अनुशासन पर्व

अध्याय 5: मतंग छन्दोदेव बनकर स्त्रियों से पूजित होते हैं

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चमोध्यायः ॥

28 श्लोक · 5 में से 274

इस अध्याय में क्या होता है

मतंग छन्दोदेव बनकर स्त्रियों से पूजित होते हैं

मतंग सहस्र वर्ष एक पैर पर खड़े रहते हैं, और इन्द्र फिर मना करते हैं। मतंग गया जाकर सौ वर्ष अँगूठे पर खड़े रहते हैं और हड्डी-चमड़ी मात्र रह जाते हैं। इन्द्र उनका हाथ पकड़कर ब्राह्मण की महिमा कहते हैं, जिनसे देवता, पितर और सब प्राणी तृप्त होते हैं। मतंग तीखा उत्तर देते हैं कि उन्हें उन पर शोक है जो ब्राह्मण होकर भी इस दुर्लभ पद का अनादर करते हैं, जबकि वे एकान्तवासी, अपरिग्रही और अहिंसक होकर भी माता के दोष से वंचित हैं; दैव को पुरुषार्थ नहीं लाँघ सकता। फिर वे इच्छानुसार रूप धरकर पक्षी की तरह विचरने, ब्राह्मण-क्षत्रिय के विरोध बिना पूजा पाने और अक्षय कीर्ति का वर माँगते हैं। इन्द्र कहते हैं, छन्दोदेव नाम से स्त्रियाँ तुम्हें पूजेंगी।

भीष्म उवाच

5.1

एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः ।
सहस्रमेकपादेन ततो ध्याने व्यतिष्ठत

evamukto mataṅgastu saṃśitātmā yatavrataḥ |
sahasramekapādena tato dhyāne vyatiṣṭhata

5.2

तं सहस्रावरे काले शक्रो द्रष्टुमुपागमत् ।
तदेव च पुनर्वाक्यमुवाच बलवृत्रहा

taṃ sahasrāvare kāle śakro draṣṭumupāgamat |
tadeva ca punarvākyamuvāca balavṛtrahā

मतङ्ग उवाच

5.3

इदं वर्षसहस्रं वै ब्रह्मचारी समाहितः ।
अतिष्ठमेकपादेन ब्राह्मण्यं नाप्नुयां कथम्

idaṃ varṣasahasraṃ vai brahmacārī samāhitaḥ |
atiṣṭhamekapādena brāhmaṇyaṃ nāpnuyāṃ katham

शक्र उवाच

5.4

चण्डालयोनो जातेन नावाप्यं वै कथञ्चन ।
अन्यं कामं वृणीष्व त्वं मा वृथा तेऽस्त्वयं श्रमः

caṇḍālayono jātena nāvāpyaṃ vai kathañcana |
anyaṃ kāmaṃ vṛṇīṣva tvaṃ mā vṛthā te'stvayaṃ śramaḥ

5.5

एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः ।
अध्यतिष्ठद्गयां गत्वा सोऽङ्गुष्टेन शतं समाः

evamukto mataṅgastu bhṛśaṃ śokaparāyaṇaḥ |
adhyatiṣṭhadgayāṃ gatvā so'ṅguṣṭena śataṃ samāḥ

5.6

सुदुर्वहं वहन्योगं कृशो धमनिसन्ततः ।
त्वगस्थिभूतो धर्मात्मा स ततापेति नः श्रुतम्

sudurvahaṃ vahanyogaṃ kṛśo dhamanisantataḥ |
tvagasthibhūto dharmātmā sa tatāpeti naḥ śrutam

5.7

तं तपन्तमभिद्रुत्य पाणिं जग्राह वासवः ।
वराणामीश्वरो दाता सर्वभूतहिते रतः

taṃ tapantamabhidrutya pāṇiṃ jagrāha vāsavaḥ |
varāṇāmīśvaro dātā sarvabhūtahite rataḥ

5.8

मतङ्ग ब्राह्मणत्वं ते विरुद्धमिह दृश्यते ।
ब्राह्मण्यं दुर्लभतरं संवृतं परिपन्थिभिः

mataṅga brāhmaṇatvaṃ te viruddhamiha dṛśyate |
brāhmaṇyaṃ durlabhataraṃ saṃvṛtaṃ paripanthibhiḥ

5.9

पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन् ।
ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः

pūjayansukhamāpnoti duḥkhamāpnotyapūjayan |
brāhmaṇe sarvabhūtānāṃ yogakṣemaḥ samāhitaḥ

5.10

ब्राह्मणेभ्योऽनुतृप्यन्ते पितरो देवतास्तथा ।
ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते

brāhmaṇebhyo'nutṛpyante pitaro devatāstathā |
brāhmaṇaḥ sarvabhūtānāṃ mataṅga para ucyate

5.11

ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति

brāhmaṇaḥ kurute taddhi yathā yadyacca vāñchati

5.12

बह्वीस्तु संसरन्योनीर्जायमानः पनुःपुनः ।
पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति

bahvīstu saṃsaranyonīrjāyamānaḥ panuḥpunaḥ |
paryāye tāta kasmiṃścidbrāhmaṇyamiha vindati

