ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैर्नराधिप ।
कथं प्राप्तं महाराज क्षत्रियेण महात्मना
brāhmaṇyaṃ yadi duṣprāpyaṃ tribhirvarṇairnarādhipa |
kathaṃ prāptaṃ mahārāja kṣatriyeṇa mahātmanā
इति श्रीमन्महाभारते अनुशासनपर्वणि दानदर्मपर्वणि षष्ठोऽध्यायः ॥
19 श्लोक · 6 में से 274
युधिष्ठिर पूछते हैं कि ब्राह्मणत्व इतना दुर्लभ है तो क्षत्रिय विश्वामित्र ने उसे कैसे पाया। वे उन मुनि के कर्म गिनाते हैं। उनके तेज से वसिष्ठ के सौ पुत्र मारे गए और क्रोध में उन्होंने भयंकर राक्षस रचे। उन्होंने ब्रह्मर्षियों से भरा कुशिक वंश स्थापित किया, हरिश्चन्द्र के यज्ञ में बँधे ऋचीकपुत्र शुनःशेप को छुड़ाकर पुत्र बनाया, और देवरात को ज्येष्ठ न मानने वाले अपने पचास पुत्रों को शाप दिया। उन्होंने त्रिशंकु को दक्षिण आकाश में औंधे सिर स्वर्ग भेजा और बहन को कौशिकी नदी बनाया। उनके शाप से रम्भा शिला बनी, और उनके भय से स्वयं को बाँधकर जल में डूबे वसिष्ठ बन्धनमुक्त निकले, जिससे विपाशा नाम पड़ा। मतंग जो न पा सके, वह इन्होंने बिना दूसरे जन्म के कैसे पाया?
युधिष्ठिर उवाच
ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैर्नराधिप ।
कथं प्राप्तं महाराज क्षत्रियेण महात्मना
brāhmaṇyaṃ yadi duṣprāpyaṃ tribhirvarṇairnarādhipa |
kathaṃ prāptaṃ mahārāja kṣatriyeṇa mahātmanā
विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ ।
श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह
viśvāmitreṇa dharmātmanbrāhmaṇatvaṃ nararṣabha |
śrotumicchāmi tattvena tanme brūhi pitāmaha
तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः ।
हतं पुत्रशतं सद्यस्तपसाऽपि पितामह
tena hyamitavīryeṇa vasiṣṭhasya mahātmanaḥ |
hataṃ putraśataṃ sadyastapasā'pi pitāmaha
यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः ।
मन्युनाऽऽविष्टदेहेन सृष्टाः कालान्तकोपमाः
yātudhānāśca bahavo rākṣasāstigmatejasaḥ |
manyunā''viṣṭadehena sṛṣṭāḥ kālāntakopamāḥ
महान्कुशिकवंशश्च ब्रह्मर्षिशतसंकुलः ।
स्थापितो नरलोकेऽस्मिन्विद्वद्ब्राह्मणसंकुलः
mahānkuśikavaṃśaśca brahmarṣiśatasaṃkulaḥ |
sthāpito naraloke'sminvidvadbrāhmaṇasaṃkulaḥ
ऋतीकस्यात्मजश्चैव शुनःशेपो महातपाः ।
विमोक्षितो महासत्रात्पशुतामप्युपागतः
ṛtīkasyātmajaścaiva śunaḥśepo mahātapāḥ |
vimokṣito mahāsatrātpaśutāmapyupāgataḥ
हरिश्चन्द्रक्रतौ देवांस्तोषयित्वाऽऽत्मतेजसा ।
पुत्रतामनुसंप्राप्तो विश्वामित्रस्य धीमतः
hariścandrakratau devāṃstoṣayitvā''tmatejasā |
putratāmanusaṃprāpto viśvāmitrasya dhīmataḥ
नाभिवादयते ज्येष्ठं देवरातं नराधिप ।
पुत्राः पञ्चशतं चापि शप्ताः श्वपचतां गताः
nābhivādayate jyeṣṭhaṃ devarātaṃ narādhipa |
putrāḥ pañcaśataṃ cāpi śaptāḥ śvapacatāṃ gatāḥ
त्रिशङ्कुर्बन्धुभिर्मुक्त ऐक्ष्वाकः प्रीतिपूर्वकम् ।
अवाक्शिरादिवं नीतो दक्षिणामाश्रितोदिशम्
triśaṅkurbandhubhirmukta aikṣvākaḥ prītipūrvakam |
avākśirādivaṃ nīto dakṣiṇāmāśritodiśam
विश्वामित्रस्य भगिनी नदी देवर्षिसेविता ।
कौशिकीति कृता पुण्या ब्रह्मर्षिसुरसेविता
viśvāmitrasya bhaginī nadī devarṣisevitā |
kauśikīti kṛtā puṇyā brahmarṣisurasevitā
तपोविघ्नकरी चैव पञ्चचूडा सुसंमता ।
रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता
tapovighnakarī caiva pañcacūḍā susaṃmatā |
rambhā nāmāpsarāḥ śāpādyasya śailatvamāgatā
तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा ।
आत्मानं मञ्जयञ्श्रीमान्विपाशः पुनरुत्थितः
tathaivāsya bhayādbaddhvā vasiṣṭhaḥ salile purā |
ātmānaṃ mañjayañśrīmānvipāśaḥ punarutthitaḥ
तदाप्रभृति पुण्या हि विपाशाऽभून्महानदी ।
विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः
tadāprabhṛti puṇyā hi vipāśā'bhūnmahānadī |
vikhyātā karmaṇā tena vasiṣṭhasya mahātmanaḥ
वश्यश्च भगवान्येन देवसेनाग्रगः प्रभुः ।
स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममुञ्चत
vaśyaśca bhagavānyena devasenāgragaḥ prabhuḥ |
stutaḥ prītamanāścāsīcchāpāccainamamuñcata
ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च ।
मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम्
dhruvasyauttānapādasya brahmarṣīṇāṃ tathaiva ca |
madhye jvalati yo nityamudīcīmāśrito diśam
तस्यैतानि च कर्माणि तथाऽन्यानि च कौरव ।
क्षत्रियस्येत्यतो जातमिदं कौहतूलं मम
tasyaitāni ca karmāṇi tathā'nyāni ca kaurava |
kṣatriyasyetyato jātamidaṃ kauhatūlaṃ mama
किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ ।
देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत्
kimetaditi tattvena prabrūhi bharatarṣabha |
dehāntaramanāsādya kathaṃ sa brāhmaṇo'bhavat
एतत्तत्वेन मे तात सर्वमाख्यातुमर्हसि ।
मतङ्गस्य यथातत्त्वं तथैवैतद्वदस्व मे
etattatvena me tāta sarvamākhyātumarhasi |
mataṅgasya yathātattvaṃ tathaivaitadvadasva me
स्थाने मतङ्गो ब्राह्मण्यं नालभद्भरतर्षभ ।
चण्डालयोनौजातो हि कथं ब्राह्मण्यमाप्तवान्
sthāne mataṅgo brāhmaṇyaṃ nālabhadbharatarṣabha |
caṇḍālayonaujāto hi kathaṃ brāhmaṇyamāptavān
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)