाय स्नानशाटीमुपानयत्

atha sā strī tamuvāca vipramevaṃ bhavatviti |
tailaṃ divyamupādāya snānaśāṭīmupānayat

51.2

अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना ।
अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षत

anujñātā ca muninā sā strī tena mahātmanā |
athāsya tailenāṅgāni sarvāṇyevābhyamṛkṣata

51.3

शनैश्चाच्छादितस्तत्र स्नानशालामुपागमत् ।
भद्रासनं ततश्चित्रमृषिरन्वगमन्नवम्

śanaiścācchāditastatra snānaśālāmupāgamat |
bhadrāsanaṃ tataścitramṛṣiranvagamannavam

51.4

अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा ।
स्नापयामास शनकैस्तमृषिं सुखहस्तवत् ।
दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा

athopaviṣṭaśca yadā tasminbhadrāsane tadā |
snāpayāmāsa śanakaistamṛṣiṃ sukhahastavat |
divyaṃ ca vidhivaccakre sopacāraṃ munestadā

51.5

जलेन सुसुखोष्णेन तस्या हस्तसुखेन च ।
व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः

jalena susukhoṣṇena tasyā hastasukhena ca |
vyatītāṃ rajanīṃ kṛtsnāṃ nājānātsa mahāvrataḥ

51.6

तत उत्थाय स मुनिस्तदा परमविस्मितः ।
पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि

tata utthāya sa munistadā paramavismitaḥ |
pūrvasyāṃ diśi sūryaṃ ca so'paśyaduditaṃ divi

51.7

सन्ध्योपासनमित्येव सर्वपापहरं न मे ।
तस्य बुद्धिरियं किन्तु मोहस्तत्त्वमिदं भवेत्

sandhyopāsanamityeva sarvapāpaharaṃ na me |
tasya buddhiriyaṃ kintu mohastattvamidaṃ bhavet

51.8

अथोपास्य सहस्रांशुं किं कोरमीत्युवाच ताम् ।
सा चामृतरसप्रख्यं क्रषेरन्नमुपाहरत्

athopāsya sahasrāṃśuṃ kiṃ koramītyuvāca tām |
sā cāmṛtarasaprakhyaṃ kraṣerannamupāharat

51.9

तस्य स्वादुतयाऽन्नस्य न प्रभूतं चकार सः ।
व्यगमच्चाप्यहःशेष ततः सन्ध्याऽऽगमत्पुनः

tasya svādutayā'nnasya na prabhūtaṃ cakāra saḥ |
vyagamaccāpyahaḥśeṣa tataḥ sandhyā''gamatpunaḥ

51.10

अथ सा स्त्री भगवन्तं सुप्यतामित्यचोदयत् ।
तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते

atha sā strī bhagavantaṃ supyatāmityacodayat |
tatra vai śayane divye tasya tasyāśca kalpite

51.11

[पृथक्र्वैव तथा सुप्तौ सा स्त्री स च मुनिस्तदा ।
तथाऽर्थरात्रे सा स्त्री तु शयनं तदुपागमत् ॥]

[pṛthakrvaiva tathā suptau sā strī sa ca munistadā |
tathā'rtharātre sā strī tu śayanaṃ tadupāgamat ||]

अष्टावक्र उवाच

51.12

न भद्रे परदारेषु मनो मे सम्प्रसज्जति ।
उत्तिष्ठ भद्रे भद्रं ते स्वापं वै विरमस्व च

na bhadre paradāreṣu mano me samprasajjati |
uttiṣṭha bhadre bhadraṃ te svāpaṃ vai viramasva ca

भीष्म उवाच

51.13

सा तदा तेन विप्रेण तथा धृत्या निवर्तिता ।
स्वतन्त्राऽस्मीत्युवाचर्षिं न धर्मच्छलमस्ति ते

sā tadā tena vipreṇa tathā dhṛtyā nivartitā |
svatantrā'smītyuvācarṣiṃ na dharmacchalamasti te

