अनुशासन पर्व

अध्याय 52: उत्तर दिशा का प्रकट होना और अष्टावक्र का विवाह

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणिः द्विपञ्चाशोऽध्यायः ॥

23 श्लोक · 52 में से 274

इस अध्याय में क्या होता है

उत्तर दिशा का प्रकट होना और अष्टावक्र का विवाह

युधिष्ठिर पूछते हैं कि वह स्त्री शाप से क्यों नहीं डरी और मुनि कैसे लौटे। भीष्म बताते हैं। अष्टावक्र उससे सच कहने को कहते हैं कि वह रूप क्यों बदलती है। वह प्रकट करती है कि वह स्वयं उत्तर दिशा है और उनकी स्थिरता की परीक्षा के लिए भेजी गई थी। न डिगने से उन्होंने लोक जीत लिए हैं और ब्रह्मा तथा इन्द्र सहित देवता प्रसन्न हैं। वह बताती है कि काम का ज्वर वृद्ध स्त्रियों को भी सताता है, और जो विद्वान, सुशील पुरुष अपनी पत्नी के प्रति निष्ठावान रहता है वह सुख पाता है। उसे कन्या के पिता वदान्य ने उपदेश हेतु भेजा था। अष्टावक्र घर लौटकर वदान्य को सब सुनाते हैं, उनकी कन्या से विवाह करते हैं और अपने आश्रम में सुख से रहते हैं।

युधिष्ठिर उवाच

52.1

न बिभेति कथं सा स्त्री शापाच्च परमद्युते ।
कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे

na bibheti kathaṃ sā strī śāpācca paramadyute |
kathaṃ nivṛtto bhagavāṃstadbhavānprabravītu me

भीष्म उवाच

52.2

अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम् ।
न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया

aṣṭāvakro'nvapṛcchattāṃ rūpaṃ vikuruṣe katham |
na cānṛtaṃ te vaktavyaṃ brūhi brāhmaṇakāmyayā

स्त्र्युवाच

52.3

द्यावापृथिव्योर्यत्रैषा काम्या ब्राह्मणसत्तम ।
शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम

dyāvāpṛthivyoryatraiṣā kāmyā brāhmaṇasattama |
śṛṇuṣvāvahitaḥ sarvaṃ yadidaṃ satyavikrama

52.4

जिज्ञासेयं प्रयुक्ता मे स्थैर्यं कर्तुं तवानघ ।
अव्युत्थानेन ते लोका जिताः सत्यपराक्रम

jijñāseyaṃ prayuktā me sthairyaṃ kartuṃ tavānagha |
avyutthānena te lokā jitāḥ satyaparākrama

52.5

उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते ।
स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः

uttarāṃ māṃ diśaṃ viddhi dṛṣṭaṃ strīcāpalaṃ ca te |
sthavirāṇāmapi strīṇāṃ bādhate maithunajvaraḥ

52.6

अविश्वासो न व्यसनी नातिसक्तोऽप्रवासकः ।
विद्वान्सुशीलः पुरुषः सदारः सुखमश्नुते

aviśvāso na vyasanī nātisakto'pravāsakaḥ |
vidvānsuśīlaḥ puruṣaḥ sadāraḥ sukhamaśnute

52.7

तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः

tuṣṭaḥ pitāmahaste'dya tathā devāḥ savāsavāḥ

52.8

सत्वं येन च कार्येण सम्प्राप्तो भगवानिह ।
प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभः

satvaṃ yena ca kāryeṇa samprāpto bhagavāniha |
preṣitastena vipreṇa kanyāpitrā dvijarṣabhaḥ

52.9

प्रेषितश्चोपदेशाय तच्च सर्वं श्रुतं त्वया

preṣitaścopadeśāya tacca sarvaṃ śrutaṃ tvayā

52.10

नितान्तं स्त्री भोगपरा प्रियवादाप्रवासनात् ।
रक्ष्यते चाकुचेलाद्यैरप्रसङ्गानुवर्तनैः

nitāntaṃ strī bhogaparā priyavādāpravāsanāt |
rakṣyate cākucelādyairaprasaṅgānuvartanaiḥ