5.13

तदुत्सृज्येह दुष्प्रापं ब्राह्मण्यमकृतात्मभिः ।
अन्यं वरं वृणीष्व त्वं दुर्लभोऽयं हि ते वरः

tadutsṛjyeha duṣprāpaṃ brāhmaṇyamakṛtātmabhiḥ |
anyaṃ varaṃ vṛṇīṣva tvaṃ durlabho'yaṃ hi te varaḥ

5.14

किं मां तुदसि दुःखार्तं मृतं मारयसे च माम् ।
त्वां तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषसे

kiṃ māṃ tudasi duḥkhārtaṃ mṛtaṃ mārayase ca mām |
tvāṃ tu śocāmi yo labdhvā brāhmaṇyaṃ na bubhūṣase

5.15

ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्दुरासदम् ।
सुदुर्लभं सदावाप्य नानुतिष्ठन्ति मानवाः

brāhmaṇyaṃ yadi duṣprāpaṃ tribhirvarṇairdurāsadam |
sudurlabhaṃ sadāvāpya nānutiṣṭhanti mānavāḥ

5.16

ये पापेभ्यः पापतमास्तेषामधम एव सः ।
ब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम्

ye pāpebhyaḥ pāpatamāsteṣāmadhama eva saḥ |
brāhmaṇyaṃ yo'vajānīte dhanaṃ labdhveva durlabham

5.17

दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम् ।
दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः

duṣprāpaṃ khalu vipratvaṃ prāptaṃ duranupālanam |
duravāpamavāpyaitannānutiṣṭhanti mānavāḥ

5.18

एकारामो ह्यहं शक्र निर्न्द्वद्वो निष्परिग्रहः ।
अहिंसादममास्थाय कथं नार्हामि विप्रताम्

ekārāmo hyahaṃ śakra nirndvadvo niṣparigrahaḥ |
ahiṃsādamamāsthāya kathaṃ nārhāmi vipratām

5.19

दैवं तु कथमेतद्वै यदहं मातृदोषतः ।
एतामवस्थां सम्प्राप्तो धर्मज्ञः सन्पुरन्दरं

daivaṃ tu kathametadvai yadahaṃ mātṛdoṣataḥ |
etāmavasthāṃ samprāpto dharmajñaḥ sanpurandaraṃ

5.20

नूनं दैवं न शक्यं हि पौरुषेणातिवर्तितुम् ।
यदर्थं यत्नवानेव न लभे विप्रतां विभो

nūnaṃ daivaṃ na śakyaṃ hi pauruṣeṇātivartitum |
yadarthaṃ yatnavāneva na labhe vipratāṃ vibho

5.21

एवंगते तु धर्मज्ञ दातुमर्हसि मे वरम् ।
यदि तेऽहमनुग्राह्यः किचिद्वा सुकृतं मम

evaṃgate tu dharmajña dātumarhasi me varam |
yadi te'hamanugrāhyaḥ kicidvā sukṛtaṃ mama

वैशम्पायन उवाच

5.22

वृणीष्वेति तदा प्राह ततस्तं बलवृत्रहा ।
चोदितस्तु महेन्द्रेण मतङ्गः प्राब्रवीदिदम्

vṛṇīṣveti tadā prāha tatastaṃ balavṛtrahā |
coditastu mahendreṇa mataṅgaḥ prābravīdidam

5.23

यथा कामविहारी स्यां कामरूपी विहङ्गमः ।
ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम्

yathā kāmavihārī syāṃ kāmarūpī vihaṅgamaḥ |
brahmakṣatrāvirodhena pūjāṃ ca prāpnuyāmaham

5.24

यथा ममाक्षया कीर्तिर्भवेच्चापि पुरन्दर ।
कर्तुमर्हसि तद्देव शिरसा त्वां प्रसादये

yathā mamākṣayā kīrtirbhaveccāpi purandara |
kartumarhasi taddeva śirasā tvāṃ prasādaye

शक्र उवाच

5.25

मतङ्ग गम्यतां शीघ्रमेवमेतद्भविष्यति ।
स्त्रियः सर्वास्त्वया लोके यक्ष्यन्ते भूतिकर्मणि

mataṅga gamyatāṃ śīghramevametadbhaviṣyati |
striyaḥ sarvāstvayā loke yakṣyante bhūtikarmaṇi

5.26

छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि ।
कीर्तिश्च तेऽतुला वत्स त्रिषु लोकेषु यास्यति

chandodeva iti khyātaḥ strīṇāṃ pūjyo bhaviṣyasi |
kīrtiśca te'tulā vatsa triṣu lokeṣu yāsyati

5.27

एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत ।
प्राणांस्त्यक्त्वा मतङ्गोपि प्राप तत्स्थानमुत्तमम्

evaṃ tasmai varaṃ dattvā vāsavo'ntaradhīyata |
prāṇāṃstyaktvā mataṅgopi prāpa tatsthānamuttamam

5.28

एवमेव परं स्थानं मर्त्यानां भरतर्षभ ।
ब्राह्मण्यं नाम दुष्प्रापमिन्द्रेणोक्तं महात्मना

evameva paraṃ sthānaṃ martyānāṃ bharatarṣabha |
brāhmaṇyaṃ nāma duṣprāpamindreṇoktaṃ mahātmanā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)