अष्टावक्र उवाच

51.14

नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः ।
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति

nāsti svatantratā strīṇāmasvatantrā hi yoṣitaḥ |
prajāpatimataṃ hyetanna strī svātantryamarhati

स्त्र्युवाच

51.15

बाधने मैथुनं विप्र मम भक्तिं च पश्य वै ।
अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि

bādhane maithunaṃ vipra mama bhaktiṃ ca paśya vai |
adharmaṃ prāpsyase vipra yanmāṃ tvaṃ nābhinandasi

अष्टावक्र उवाच

51.16

हरन्ति दोषजातानि नरमिन्द्रियकिङ्करम् ।
प्रभवामि सदा धृत्या भद्रे स्वशयनं व्रज

haranti doṣajātāni naramindriyakiṅkaram |
prabhavāmi sadā dhṛtyā bhadre svaśayanaṃ vraja

स्त्र्युवाच

51.17

शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि ।
भूमौ निपतमानायाः शरणं भव मेऽनघ

śirasā praṇame vipra prasādaṃ kartumarhasi |
bhūmau nipatamānāyāḥ śaraṇaṃ bhava me'nagha

51.18

यदि वा दोषजातं त्वं परदारेषु पश्यसि ।
आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज

yadi vā doṣajātaṃ tvaṃ paradāreṣu paśyasi |
ātmānaṃ sparśayāmyadya pāṇiṃ gṛhṇīṣva me dvija

51.19

न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम् ।
स्वतन्त्रां मां विजानीहि यो धर्मः सोस्तु वै मयि ।
त्वय्यावेशितचित्ता च स्वतन्त्राऽस्मि भजस्व माम्

na doṣo bhavitā caiva satyenaitadbravīmyaham |
svatantrāṃ māṃ vijānīhi yo dharmaḥ sostu vai mayi |
tvayyāveśitacittā ca svatantrā'smi bhajasva mām

अष्टावक्र उवाच

51.20

स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै ।
नास्ति त्रिलोके स्त्री काचिद्या वै स्वातन्त्र्यमर्हति

svatantrā tvaṃ kathaṃ bhadre brūhi kāraṇamatra vai |
nāsti triloke strī kācidyā vai svātantryamarhati

51.21

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ।
न वृद्धामक्षतां मन्ये च चेच्छा त्वयि मेऽनघे

pitā rakṣati kaumāre bhartā rakṣati yauvane |
putrastu sthāvire bhāve na strī svātantryamarhati |
na vṛddhāmakṣatāṃ manye ca cecchā tvayi me'naghe

स्त्र्युवाच

51.22

कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः ।
पत्नीं कुरुष्व मां विप्र श्रद्धां विजहि मा मम

kaumāraṃ brahmacaryaṃ me kanyaivāsmi na saṃśayaḥ |
patnīṃ kuruṣva māṃ vipra śraddhāṃ vijahi mā mama

अष्टावक्र उवाच

51.23

यथा मम तथा तुभ्यं यथा तुभ्यं तथा मम ।
जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत्

yathā mama tathā tubhyaṃ yathā tubhyaṃ tathā mama |
jijñāseyamṛṣestasya vighnaḥ satyaṃ nu kiṃ bhavet

51.24

आश्चर्यं परमं हीदं किन्नु श्रेयो हि मे भवेत् ।
दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता

āścaryaṃ paramaṃ hīdaṃ kinnu śreyo hi me bhavet |
divyābharaṇavastrā hi kanyeyaṃ māmupasthitā

51.25

किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः ।
कन्यारूपमिहाद्यैवं किमिवात्रोत्तरं भवेत्

kiṃ tvasyāḥ paramaṃ rūpaṃ jīrṇamāsītkathaṃ punaḥ |
kanyārūpamihādyaivaṃ kimivātrottaraṃ bhavet

51.26

यथा मे परमा शक्तिर्न व्युत्थाने कथंचन ।
न रोचते हि व्युत्थानं सत्येनासादयाम्यहम्

yathā me paramā śaktirna vyutthāne kathaṃcana |
na rocate hi vyutthānaṃ satyenāsādayāmyaham

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)