52.11

अपर्वस्वनिषिद्धासु रात्रिष्वप्यनृतौ व्रजेत् ।
रात्रौ च नातिनियमो न वै ह्यनियमो भवेत् ॥

aparvasvaniṣiddhāsu rātriṣvapyanṛtau vrajet |
rātrau ca nātiniyamo na vai hyaniyamo bhavet ||

52.12

क्षेमैर्गमिष्यसि गृहं श्रमश्च न भविष्यति ।
कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति

kṣemairgamiṣyasi gṛhaṃ śramaśca na bhaviṣyati |
kanyāṃ prāpsyasi tāṃ vipra putriṇī ca bhaviṣyati

52.13

काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम् ।
अनतिक्रमणीया साकृत्स्नैर्लोकैस्त्रिभिः सदा

kāmyayā pṛṣṭavāṃstvaṃ māṃ tato vyāhṛtamuttaram |
anatikramaṇīyā sākṛtsnairlokaistribhiḥ sadā

52.14

गच्छस्व कृतकृत्यस्त्वं किं वाऽन्यच्छ्रोतुमिच्छसि ।
यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम्

gacchasva kṛtakṛtyastvaṃ kiṃ vā'nyacchrotumicchasi |
yāvadbravīmi viprarṣe aṣṭāvakra yathātatham

52.15

ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ ।
तस्य सम्माननार्थं मे त्वयि वाक्यं प्रभाषितम्

ṛṣiṇā prasāditā cāsmi tava hetordvijarṣabha |
tasya sammānanārthaṃ me tvayi vākyaṃ prabhāṣitam

भीष्म उवाच

52.16

श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः ।
अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत्

śrutvā tu vacanaṃ tasyāḥ sa vipraḥ prāñjaliḥ sthitaḥ |
anujñātastayā cāpi svagṛhaṃ punarāvrajat

52.17

गृहमागत्य विश्रान्तः स्वजनं परिपृच्छ्य च ।
अभ्यागच्छच्च तं विप्रं न्यायतः कुरुनन्दन

gṛhamāgatya viśrāntaḥ svajanaṃ paripṛcchya ca |
abhyāgacchacca taṃ vipraṃ nyāyataḥ kurunandana

52.18

पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम् ।
प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना

pṛṣṭaśca tena vipreṇa dṛṣṭaṃ tvetannidarśanam |
prāha vipraṃ tadā vipraḥ suprītenāntarātmanā

52.19

भवताऽहमनुज्ञातः प्रास्थितो गन्धमादनम् ।
तस्य चोत्तरतो देशे दृष्टं मे दैवतं महत्

bhavatā'hamanujñātaḥ prāsthito gandhamādanam |
tasya cottarato deśe dṛṣṭaṃ me daivataṃ mahat

52.20

तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः ।
श्रावितश्चापि तद्वाक्यं गृहं चाभ्यागतः प्रभो

tayā cāhamanujñāto bhavāṃścāpi prakīrtitaḥ |
śrāvitaścāpi tadvākyaṃ gṛhaṃ cābhyāgataḥ prabho

52.21

तमुवाच तदा विप्रः सुतां प्रतिगृहाण मे ।
नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान्

tamuvāca tadā vipraḥ sutāṃ pratigṛhāṇa me |
nakṣatratithisaṃyoge pātraṃ hi paramaṃ bhavān

52.22

अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो ।
कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा

aṣṭāvakrastathetyuktvā pratigṛhya ca tāṃ prabho |
kanyāṃ paramadharmātmā prītimāṃścābhavattadā

52.23

कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम् ।
उवास मुदितस्तत्र श्वाश्रमे विगतज्वरः

kanyāṃ tāṃ pratigṛhyaiva bhāryāṃ paramaśobhanām |
uvāsa muditastatra śvāśrame vigatajvaraḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)